संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथोदकशांतिप्रयोग: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथोदकशांतिप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथोदकशांतिप्रयोग: Translation - भाषांतर श्रीगणेशायनम: ॥ गोमयेनगोचर्ममात्रंचतुरस्त्रमुपलिप्यकर्ताशुचि:सुप्रक्षालितपाणिपादआचांतोदर्भेभूषपविश्यदूर्वादर्भांश्चधारयमाण:प्राणानायम्यदेशकालौसंकीर्त्यअस्माकमित्यादि० श्रीषडंगसहितवेदपुरुषब्रह्मप्रीत्यर्थंममशरीरेउत्पन्नोत्पस्यमानकफवातपित्तोभ्दूतसमस्तामयानांजीवच्छरीराऽविरोधेन समूलनिवृत्तिपूर्वकक्षिप्रारोग्यावाप्त्यर्थ ममजन्मलग्नजन्मराशिभ्यांसकाशादनिष्टस्थानस्थितरव्यादिग्रहजनितजनिष्यमाणसकलपीडापरिहारार्थंममगृहे अशुचित्वदिदोषपरिहार्थंवा क्षेमायु:सिध्यर्थंवाएकाहपक्षमाश्रित्यबौधायनोक्तांउदकशांतिंकरिष्ये ॥ तत्रादौनिर्विघ्नतासिध्यर्थंमहागणपतिपूजनंपंचवाक्यै:पुण्याहवाचनंआचार्यादिवरणंचकरिष्ये ॥ गणपतिंसंपूज्यआचार्यवरणंकुर्यात् ॥ अस्यामुदकशांतौपूर्वस्यांदिशिविहितसूक्तजपकर्तारंत्वांवृणे एवंदक्षिणस्यांपश्चिमायांउत्तरस्यांचेति ॥ तत:पंचप्रस्थसिकताभि:शुध्दाभिररत्निमात्रंचतुरस्त्रंस्थंडिलंकृत्वासुवर्णव्रीहिदर्भानंगुष्ठेनमहानाम्न्याचोपसंगृह्य ॥ ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥ सबुध्नियाउपमाअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥इतिप्राचीसंततांलेखां तस्यादक्षिणत: ॐनाकेसुपर्णमुपयत्पतंतहृदावेनंतोअभ्यचक्षतत्वा ॥ हिरण्यपक्षंवरुणस्यदूतंयमस्ययोनौशकुनंभुरण्युं ॥ इतितथैवलेखांविलिख्यतस्याउत्तरत: ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्णियं ॥ भवाजाजस्यसंगथे ॥ इतितथैवलेखांविलिख्यस्थंडिलमध्येदक्षिणामारभ्योदीचींसंततांलेखां ॐ योरुद्रोअग्नौयोअप्सुयओषधीषुयोरुद्रोविश्वाभुवनाविवेशस्तस्मैरुद्रायनमोअस्तु ॥ इतिविलिख्यतस्या:पश्चिमत: ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं ॥ समूढमस्यपासुरे ॥ इतितथैवलेखांविलिख्यमध्याया:पूर्वत: ॐ इंद्रंविश्वाअवीवृधन्त्समुद्रव्यचसंगिर: ॥रथीतमरथीनांवाजानासत्पतिंपतिं ॥ इतितथैवलेखांविलिख्यलेखासाधनंगृहीत्वा ॐ भूर्भुव:सुव: देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामाददे ॥ इत्युत्तरतोनिरस्यापउपस्पृश्यगंधोदकेनाभ्युक्ष्यपुष्पै:फलैश्वावकीर्य स्थंडिलादुत्तरत:प्रागग्रान्दर्भानास्तीर्य तेषुप्रोक्षणींसूत्रवेष्टितमुदकुंभंचासाध्यप्रोक्षणीमुत्तानांकृत्वातस्यामुदगग्रंपवित्रंनिधायोदमासिच्यताभिरेवाभ्दिएवाप:प्रोक्षतित्रि: ॐ प्रोक्षिता:स्थ ॥३॥उदकुंभमुत्तानंकृत्वा त्रि:प्रोक्ष्य धूपयति ॐ ब्रह्मजज्ञानमितिमंत्रेणस्थंडिलेनिधायस्थंडिलंपरिस्तृणीयात् ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांपरिस्तृणामिइतिषोडशदर्भैरुदगग्रै: पुरस्तात्परिस्तृणाति ॥ ॐ भूर्भुव:सुव:इतिदक्षिणत:प्रागग्रै:सप्तदशबि: ॥ ॐ उद्वयंतमस्परिपश्यंतोज्योतिरुत्तरं ॥ देवंदेवत्रासूर्यमगन्मज्योतिरुत्तमंइतिपश्चादुदगग्रैरष्टादशभि: ॥ ॐ अग्रआयाहिवीतयेगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिर्षि ॥ इत्युत्तरत:प्रागग्रै:सप्तदशभि:परिस्तीर्य कुंभेतिर:पवित्रमपआनयन्पजति ॐ आपोवइदसर्वंविश्वाभूतान्याप:प्राणावाआप:पशवआपोन्नमापोमृतमाप:सम्राडापोविराडाप:स्वराडापश्च्छंदास्यापोज्योतीष्यापोयजूष्याप:सत्यमाप:सर्वादेवताआपोभूर्भुव:सुवरापओम् ॥ॐ अप:प्रणयति ॥ श्रध्दावाआप: ॥ श्रध्दामेवारम्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ यज्ञोवाआप: ॥ यज्ञमेवारभ्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ वज्रोवाआप: ॥ वज्रमेवभ्रातृव्येभ्य:प्रहृत्यप्रणीयप्रचरति ॥ अप:प्रणयति ॥ आपोवैरक्षोध्नी: ॥ रक्षसामपहत्यै ॥अप:प्रणयति ॥ आपोवेदेवानांप्रियंधाम ॥ देवानामेवप्रियंधामप्रणीयप्रचरति ॥ अप:प्रणयति ॥ आपोवैसर्वादेवता: ॥ देवताएवारभ्यप्रणीयप्रचरति ॥ आपोवैशांता:शांताभिरेवास्यशुचशमयति ॥ तत:कुंभे ॐ भूर्भुव:सुव:इतियवाक्षततंडुलानोप्यषडंगसहितवेदब्रह्मणेनमइतिषोडशोपचारै: संपूज्यपिताविराजेतिमंत्रपुष्पंसमर्प्य दूर्वादर्भै:प्रच्छाध्य ॥ चतुरोब्राह्मणान् प्रतिदिशमासनेषूपवेश्य ॐ शंनोदेवीरभिष्टयइतिब्रह्मपात्रमभिमृशेत् ॥ब्राह्मणा:ब्रह्मपात्रमन्वारभ्यजपंति ॥ ॐ तत्सवितुर्वरेण्यमित्येतांपच्छोर्धर्चश:सर्वांगायत्रीं ॥ तत: ॥ ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमं ॥ इषेत्वोर्जेत्वावायवस्थोपायवस्थदेवोव:सविताप्रार्पयतुश्रेष्ठतमायकर्मणे ॥ अग्नआयाहिवितयेगृणानोहव्यदातये ॥ निहोतासत्सिबर्हिषि ॥ शंनोदेवीरभिष्टय आपोभवंतुपीतये ॥ शंयोरभिस्त्रवंतुन: ॥ इतिजपित्वावक्ष्यमाणान्मंत्रान्जपेयु: ॥ राक्षोघ्नं ॥ कृणुष्वपाज: प्रसितिंनपृथ्वींयाहिराजेवामवाइभेन ॥ तृष्वीमनुप्रसितिंद्रूणानोस्तासिविध्यरक्षसस्तपिष्ठै: ॥ तवभ्रमासआशुयापतंत्यनुस्पृशधृषताशोशुचान: ॥ तपूष्यग्नेजुह्वापतंगानसंदितोविसृजविष्वगुल्का: ॥ प्रतिस्पशोविसृजतूर्णितमोभवापायुर्विशोअस्याअदब्ध: ॥ योनोदूरेअघशसोयोअंत्यग्नेमाकिष्टेव्यथिरादधर्षीत् ॥ उदग्नेतिष्ठप्रत्यातनुष्वन्यमित्राओषतात्तिग्महेते ॥ योनोअरातिसमिधानचक्रेनीचातंधक्ष्यतसंनशुष्कं ॥ऊर्ध्वोभवप्रतिविध्याध्यस्मदाविष्कृणुष्वदैव्यान्यग्ने ॥ अवस्थिरातनुहियातुजुनां जामिमजामिंप्रमृणीहिशत्रून् ॥१॥सतेजानातिसुमतिंयविष्ठयईवतेब्रह्मणेगातुमैरत् ॥ विश्वान्यस्मैसुदिनानिरायोध्युम्नान्यर्योविदुरोअभिध्यौत् ॥ सेदग्नेअस्तुसुभग:सुदानुर्यस्त्वानित्येनहविषाय उक्थै: ॥ पिप्रीषतिस्वआयुषिदुरोणेविश्वेदस्मैसुदिनासासदिष्टि: ॥ अर्चामितेसुमतिंघोष्यर्वाक् संतेवावाताजरतामियंगी: ॥ स्वश्वास्त्वासुरथामर्जयेमास्मेक्षत्राणिधारयेरनुध्यन् ॥ इहत्वाभूर्याचरेदुपत्मन्दोषावस्तर्दीदिवासमनुध्यन् ॥ क्रीडंतस्त्वासुमनस:सपेमाभिध्युम्नातस्थिवासोजनानां ॥ यस्त्वास्वश्व:सुहिरण्योअग्न उपयातिवसुमतारथेन ॥ तस्यत्राताभवसितस्यसखायस्त आतिथ्यमानुषग्जुजोषत् ॥२॥महोरुजामिबंधुतावचोभिस्तन्मापितुर्गोतमादन्वियाय ॥ त्वंनोअस्यवचसश्चिकिध्दिहोतर्यविष्ठसुक्रतोदमूना: ॥ अस्वप्नजस्तरणय:सुशेवाअतंद्रासोवृकाअश्रमिष्ठा: ॥ तेपायव:सध्रियंचोनिषध्याग्नेतवन:पांत्वमूर ॥ येपायवोमामतेयंतअग्नेपश्यंतोअंधंदुरितादरक्षन् ॥ ररक्षतान्त्सुकृतोविश्ववेदादिप्संतइद्रिपवोनाहदेभु: ॥ त्वयावयसधन्यस्त्वोतास्तवप्रणीत्यश्यामवाजान् ॥ उभाशसासूदयसत्यतातेनुष्ठुयाकृणुह्यह्रयाण ॥ अयातेअग्नेसमिधाविधेमप्रतिस्तोमशस्यमानंगृभाय ॥ दहाशसोरक्षस:पाह्यस्मान्द्रुहोनिदोमित्रमहोअवध्यात् ॥३॥१॥रक्षोहणंवाजिनमाजिघर्मिमित्रंप्रथिष्ठमुपयामिशर्म ॥ शिशानोअग्नि:ऋतुभि:समिध्द:सनोदिवासरिष:पातुनक्तं ॥ विज्योतिषाबृहताभात्यग्निराविर्विश्वानिकृणुतेमहित्वा ॥ प्रादेवीर्माया:सहतेदुरेवा:शिशीतेश्रृंगेरक्षसेविनिक्षे ॥ उतस्वानासोदिविषंत्वग्नेस्तिग्मायुधरक्षसेहंतवाउ ॥ इंद्रंवोविश्वतस्परिहवामहेजनेभ्य: ॥ अस्माकमस्तुकेवल: ॥इंद्रंनरोनेमधिताहवंतेयत्पार्यायुनजतेधियस्ता: ॥ शूरोनृषाताशवसश्चकानआगोमतिव्रजेभजात्वंन: ॥ इंद्रियाणिशतक्रतोयातेजनेषुपंचसु ॥ इंद्रतानितआवृणे ॥ अनुतेदायिमहइंद्रियायसत्रातेविश्वमनुवृत्रहत्ये ॥ अनुक्षत्रमनुसहोयजत्रेंद्रदेवेभिरनुतेनृषह्ये ॥ आयस्मिन्त्सप्तवासवास्तिष्ठंतिस्वारुहोयथा ॥ ऋषिर्ददीर्घश्रुत्तमइंद्रस्यघर्मोअतिथि: ॥आमासुपक्वमैरयासूर्यरोहयोदिवि ॥ घर्मंनसामन्तपतासुवृक्तिभिर्जुष्टंगिर्वणसेगिर: ॥ इंदुमिद्गाथिनोबृहदिंद्रमर्केभिरर्किण: ॥ इंदंवाणीरनूषत ॥ गायंतित्वागायत्रिणोर्चत्यर्कमर्किण: ॥ ब्रह्माणस्त्वाशक्रतवुद्वशमिवयेमिरे ॥ अहोमुचेप्रभरेमामनीषामोषिष्ठदाग्नेसुमतिंगृणाना: ॥ इदमिंद्रप्रतिहव्यंगृभायसत्या:संतुयजमानस्यकामा: ॥ विवेषयन्मधिषणाजजानस्तवैपुरापार्यादिंद्रमह्न: ॥ अहसोयत्रपीपरध्यथानोनावेवयांतमुभयेहवंते ॥ प्रसम्राजंप्रथममध्वराणामहोमुचंवृषभंयज्ञियानां ॥ अपांनपातमश्विनाहयंतमस्मिन्नरइंद्रियंधत्तमोज: ॥ विनइंद्रमृधोजहिनीचायच्छपृतन्यत: ॥ अधस्पदंतर्मीकृधियोअस्माअभिदासति ॥ इंद्रक्षत्रमभिवाममोजोजायथावृषभचर्षणीनां ॥ अपानुदोजनममित्रयंतमुरुंदेवेभ्योअकृणोरुलोकं ॥मृगोनभीम:कुचरोगिरिष्ठा:परावतआजगामापरस्या: ॥ सृकसशायपविर्मिद्रतिग्मंविशत्रून्ताढिविमृधोनुदस्व ॥ विशत्रून्विमृधोनुदविवृत्रस्यहनूरुज ॥ विमन्युमिंद्रभामितोमित्रस्याभिदासत: ॥ त्रातारमिंद्रमवितारमिंद्रहवेहवेसुहवशूरमिंद्रं ॥हुवेनुशक्रंपुरुहुतमिंद्रस्वस्तिनोमघवाधात्विंद्र: ॥ मातेअस्यासहसावन्परिष्टावघायभूमहरिव:परादै ॥ त्रायस्वनोवृकेभिर्वरुथैस्तवप्रियास:सूरिषुस्याम ॥ अनवस्तेरथमश्वायतक्षन्त्वष्टावज्रंपुरुहूतध्युमंतं ॥ ब्रह्माणइंद्रंमहयंतोअकैंरवर्धयन्नहयेहंतवाउ ॥ वृष्णेयत्तेवृषणोअर्कमर्चानिंद्रग्रावाणोअदिति:सजोषा: ॥ अनश्वासोयेपवयोरथाइंद्रेषिताअभ्यवर्तंतदस्यून् ॥२॥यतइंद्रभयामहेततोनोअभयंकृधि ॥ मघवन्छग्धितन्नऊतयेविद्विषोमृधोजहि ॥स्वस्तिदाविशस्पतिवृत्रहाविमृधोवशी ॥ वृषेंद्र:पुरएतुन:स्वस्तिदाअभयंकर: ॥महाइंद्रोवज्रबाहु:षोडशीशर्मयच्छतु ॥ स्वस्तिनोमघवाकरोतुहंतुपाप्मानंयोस्मान्द्वेष्टि ॥ सजोषाइंद्रसगणोमरुभ्दि:सोमंपिबवृत्रहन्छूरविद्वान ॥जहिशत्रूरपमृधोनुदस्वाथाभयंकृणुहिविश्वतोन: ॥३॥येदेवा:पुर:सदोग्निनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥ येदेवादक्षिणसदोयमनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥येदेवा:पश्चात्सद:सवितृनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥ येदेवाउत्तरसदोवरुणनेत्रारक्षोहणस्तेन:पांतुतेनोवंतुतेभ्योनमस्तेभ्य:स्वाहा ॥सवित्रेरक्षोघ्नेस्वाहा ॥ वरुणायरक्षोघ्नेस्वाहा ॥ बृहस्पतयेदुवस्वतेरक्षोघ्नेस्वाहा ॥ अग्निरायुष्मान्सवनस्पतिभिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥ सोमआयुष्मान्सओषधीभिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥ यज्ञआयुष्मान्त्सदक्षिणाभिरायुष्मान्तेनत्वायुषायुष्मंतंकरोमि ॥ ब्रह्मायुष्मत्तद्ब्राह्मणैरायुष्मत्तेनत्वायुषायुष्मंतंकरोमि ॥ देवाआयुष्मंतस्तेमृतेनायुष्मंतस्तेनत्वायुषायुष्मंतंकरोमि ॥४॥यावामिंद्रावरुणायतव्यातनूस्तयेममहसोमुंचतं ॥ यावामिंद्रावरुणासहस्यातनूस्तयममहसोमुंचतं ॥यावामिंद्रावरुणारक्षस्यातनूस्तयेममहसोमुंचतं ॥ यावामिंद्रावरुणाजातेजस्यातनूस्तयेममहसोमुंचतं ॥ योवामिंद्रावरुणावग्नौस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणाद्विपात्सुपशुषस्नामस्तंवामेतेनावयजे ॥ योवामिंद्रायवरुणाचतुष्पात्सुपशुषस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणागोष्ठेस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणागृहेषुस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणाप्सुस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणौषधीस्त्रामस्तंवामेतेनावयजे ॥ योवामिंद्रावरुणावनस्पतिषुस्त्रामस्तंवामेतेनावयजे ॥ अग्नेयशश्विन्यशसेममर्पयेंद्रावतीमपचितीमिहावह ॥ अयंमूर्धापरमेष्ठीसुवर्चा:समानानामुत्तमश्लोकोअस्तु ॥ भद्रंपश्यंतउपसेदुरग्रेतपोदीक्षामृषय:सुवर्विद: ॥ तत:क्षत्रंबलमोजश्चजातंतदस्मैदेवाअभिसंनमंतु ॥ धाताविधातापरमोतसंदृक् प्रजापति:परमेष्ठीविराजा ॥ स्तोमाश्छंदासिनिविदोमआहुरेतस्मैराष्ट्रमभिसन्नमाम ॥ अभ्यावर्तध्वमुपमेतसाकमयशास्ताधिपतिर्वोअस्तु ॥ अस्यविज्ञानमनुसरभध्वमिमंपश्चादनुजीवाथसर्वे ॥५॥ऋताषाडृतधामग्निर्गंधर्वस्तस्यौषधयोप्सरसऊर्जोनामसइदंब्रह्मक्षत्रंपातुताइदंब्रह्मक्षत्रंपांतुतस्मैस्वाहाताभ्य:स्वाहास हितोविश्वसामासूर्योगंधर्वस्तस्यमरीचयोप्सरसआयुव:सुषुम्न:सूर्यरश्मिश्चंद्रमागंधर्वस्तस्यनक्षत्राणाण्यप्सरसोबेकुरयोभुज्यु:सुपर्णोयज्ञोगंधर्वस्तस्यदक्षिणाअप्सरस:स्तवा:प्रजापतिर्विश्वकर्मामनोगंधर्वस्तस्यर्क्सामान्यप्सरसोवन्हयइषिरोविश्वव्यचावातोगंधर्वस्तस्यापोप्सरसोमुदाभुवनस्यपतेयस्यउपरिगृहाइहच ॥ सनोरास्वाज्यानिरायस्पोषसुवीर्यसंवत्सरीणास्वस्तिं ॥ परमेष्ठयधिंपतिर्मृत्युर्गंधर्वस्तस्यविश्वमप्सरसोभुव:सुक्षिति:सुभूतिर्भद्रकृत्सुवर्वान् पर्जन्योगंधर्वस्तस्यविध्युतोप्सरसोरुचोदूरेहेतिरमृडयोमृत्युर्गंधर्वस्तस्यप्रजाअप्सरसोभीरुवश्चारु:कृपणकाशीकामोगंधर्वस्तस्याधयोप्सरस:शोचयंतीन्रामसइदंब्रह्मक्षत्रंपातुताइदंब्रह्मक्षत्रंपांतुतसमिस्वाहाताभ्य:स्वाहासनोभुवनस्यपतेयस्यतउपरिगृहाइहच ॥ उरुब्रह्मणेस्मैक्षत्रायमहिशर्मयच्छ ॥ नमोअस्तुसर्पेभ्योयेकेचपृथिवीमनु ॥ येअंतरिक्षेयेदिवितेभ्योनम: ॥ येदोरोचनेदिवोयेवासूर्यस्यरश्मिषु ॥ येषामप्सुसद:कृतंतेभ्य:सर्पेभ्योनम: ॥ याइषवोयातुधानानांयेवायनस्पतीरनु ॥ येवावटेषुशेरतेतेभ्य:सर्पेभ्योनम: ॥अयंपुरोहरिकेश:सूर्यरश्मिस्तस्यरथगृत्सश्चरथौजाश्चसेनानिग्रामण्यौपुंजिकस्थलाचाकृतस्थलाचाप्सरसौयातुधानाहेतीरक्षासिप्रहेतिस्तेभ्योनमस्तेनोमृदयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥अयंदक्षिणविश्वकर्मातस्यरथस्वनश्चरथेचित्रश्चसेनानिग्रामण्यौमेनकाचसहजन्याचाप्सरसौदंक्ष्णव:पशवोहेति:पौरुषेयोवध:प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥अयंपश्चाद्विश्वव्यचास्तस्यरथप्रोतश्चासमरथश्चसेनानिग्रामण्यौप्रम्लोचंतीचानुम्लोचंतीचाप्सरसौसर्पाहेतिर्व्याघ्रा:प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥अयमुत्तरात्संयद्वसुस्तस्यसेनजिच्चसुषेणश्चसेनानिग्रामण्यौविश्वाचीचघृताचीचाप्सरसावापोहेतिर्वात:प्रहेतिस्तेभ्योनमस्तेनोम्रृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ अयमुपर्यर्वाग्वसुस्तस्यतार्क्ष्यश्चारिष्टनेमिश्चसेनानिग्रामण्यावुर्वशीचपूर्वचित्तिश्चाप्सरसौविध्युध्देतिरवस्फूर्जन्प्रहेतिस्तेभ्योनमस्तेनोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ आशु:शिशानोवृषभोनयुध्मोघनाघन:क्षोभणश्चर्षणीनां ॥ संक्रंदनोनिमिषएकवीर:शतसेनाअजयत्साकमिंद्र: ॥ संक्रंदनेनानिमिषेणजिष्णुनायुत्कारेणदुश्च्यवनेनधृष्णुना ॥ तद्रिंद्रेणजयततत्सहध्वंयुधोनरइषुहस्तेनवृष्णा ॥सइषुहस्तै:सनिषंगिभिर्वशीसस्त्रष्टासयुधइंद्रोगणेनं ॥ ससृष्टजित्सोमपावाहुशर्ध्य़ूर्ध्वधन्वाप्रतिहिताभिरस्ता ॥बृहस्यतेपरिदीयारथेनरक्षोहामित्राअपबाधमान: ॥ प्रभंजन्त्सेना:प्रमृणोयुधाजयन्नस्माकमेध्यवितारथानां ॥ गोत्रभिदंगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥ इमसजाताअनुवीरयध्वमिंद्रसखायोनुसरभध्वं ॥ बलविज्ञाय:स्थविर:प्रवीर:सहस्वान्वाजीसहमानउग्र: ॥ अभिवीरोअभिसत्वसहोजाजैत्रमिंद्ररथमातिष्ठगोवित् ॥ अभिगोत्राणिसहसागाहमानोदायोवीर:शतमन्युरिंद्र: ॥ दुश्च्यवन:पृतनाषाडयुध्योस्माकसेनाअवतुप्रयुत्सु ॥ इंद्रआसांनेताबृहस्पतिर्दक्षिणायज्ञ:पुरएतुसोम: ॥ देवसेनानामभिभंजतीनांजयंतीनांमरुतोयंत्वग्रे ॥ इंद्रस्यवृष्णोवरूणस्यराज्ञआदित्यानांमरुताशर्धउग्रं ॥ महामनसांभुवनच्यवानांघोषोदेवानांजयतामुदस्थात् ॥अस्माकमिंद्र:समृतेषुध्वजेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्मानुदेवाअवताहवेषु ॥ उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानांमहासि ॥ उद्वृत्रहन्वाजिनांवाजिनान्युद्रथानांजयतोमेतुघोष: ॥ उपप्रेतजयतानर:स्थिराव:संतुबाहव: ॥ इंद्रोव:शर्मयच्छत्वनाधृष्यायथासथ ॥ अवसृष्टापरापतशरव्येब्रह्मसशिता ॥ गच्छामित्रान्प्रविशमैषांकंचनोच्छिष: ॥मर्माणितेवर्मभिश्छादयामिसोमस्त्वाराजामृतेनाभिवस्तां ॥ उरोर्वरीयोवरिवस्ते अस्तुजयंतंत्वामनुमदंतुदेवा: ॥ यत्रबाणा:संपतंतिकुमाराविशिखाइव ॥ इंद्रोनस्तत्रहाविश्वाहाशर्मयच्छतु ॥ शंचमेमयश्चमेप्रियंचमेनुकामश्चमेकामश्चमेसौमनसश्चमेभद्रंचमेश्रेयश्चमेवस्यश्चमेयशश्चमेभगश्चमेद्रविणंचमेयंतचमेधर्ताचमेक्षेमश्चमेधृतिश्चमेविश्वंचमेमहश्चमेसंविच्चमेज्ञात्रंचमेसूश्चमेप्रसूश्चमेसीरंचमेलयश्चमऋतंचमेमृतंचमेयक्ष्मंचमेनामयच्चमेजीवातुश्चमेदीर्घायुत्वंचमेनमित्रंचमेभयंचमेसुगंचमेशयनंचमेसुषाचमेसुदिनंचमे ॥ ममाग्रेवर्चोविहवेष्वस्तुवयंत्वेंधानास्तनुवंपुषेम ॥ मह्यंनमंतांप्रदिशश्चतस्त्रस्त्वयाध्यक्षेणपृतनाजयेम ॥ ममदेवाविहवेसंतुसर्वइंद्रावंतोमरुतोविष्णुरग्नि: ॥ ममांतरिक्षमुरुगोपमस्तुमह्यंवात:पवतांकामेअस्मिन् ॥ मयिदेवाद्रविणमायजंतांमय्याशीरस्तुमयिदेवहूति: ॥ दैव्याहोतारावनिषंतपूर्वेरिष्टा:स्यामतनुवासुवीरा: ॥ मह्यजंतुममयानिहव्याकूति:सत्यामनसोमेअस्तु ॥ एनोमानिगांकतमच्चनाहंविश्वेदेवासोअधिवोचतामे ॥ देवी:षडुवींरुरुण:कृणोतविश्वेदेवा सइहवीरयध्वं ॥ माहास्महिप्रजयामातनूभिर्मारधामद्विषुपतेसोमराजन् ॥अग्निर्मन्युंप्रतिनुदन्पुरस्ताददब्धोगोपा:परिपाहिनस्त्वं ॥ प्रत्यंचोयंतुनिगुत:पुनस्तेमैषांचित्तंप्रबुधाविनेशत् ॥ धाताधातृणांभुवनस्ययस्पतिर्देवसवितारमभिमातिषाहं ॥ इमंयज्ञमश्विनोभाबृहस्पतिर्देवा:पांतुयजमान्यंन्यर्थात् ॥ उरुव्यचानोमहिष:शर्मयसदस्मिन्हवेपुरुहूत:पुरुक्षु ॥ सन:प्रजायैहर्यश्वमृडयेंद्रमानोरीरिषोमापरादा: ॥ येन:सपत्नाअपतेभवंत्विंद्राग्निभ्यामवबाधामहेतान् ॥ वसोवोरुद्राआदित्याउपरिस्पृशंमोग्रंचेत्तारमधिराजमक्रन् ॥ अर्वांचमिंद्रममुतोहवामहेयोगोनिध्दनजिदश्वजिध्य: ॥ इमंनोयज्ञंविहवेजुषस्वास्यकुर्मोहरिवोमेदिनंत्वा ॥ अग्नेर्मन्वेप्रथमस्यप्रचेतसोयंपांचजन्यंबहव:समिंधते ॥ विश्वस्यांविशिप्रविविशिवासमीमहेसनामुंचत्वहस: ॥इंद्रस्यमन्येप्रथमस्यप्रचेतसोवृत्रघ्नस्तोमाउप्मामुपागु: ॥ योदाशुष:सुकृतोहवमुपगंतासनोमुंचत्वहस: ॥मन्वेवांमित्रावरुणातस्यवित्तसत्यौजसादृहणायंनुदेथे ॥ याराजानसरथंयाथउग्रातानोमुंचतमागस: ॥वायो:सवितुर्विदथानिमन्नहेयावात्मन्वब्दिभृतोयौचरक्षत: ॥ यौविश्वस्यपरिभूबभूवतुस्तौनोमुंचतमागस: ॥ उपश्रेष्ठानआशिषोदेवयोर्धर्मेअस्थिरन् ॥ स्तौमिवायुसवितारंनाथितोजोहवीमितौनोमुंचतमागस: ॥ रथीतमौरथीनामव्हऊतयेशुभंगमिष्ठौसुयमेभिरश्वै: ॥ ययोर्वादेवौदेवेष्वनिशितमोजस्तौनोमुंचतमागस: ॥यदयातंवहतुसूर्यायास्त्रिचक्रेणससदमिच्छमानौ ॥ स्तौमिदेवावश्विनौनाथितोजोहवीमितौनोमुंचतमागस: ॥मरुतांमन्वेअधिनोब्रुवंतुप्रेमांवांचंविश्वांमवंतुविश्वे ॥ आशून्हुवेसुयमानूतयेनोमुंचंत्वेनस: ॥तिग्ममायुधंवीडितसहस्वद्दिव्यशर्ध:पृतनासुजिष्णु ॥ स्तौमिदेवान्मरुतोनाथितोजोहवीमितेनोमुंचंत्वेनस: ॥देवानांमन्वेअधिनोब्रुवंतुप्रेमांवाचंविश्वामवंतुविश्वे ॥ आशून्हुवेसुयमानूतयेतेनोमुंचंत्वेनस: ॥ यदिदंमाभिशोचतिपौरुषेयेणदैव्येन ॥ स्तौमिविश्वान्देवान्नथितोजोहवीमितेनोमुंचंत्वेनस: ॥ अनुनोध्यानुमरिर्यज्ञंदेवेषुमन्यतां ॥ अग्निश्चहव्यवाहनोभवतांदाशुषेमय: ॥ अन्विदनुमतेत्वंमन्यासैशंचन:कृधि ॥ऋत्वेदक्षायनोहिनुप्रणआयूषितारिष: ॥ वैश्वानरोनऊत्याप्रयतुपरावत: ॥ अग्निरुक्थेनवाहसा ॥ पृष्टोदिविपृष्टोअग्नि:पृथिव्यांपृष्टोविश्वाओषधीराविवेश ॥वैश्वानर:सहसापृष्टोअग्नि:सनोदिवासरिष:पातुनक्तं ॥ येअप्रथेताममितेभिरोजोभिर्येप्रतिष्ठेअभवतांवसूनां ॥ स्तौमिध्यावापृथिवीनाथितोजोहवीमितेनोमुंचतमहस: ॥ उर्वीरोदसीवरिव:कृणोतंक्षेत्रस्यपत्नीअधिनोब्रूयातं ॥ स्तौमिध्यावापृथिवीनाथितोजोहवीमितेनोमुंचतमहस: ॥ यत्तेवयंपुरुषत्रायविष्ठाविद्वासश्चकृमाकच्चनाग: ॥कृधीस्वस्माअदितेरनागाव्येनासिशिश्रथोविष्वगग्ने ॥ यथाहुतद्वसवोगौर्यचित्पदिषिताममुंचतायजत्रा: ॥ एवात्वमस्मत्प्रमुंचाव्यह:प्रातार्यग्नेप्रतरान्नआयु: ॥समीचीनामासिप्राचेदिक्तस्यास्तेग्निरधिपतिरसितोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यां नमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥ ओजस्विनीनामासिदक्षिणादिक्तस्याइंद्रोधिपति:पृदाकूरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांनमस्तौमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवाजंभेदधामि ॥प्राचीनामासिप्रतीचीदिक्तस्यास्तेसोमोधिपति:स्वजोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांनमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥अवस्थावानामास्युदीचीदिक्तस्यास्तेवरुणोधिपतिस्तिरश्चराजीरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांनमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवांजंभेदधामि ॥ अधिपत्नीनामासिबृहतीदिक्तस्यस्तेबृहस्पतिरधिपति:श्वोत्रोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांनमस्तौनोमृडयतांतेयंद्विष्मोयश्चनोद्वेष्टितंवाजंभेदधामि ॥वशिनीनामासीयंदिक्तस्यास्तेयमोधिपति:कल्माषग्रीवोरक्षितायश्चाधिपतिर्यश्चगोप्ताताभ्यांनमस्तौनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ हेतयोनामस्थतेषांव:पुरोगृहाअग्निर्वइषव:सलिलोवातनामंतेभ्योवोनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥निलिंपानामस्थतेषांवोदक्षिणागृहा:पितरोवइषवसगरोवातनामंतेभ्योवोनमस्तेनोमृडयतेतयंद्विष्मोययश्चनोद्वेष्टितंवोजंभेदधामि ॥वज्रिणोनामस्थतेषांव:पश्चाद्गृहा:स्वप्नोवइषवोगह्वरोवातनामंतेभ्योवोनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥अवस्थावानोनामस्थतेषांवउत्तराग्दृहा आपोवइषव:समुद्रोवातनामंतेभ्योनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ अधिपतयोनामस्थतेषांवउपरिगृहावर्षवइषवोवस्वान्वातनामंतेभ्योनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ क्रव्यानामस्थपार्थिवास्तेषांवइहगृहाअन्नंवइषवोनिमिषोनामंतेभ्योनमस्तेनोमृडयततेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥ शतायुधायशतवीर्यायशतोतयेभिमातिषाहे ॥ शतंयोन:शरदोअजीतानिंद्रोनेषदतिदुरितानिविश्वा ॥ येचत्वार:पथयोदेवयानाअंतराध्यावापृथिवीवियंति ॥ तेषांयोअज्यानिमजीतिमावहात्तस्मैनोदेवा:परिदत्तेहसर्वे ॥ ग्रीष्मोहेमंतउतनोवसंत:शरद्वर्षा:सुवितन्नोअस्तु ॥ तेषांमृतूनाशतशारदानांनिवातएषामभयेस्याम ॥ इदुवत्सरायपरिवत्सरायसंवत्सरायकृणुताबृहन्नम: ॥ तेषांवयसुमतौयज्ञियानांज्योगजीताअहता:स्याम ॥ भद्रान्न:श्रेय:समनैष्टदेवास्त्वयावसेनसमशीमहित्वा ॥सनोमयोभू:पितोआविशस्वशंतोकायतनुवेस्योन: ॥ भूतंभव्यंभविष्यद्वषट्स्वाहानमऋक् सामयजुर्वषट्त्स्वाहानमोगायत्रीत्रिष्टुप् जगतीवषट्त्स्वाहानम:पृथिव्यंतरिक्षंध्यौर्वषट्त्स्वाहानमोग्निर्वायु:सूर्योवषट्त्स्वाहानम:प्राणोव्यानोपानोवषट्त्स्वाहानमोन्नंकृषिर्वृष्टिर्वषट्त्स्वाहानम: पितापुत्र:पौत्रौवषट्त्स्वाहानमो भूर्भुव:सुवर्षषट्स्त्वाहानम: ॥इंद्रोदधीचोअस्थभि: ॥ वृत्राण्यप्रतिष्कुत: ॥ जघाननवतीर्नव ॥ इच्छन्नश्वस्ययच्छिर: ॥पर्वतेष्वपश्रित: ॥ तद्विदच्छर्यणावति ॥ अत्राहगोरमन्वत ॥ नामत्वष्टुरपीच्यां ॥इत्थाचंद्रमसोगृहे ॥ इंद्रमिद्गानिनोबृहत् ॥ इंद्रमर्केभिरर्किण: ॥ इंद्रंवाणीरनूषत ॥इंद्रइध्दर्यो:सचा ॥ संमिश्लआवचोयुजा ॥ इंद्रोवज्रीहिरण्यय: ॥ इंद्रोदीर्घायचक्षसे ॥आसूर्यरोहयद्दिवि ॥ विगोभिराद्रेमैरयत् ॥ इंद्रवाजेषुनोअव ॥ सहस्त्रप्रधनेषुच ॥उग्रउग्राभिरुतिभि: ॥ तमिंद्रंवाजयामसि ॥ महेवृत्रायहंतवे ॥ सवृषावृषभोभुवत् ॥इंद्र:सदामनेकृत: ॥ ओजिष्ठ:सबलेहित: ॥ ध्युम्नीश्लोकीससौम्य: ॥ गिरावज्रोनसंभूत: ॥ सबलोअनपच्युत: ॥ ववक्षुरुग्रोअस्तृत: ॥ चक्षुषोहेतेमनसोहेते ॥ वाचोहेतेब्रह्मणोहेते ॥ योमाघायुरभिदासति ॥ तमग्नेमेन्यामेनिंकृणु ॥ योमाचक्षुषायोमनसा ॥योवाचाब्रह्मणाघायुरभिदासति ॥ तयाग्नेत्वंमेन्या ॥ अमुममेनिंकृणु ॥ यत्किंचासौमनसायच्चावाचा ॥ यज्ञैर्जुहोतियजुषाहविर्भि: ॥ तन्मृत्युर्निऋत्यासंविदान: ॥ पुरादिष्टादाहुतीरस्यहंतु ॥यातुधानानिऋतिरादुरक्ष: ॥ तेअस्यघ्नंत्वनृतेनसत्यं ॥ इंद्रेषिताआज्यमस्यमग्थंतु ॥मातत्समृध्दियदसौकरोति ॥ हन्मितेहंकृतहवि: ॥ योमेघोरमचीकृत: ॥ अपांचौतउभौबाहू ॥ अपनह्याम्यास्यं ॥ अपनह्यामितेबाहू ॥ अपनह्याम्यास्यं ॥ अग्नेर्देवस्यब्रह्मणा ॥