संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|प्रपञ्चसारतन्त्रम्| चतुर्थः पटलः प्रपञ्चसारतन्त्रम् विशेष माहिती प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः षोडशः पटलः सप्तदशः पटलः अष्टादशः पटलः एकोनविंशः पटलः विंशः पटलः एकविंशः पटलः द्वाविंशः पटलः त्रयोविंशः पटलः चतुर्विंशः पटलः पञ्चविंशः पटलः षड्विंशः पटलः सप्तविंशः पटलः अष्टाविंशः पटलः एकोनत्रिंशः पटलः त्रिंशः पटलः एकत्रिंशः पटलः द्वात्रिंशः पटलः त्रयस्त्रिंशः पटलः चतुर्थः पटलः प्रपञ्चसारतन्त्रम् (Prapancasaratantra), ज्याचा अर्थ 'ब्रह्मांडाचे सार' असा आहे. Tags : prapanchasarshankaracharyaप्रपञ्चसारतन्त्रशंकराचार्य चतुर्थः पटलः Translation - भाषांतर अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते ।कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥१॥प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः ।षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥२॥पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह ।करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥३॥ईकारस्य गुणाः प्रोक्ताः षडिति क्रमतो बुधैः ।ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव तु ॥४॥प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः ।ऋकाराद्यास्तु चत्वारो रेफोत्था ऌपराः स्मृताः ॥५॥एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् ।ईकारस्य षडङ्गेभ्य इतीदं षोडशांशवत् ॥६॥येभ्यः सञ्जज्ञिरींशेभ्यः स्वराः षोडश सर्वगाः ।तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥७॥गतो वो बीजतामेष प्राणिष्वेव व्यवस्थितः ।ब्रह्माण्डं ग्रस्तमेतेन व्याप्तस्थावरजङ्गमम् ॥८॥नादः प्राणश्च जीवश्च घोषश्चेत्यादि कथ्यते ।एष पुंस्त्रीनियमितैर्लिङ्गैश्च सनपुंसकैः ॥९॥रेफो मायाबीजमिति त्रिधा समभिधीयते ।शक्तिः श्रीः सन्नतिः कान्तिर्लक्ष्मीर्मेधा सरस्वती ॥१०॥क्षान्तिः पुष्टिः स्मृतिः शान्तिरित्याद्यैः स्वार्थवाचकैः ।नानाविकारतां प्राप्तैः स्वैः स्वैर्भावैर्विकल्पितैः ॥११॥तामेनां कुण्डलीत्येते सन्तो हृदयगां विदुः ।सा रौति सततं देवी भृङ्गी सङ्गीतकध्वनिः ॥१२॥आकृतिं स्वेन भावेन पिण्डितां बहुधा विदुः ।कुण्डली सर्वथा ज्ञेया सुषुम्नानुगतैव सा ॥१३॥चराचरस्य जगतो बीजत्वान्मूलमेव तत् ।मूलस्य बिन्दुयोगेन शतानन्द त्वदुद्भवः ॥१४॥रेफान्वितेकाराकारयोगादुत्पत्तिरेतयोः ।