सर्वतेवधिषंकृतं: ॥ पुरामुष्यषट्कारात् ॥ यज्ञंदेवेषुनस्कृधि ॥ स्विष्टमस्माकंभूयात् ॥मास्मान्प्रापन्नरातय: ॥ अंतिदूरेसतोअग्रे ॥ भ्रातृव्यस्याभिदासत: ॥ वषट्कारेणवज्रेण ॥ कृत्याहन्मिकृतामहं ॥ योमानक्तंदिवासायं ॥ प्रातश्चान्होनिपीयति ॥ अध्यातमिंद्रवज्रेण ॥ भातृव्यंपादयामसि ॥ प्राणोरक्षतिविश्वमेजत् ॥ इर्योभूत्वाबहुधाबहूनि ॥ सइत्सर्वंव्यानशे ॥ योदेवोदेवेषुविभूरंत: ॥ आवृदूदात्क्षेत्रियध्वगद्वृषा ॥ तमित्प्राणंमनसोपशिक्षत ॥अग्रंदेवानामिदमत्तुनोहवि: ॥ मनसश्चित्तेदं ॥ भूतगव्यंचगुप्यते ॥ तध्दिदेवेष्वग्रियं ॥ आनएतुपुरश्चरं ॥ सहदेवैरिमहवंमन:श्रेयसिश्रेयसि ॥ कर्मन्यज्ञपतिंदधत् ॥ जुषतांमेवागिदहवि: ॥ विराट्देवीपुरोहिता ॥ हव्यवाडनपायिनी ॥यथारुपाणिबहुधावदंति ॥ पेशासिदेवा:परमेजनित्रे ॥ सानोविराडनपस्फुरंती ॥ वाग्देवीजुषतामिदहवि: ॥ चक्षुर्देवानांज्योतिरमृतेन्यक्तं ॥ अस्यविज्ञानायबहुधानिधीयते ॥ तस्यसुम्नमशीमहि ॥ मानोहासीद्विचक्षणं ॥ आयुरिन:प्रतीर्यतां ॥ अनंधाश्चक्षुषावयं ॥जीवाज्योतिरशीमहि ॥ सुवर्ज्योतिरुतामृतं ॥ श्रोत्रेणभद्रमुतशृण्वंतिसत्यं ॥ श्रोत्रेणवाचंबहुधोध्यमानां ॥ श्रोत्रेणमोदश्चमहश्चश्रूयते ॥ श्रीत्रेणसर्वादिशआशृणोमि ॥ येनप्राच्याउतदक्षिणा ॥ प्रतीच्यैदिश:शृण्वंत्युत्तरात् ॥ तदिच्छ्रोत्रंबहुधोध्यमानं ॥ अरांनमेमि:परिसर्वबभूव ॥ सिहेव्याघ्रउतयापृदाकौ ॥ त्विषिरग्नौबाह्मणेसूर्येया ॥ इंद्रंयादेवीसुभगाजजान ॥सानआग्न्वर्चसासंविदाना ॥ याराजन्येदुंदुभावायतायां ॥ अश्वस्यक्रंध्येपुरुषस्यमायौ ॥इंद्रंयांदेवीसुभगाजजान ॥ सानआगन्वर्चसासंविदाना ॥ याहस्तिनिद्वीपिनियाहिरण्ये ॥त्विषिरश्वेषुपुरुषेषुगोषु ॥ इंद्रंयादेवीसुभगाजजान ॥ सानआन्वर्चसासंविदानां ॥ रथेअक्षेषुवृषभस्यवाजे ॥ वातेपर्जन्येवरुणस्यशुष्मे ॥ इंद्रंयादेवीसुभगाजजान । सानआगन्वर्चसासंविदाना ॥राडसिविराडसि ॥ सम्राडसिस्वराडसि ॥ इंद्रायत्वातेजस्वतेतेजस्वंतश्रीणामि ॥ इंद्रायत्वौजस्वतओजस्वंतश्रीणामि ॥ इंद्रायत्वापयस्वतेपयस्वंतश्रीणामि ॥ इंद्रायत्वायुष्मतआयुष्मंतश्रीणामि ॥ तेजोसि ॥ तत्तेप्रयंच्छामि ॥ तेजस्वदस्तुमेमुखं ॥ तेजस्वच्छिरोअस्तुमे॥ तेजस्वान्वितश्वत:प्रत्यड् ॥ तेजसासंपिपृग्धिमा ॥ ओजोसि ॥ तत्तेप्रयच्छामि ॥ ओजस्वदस्तुमेमुखं ॥ ओजस्वच्छिरोअस्तुमे ॥ ओजस्वान्विश्वतं:प्रत्यड्: ॥ ओजसासंपिपृग्धिमा ॥ पयोसि ॥ तत्तेप्रयच्छामि ॥ पयस्वद्स्तुतेमुखं ॥ पयस्वच्छिरोअस्तुमे ॥पयस्वान्विश्वत:प्रत्यड्: ॥ पयसासंपिपृग्धिमा ॥ आयुरसि ॥ तत्तेप्रयच्छामि ॥ आयुष्मदस्तुमेमुखं ॥ आयुष्मच्छिरोअस्तुमे ॥ आयुष्मान्विश्वत:प्रत्यड्: ॥ आयुषासंपिपृग्धिमा ॥ इममग्नआयुषेवर्चसेकृधि ॥ प्रियरेतोवरुणसोमराजन् ॥ मातेवास्माअदितेशर्मयच्छ ॥विश्वेदेवाजरदष्टिर्यथासत् ॥ आयुरसिविश्वायुरसि ॥ सर्वायुरसिसर्वमायुरसि ॥ यतोवातोमनोजवा: ॥ यत:क्षरंतिसिंधव: ॥ तासांत्वासर्वासारुचा ॥ अभिषिंचाभिवर्चसा ॥समुद्रइवासिगह्यना ॥ सोमइवास्यदाभ्य: ॥ अग्निरिवविश्वत:प्रत्यड्: ॥ सूर्यइवज्योतिषाविभू: ॥ अपांयोद्रवणेरस: ॥ तमहमस्माआमुष्यायणाय ॥ तेजसेब्रह्मवर्चसायगृह्णामि ॥ अपांयऊर्मौरस: ॥ तमहमस्माआमुष्यायणाय ॥ ओजसेवीर्यायगृह्णामि ॥ अपांयोमध्यतोरस: ॥ तमहमस्माआमुष्यायणाय ॥ पुष्ठयैप्रजननायगृह्णामि ॥ अपांयोयज्ञियोरस: ॥ तमहमस्माआमुष्यायणाय ॥ आयुषेदीर्घायुत्वायगृह्णामि ॥ अहमस्मिप्रथमजाऋतस्य ॥ पूर्वदेवेभ्योअमृतस्यनाभि: ॥ योमाददातिसइदेवमावा: ॥ अहमन्नमन्नमदंतमद्मि ॥ पूर्वमग्नेरपिदहत्यन्नं ॥ यत्तौहासातेअहमुत्तरेषु ॥ व्यात्तमस्यपशव:सुजंभं ॥ पश्यंतिधीरा:प्रचरंतिपाका: ॥ जहाम्यन्यंनजहाम्यन्यं ॥ अहमन्नंवशमिच्चरामि ॥ समानमर्थंपर्येमिभुंजत् ॥ कोमामन्नंमनुष्योदयेत ॥ पराकेअन्नंनिहितंलोकएतत् ॥विश्वैर्देवै:पितृभिर्गुप्तमन्नं ॥ यदध्यतेलुप्यतेयत्परोप्यते ॥ शततमीसातनूर्मेबभूव ॥महांतौचरुसकृद्दुग्द्भेनपप्रौ । दिवंचपृश्निपृथिवींचसाकं ॥ तत्संपिबंतोनमिनंतिवेधस: ॥नैतभ्दूयोभवतिनोकनीय: ॥ अन्नंप्राणमन्नमपानमाहु: ॥ अत्रंमृत्युंतमुजीवातुमाहु: ॥अन्नंब्रह्माणोजरसंवदंति ॥ अन्नमाहु:प्रजननंप्रजानां ॥ मोघमन्नंविंदतेअप्रचेता: ॥सत्यंब्रवीमिवधइत्सतस्य ॥ नार्यमणंपुष्यतिनोसखायं ॥ केवलाघौभवतिकेवलादी ॥ अहंमेघस्तनयन्वर्षन्नस्मि ॥ मामदंत्यहमड्यन्यान् ॥ अहसदमृतोभवामि ॥ मदादित्याअधिसर्वेतपंति ॥ देवींवाचमजनयंतदेवा: ॥ तांविश्वरुपा:पशवोवदंति ॥ सानोमंद्रेषमूर्जंदुहाना ॥ धेनुर्वागस्मानुपसुष्टुतैतु ॥ यद्वाग्वदंत्यविचेतानि ॥ राष्ट्रीदेवानांनिषसादमंद्रा ॥ चतस्त्रऊर्जदुदुहेपयासि ॥ क्वस्विदस्या:परमंजगाम ॥अनंतामंतादधिनिर्मितांमहीं ॥ यस्यांदेवाअदधुर्भोजनानि ॥ एकाक्षरांद्विपदाषट्पदांच ॥वाचंदेवाउपजीवंतिविश्वे ॥ वाचंदेवाउपजीवंतिविश्वे ॥ वाचंगंधर्वा:पशवोमनुष्या: ॥ वाचीमाविश्वाभुवनान्यर्पिता ॥ सानोहवंजुषतामिंद्रपत्नी ॥ वागक्षरंप्रथमजाऋतस्य ॥वेदानांमातामृतस्यनाभि: ॥ सानोजुषणोपयज्ञमागात् ॥ अवंतीदेवीसुहवामेअस्तु ॥यामृषयोमंत्रकृतोमनीषिण: ॥ अन्वैच्छन्देवास्तपसाश्रमेण ॥ तांदेवींवाचहविषायजामहे ॥सानोदधातुसुकृतस्यलोके ॥ चत्वारिवाक्परिमितापदानि ॥ तानिविदुर्ब्राह्मणायेमनीषिण: ॥ गुहात्रीणिनिहितानेंगयंति ॥ तुरीयंवाचोमनुष्यावदंति ॥ श्रध्दयाग्नि:समिध्यते ॥ श्रध्दयाविंदतेहुवि: ॥ श्रध्दांभगस्यमूर्धानिं ॥ वचसावेदयामसि ॥ प्रियश्रध्देददत: ॥ प्रियश्रध्देदिदासत: ॥ प्रियंभोजेषुयज्वसु ॥ इदंउदितंकृधि ॥ यथादेवाअसुरेषु ॥ श्रध्दामुग्रेषुचक्रिरे ॥ एवंभोजेषुयज्वसु ॥ अस्माकमुदितंकृधि ॥ श्रध्दांदेवायजमाना: ॥ वायुगोपाउपासते ॥ श्रध्दामुग्रेषुचक्रिरे ॥ एवंभोजेषुयज्वसु ॥ अस्माकमुदितंकृधि ॥ श्रध्दांदेवायजमाना: ॥ वायुगोपाउपासते ॥ श्रध्दाहृदय्ययाकूत्या ॥ श्रध्दयाहूयतेहवि: ॥ श्रध्दांप्रातर्हवामहे ॥ श्रध्दांमध्यंदिनंपरि ॥ श्रध्दासूर्यस्यनिम्रुचि ॥ श्रध्देश्रध्दापयेहमां ॥ श्रध्दादेवानधिवस्ते ॥ श्रध्दाविश्वमिदंजगत् ॥ श्रध्दांकामस्यमातरं ॥ हविषावर्धयामसि ॥ ब्रह्मजज्ञानंप्रथमंपुरस्तात् ॥ विसीमत:सुरुचोवेनआव: ॥ सुबुध्नियाउपमाअस्यविष्ठा: ॥सतश्चयोनिमसतश्चविव: ॥ पिताविराजामृषभोरयीणां ॥ अंतरिक्षंविश्वरुपआविवेश ॥तमर्कैरभ्यर्चतिवत्सं ॥ ब्रह्मसंतंब्रह्मणावर्धयंत: ॥ ब्रह्मदेवानजनयत् ॥ ब्रह्मविश्वमिदंजगत् ॥ ब्रह्मण:क्षत्रंनिर्मितं ॥ ब्रह्मब्राह्मणआत्मना ॥ अंतरस्मिन्निमेलोका: ॥ अंतर्विश्वमिदंजगत् ॥ ब्रह्मैवभूतानांज्येष्ठं ॥ तेनकोर्हतिस्पर्धितुं ॥ ब्रह्मन्देवास्त्रयस्त्रिशत् ॥ ब्रह्मान्निंद्रप्रजापती ॥ ब्रह्मन्हविश्वाभूतानि ॥ नावीवांत:समाहिता ॥ चतस्त्रआशा:प्रचरंत्वग्नय: ॥ इमंनोयज्ञंनयतुप्रजानन् ॥ घृतंपिन्वन्नजरसुवीरं ॥ ब्रह्मसमिभ्दवत्याहुतीनां ॥ आगावोअम्मन्नुतभद्रमक्रन् ॥सीदंतुगोष्ठेरणयंत्वस्मे ॥ प्रजावती:पुरुरुपाइहस्यु: ॥ इंद्रायपूर्वीरुषसोदुहाना: ॥ इंद्रोयज्वनेपृणतेचशिक्षति ॥ उपेद्ददातिनस्वंमुषायति ॥ भूयोभूयोरयिमिदस्यवर्धयन् ॥ अभिन्नेखिल्लेनिदधातिदेवयुं ॥ नतानशांतिनदभातितस्कर: ॥ नैनाअमित्रोव्यथिरादधर्षति ॥देवाश्चयाभिर्यजतेददातिच ॥ ज्योगित्ताभि:सचतेगोपति:सह ॥ नताअर्वारेणुककाटौअश्रुते ॥ नसस्कृतत्रमुपयंतिताअभि ॥ उरुगायमभयंतस्यताअनु ॥ गावोमर्त्यस्यविचरंतियज्वन: ॥ गावोभगोगावइंद्रोमेअच्छात् ॥ गाव:सोमस्यप्रथमस्यभक्ष: ॥ इमायागाव:सजनासइंद्र: ॥ इच्छामीध्दृदामनसाचिदिंद्रं ॥ यूय़ंगावोमेदयथाकृशंचित् ॥ अश्लीलंचित्कृणुथासुप्रतीकं ॥ भद्रंगृहंकृणुथभद्रवाच: ॥ बृहद्वोवयउच्यतेसभासु ॥ प्रजावती:सूयवसरिशंती: ॥ शुध्दाअप:सुप्रपाणेपिबंती: ॥ मावस्तेनईशतमाघशस: ॥ परिवोहेतीरुद्रस्यवृंज्यात् ॥ उपदेशमुपपर्चनं ॥ आसुगोषुपपृच्यतां ॥ उपर्षभस्यरेतसि ॥ उपेंद्रतयवीर्ये ॥ तासूर्याचंद्रमसाविश्वभृत्तमामहत् ॥ तेजोवसमुद्राजतोदिवि ॥ उभाभुवंतीभुवनाकविक्रत् ॥ सूर्यानचंद्राचरतोहतामती