हङ्काराख्यो भवांस्तेन हरिरित्येष शब्द्यते ॥१५॥हरत्वमस्य तेनैव सर्वात्मत्वं ममापि च ।अस्य बिन्दोः समुद्भूत्या तदन्तो हं स उच्यते ॥१६॥स हङ्कारः पुमान्प्रोक्तः स इति प्रकृतिः स्मृता ।अजपेयं मता शक्तिस्तथा दक्षिणवामगा ॥१७॥बिन्दुर्दक्षिणभागस्तु वामभागौ विसर्गकः ।तेन दक्षिणवामाख्यौ भानौ पुंस्त्रीविशेषितौ ॥१८॥बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिर्मता ।पुम्प्रकृत्यात्मको हंसस्तदात्मकमिदं जगत् ॥१९॥पुंरूपं सा विदित्वा स्वं सोऽहम्भावमुपागता ।स एष परमात्माख्यो मनुरस्य महामनोः ॥२०॥सकारं च हकारं च लोपयित्वा प्रयोजयेत् ।सन्धिं वै पूर्वरूपाख्यं ततोऽसौ प्रणवो भवेत् ॥२१॥ताराद्विभक्ताच्चरमांशतः स्यु-र्भूतानि खादीन्यथ मध्यमांशात् ।इनादितेजांसि च पूर्वभागा-च्छब्दाः समस्ताः प्रभवन्ति लोके ॥२२॥एवमेषा जगत्सूतिः सवितेत्यभिधीयते ।यदा तदैति स्वैस्तत्त्वैश्चतुर्विंशतिधा भिदाम् ॥२३॥तद्वर्णभिन्ना गायत्री गायकत्राणनाद्भवेत् ।सप्तग्रहात्मिका प्रोक्ता यदेयं सप्तभेदिनी ॥२४॥तदा स्वरेशः सूर्योऽयं कवर्गेशस्तु लोहितः ।चवर्गप्रभवः काव्यष्टवर्गाद्बुधसम्भवः ॥२५॥तवर्गोत्थः सुरगुरुः पवर्गोत्थः शनैश्चरः ।यवर्गजोऽयं शीतांशुरिति सप्तगुणा त्वियम् ॥२६॥यथा स्वरेभ्यो नान्ये स्युर्वर्णाः षड्वर्गभेदिताः ।तथा सवित्रनुस्यूतं गृहषट्कं न संशयः ॥२७॥इति संलीनसूर्यांशे वर्गषट्के तु षड्गुणाः ।हृल्लेखेयं तथा यन्त्रं स्मर्यते स्मृतिकोविदैः ॥२८॥सर्वव्याप्ता हि सा शक्तिः शश्वद्भास्कररूपिणी ।स्वभासा क्रमते यत्र तत्रास्या स्थितिरिष्यते ॥२९॥अस्यास्तु रजसा चैव तमसा च दिवानिशम् ।सत्त्वावष्टब्धबिन्द्वात्मा मेरुं चरति भास्करः ॥३०॥अस्या विकाराद्वर्णेभ्यो जाता द्वादशराशयः ।लवादिकालोपचितैस्तैः स्याच्चक्रगतिस्त्रिधा ॥३१॥ऋक्षराश्यादियुतया चक्रगत्या जगत्स्थितिः ।वक्ष्यामि चक्ररूपं च प्रबन्धं राशिभिर्यथा ॥३२॥अन्तर्बहिर्विभागेन रचयेद्राशिमण्डलम् ।भूचक्र एष मेषादिः प्रविज्ञेयोऽथ मानुषः ॥३३॥आद्यैर्मेषाह्वयो राशिरीकारान्तैः प्रजायते ।ऋकारान्तैरुकाराद्यैवृषो युग्मं ततस्त्रिभिः ॥३४॥एदैतोः कर्कटो राशिरोदौतोः सिंहसम्भवः ।अमः शवर्गलेभ्यश्च सञ्जाता कन्यका मता ॥३५॥षड्भ्यः कचटतेभ्यश्च पयाभ्यां च प्रजज्ञिरे ।वणिगाद्यास्तु मीनान्ता राशयः शक्तिजृम्भणात् ॥३६॥चतुर्भिर्यादिभिः सार्धं स्यात्क्षकारस्तु मीनगः ।स्यातामर्धाधिके पञ्चनाडिकौ चापकर्कटौ ॥३७॥पादाधिका मकरयुक्सिंहवृश्चिकसंज्ञकाः ।पादोनौ कुम्भवृषभौ वाणिक्कन्ये च पञ्चके ॥३८॥त्रिपादोनौ मीनमेषौ सङ्ख्योक्ता राशिसंश्रिता ।चापनीरजयुक्कन्याः पीताः स्युरुभयास्त्वमी ॥३९॥वणिङ्मकरमेषाह्वकुलीरा रक्तरोचिषः ।चरावशिष्टाश्चत्वारः स्थिराः श्वेताः पृथङ्मताः ॥४०॥स्युः कर्कटो वृश्चिकमीनराशीविप्रा नृपाः सिंहकधन्वमेषाः ।तुला सकुम्भा मिथुनं च वैश्याःकन्या वृषोऽथो मकरश्च शूद्राः ॥४१॥अङ्गारावजवृश्चिकौ वृषतुले शुक्रस्य युक्कन्यकेबोधै कर्कटकाह्वयो हिमरुचः सिंहस्तथा गोपतेः ।चापाब्जावपि धैषणौ मकरकुम्भाख्यौ च मान्दौ ग्रहाःप्रोक्ता राश्यधिपा बलौ च कलशे सोऽयं क्रमो र्दिशतः ॥४२॥लग्नो धनभ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।मरणं धर्मकर्मायव्यया द्वादशराशयः ॥४३॥ततस्तदूध्र्वभागस्थो भुवश्चक्रः समस्तथा ।स तु सिंहादिको यस्मिन्पैतृकी नियता गतिः ॥४४॥तदूध्र्वभागसंस्थः स्यात्स्वश्चक्रश्चापि तादृशः ।स तु चापादिको दैवश्चक्रस्त्रैनाभिकस्त्वयम् ॥४५॥धनुस्तु देवलग्नत्वात्समासाल्लग्नमुच्यते ।वेध्या धनुर्मेषसिंहमकरर्षभकन्यकाः ॥४६॥सकुम्भयुग्मवणिजो मीनकर्कटवृश्चिकाः ।अयं तु राशिवेधः स्यादतो वेधस्तु भात्मकः ॥४७॥मूलाश्विनीमघज्येष्ठारेवत्याश्लेषकास्तथा ।याम्यपूर्वानुपूर्वाहिर्बुध्निपुष्यानुराधकाः ॥४८॥स्वातीशतभिषाद्र्रा च श्रोणारोहिणिहस्तकाः ।पादं पादत्रये बुध्याद्योजयेदर्धमर्धकैः ॥४९॥चरस्थिरोभयात्मानश्चातुर्वण्र्यगुणात्मकाः ।राशिं राश्यधिपास्त्वेवं बुध्युर्वेधविधानतः ॥५०॥एभ्य एव तु राशिभ्यो नक्षत्राणां च सम्भवः ।स चाप्यक्षरभेदेन सप्तविंशतिधा भवेत् ॥५१॥आभ्यामश्वयुगेर्जाता भरणी कृत्तिका पुनः ।लिपित्रयाद्रोहिणी च तत्परस्ताच्चतुष्टयात् ॥५२॥एदैतोर्मृगशीर्षाद्र्रे तदन्ताभ्यां पुनर्वसू ।अमसोः केवलो योगो रेवत्यर्थं पृथग्गतः ॥५३॥कतस्तिष्यस्तथाश्लेषा खगयोर्घङयोर्मघाः ।चतः पूर्वाथ छजयोरुत्तरा झञयोस्तथा ॥५४॥हस्तश्चित्रा च टठयोः स्वाती डादक्षरादभूत् ।विशाखास्तु ढणोद्भूतास्तथा देऽभ्योऽनुराधकाः ॥५५॥ज्येष्ठा धकारान्मूलाख्यो नपफेभ्यो बतस्तथा ।पूर्वाषाढा भतोऽन्या च सञ्जाता श्रवणो मतः ॥५६॥श्रविष्ठा चापि यरयोस्तथा शतभिषग्लतः ।वशयोः प्रोष्ठपात्संज्ञा षसहेभ्यः परा स्मृता ॥५७॥ताभ्याममोभ्यां लार्णोऽयं यदा वै सह वत्स्यते ।तदेन्दुसूर्ययोर्योगादमावास्या प्रतीयते ॥५८॥कषतो भुवनं मत्तः कषयोः सङ्गमो भवेत् ।ततः क्षकारः सञ्जातो नृसिंहस्तस्य देवता ॥५९॥स पुनः षसहैः सार्धं परप्रोष्ठपदं गतः ।कारस्कराख्यामलकोदुम्बरो जम्बुसंज्ञकः ॥६०॥खदिरः कृष्णवंशौ च पिप्पलो नागरोहिणौ ।पलाशः प्लक्षकाम्बष्ठबिल्वार्जुनविकज्र्ताः ॥६१॥वकुलः शबरः सर्जो वञ्जुलः पनसार्ककौ ।शमीकदम्बनिम्बाम्रौ मधूकान्ता दिनाङ्घ्रिपाः ॥६२॥आयुष्कामः स्वकं वृक्षं छेदयेन्न कदाचन ।सेचयेद्वर्धयेच्चापि पूजयेत्प्रणमेदपि ॥६३॥तिथिनक्षत्रवारेषु स्वेषु मन्त्रजपो वरः ।तस्मादेषां दिनादीनां वक्ष्यन्ते देवता अपि ॥६४॥अश्वियमानलधाता शशिरुद्रादितिसुरेड्यसर्पाश्चपित्रर्यमभगदिनकृत्त्वष्टारो मारुतस्तथेन्द्राग्नी ।मित्रेन्द्रौ नित्र्र+तिर्जाले विश्वे देवा हरिस्तथा वसवःवारुणोऽजैकपादहिर्बुध्निः पूषा च देवता भानाम् ॥६५॥अश्वेभाजभुजङ्गसर्पसरमा मार्जारकाजा बिलीमूषा मूषिकरुद्रयानमहिषी व्याघ्रो यमारोहणम् ।व्याघ्र्यैणी हरिणी श्ववानपरपशुः शाखामृगी स्त्री हयोमत्र्यो गौः करिणीति साधु कथिता नक्षत्रयोन्यः क्रमात् ॥६६॥एभ्योऽमावास्यान्ता वर्तन्ते प्रतिपदादिकास्तिथयः ।राशिभ्योऽथ तिथीनामध्यर्धयुगं तु राशिरेकं स्यात् ॥६७॥तेन त्रिंशत्तिथयो द्वादशधा वर्णतो भिन्नाः ।ता एव स्युर्द्विविधाः पुनरपि पूर्वान्त्यपक्षभेदेन ॥६८॥पक्षः पञ्चदशाहः स्यात्पूर्वः प्रतिपदादिकः शुक्लः ।तद्वज्ज्ञेयोऽप्यपरः कृष्णः प्रतिपदादिकः प्रोक्तः ॥६९॥संज्ञासाम्ये सत्यपि सौम्यात्तु ह्रासवृद्धितस्तिथयः ।न समाः पक्षद्वितये त्रिंशद्भेदास्तथा हि सम्प्रोक्ताः ॥७०॥अग्न्यश्व्युमा सविघ्ना नागा गुहसवितृमातरो दुर्गा ।ककुभो धनपतिविष्णू यमहरचन्द्राः क्रमेण तिथ्यधिपाः ॥७१॥राशिभ्यः सदिनेभ्यः सतिथिभ्यः शक्तिजृम्भणसमुत्थानात् ।अक्षरभेदविकारात्करणान्यपि सप्तभेदकान्यभवन् ॥७२॥सिंहव्याघ्रवराहाः खरगजवृषकुक्कुटाः प्रतिपदर्धात् ।अन्त्यां तिथ्यर्धेऽर्धे तिष्ठन्त्याः कृष्णगोश्चतुर्दश्याः ॥७३॥एवं सङ्ग्रहराशिक दिनतिथिकरणप्रभेदकाः कथिताः ।अस्मात्पञ्चविभेदाद्विज्ञेया पञ्चवर्णनिष्पत्तिः ॥७४॥वर्णः पीतश्वेतारुणासितश्यामकास्तथा क्वाद्याः ।इति मूलाक्षरविकृतिं कथितमिदं वर्णविकृतिबाहुल्यम् ॥७५॥सचराचरस्य जगतो मूलत्वान्मूलतास्य बीजस्य ॥७६॥यां ज्ञात्वा सकलमपास्य कर्मबन्धंतद्विष्णोः परमपदं प्रयाति लोकः ।तामेनां त्रिजगति जन्तुजीवभूतांहृल्लेखां जपत च नित्यमर्चयीत ॥७७॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतःकृतौ प्रपञ्चसारे चतुर्थः पटलः ॥ N/A References : N/A Last Updated : January 21, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP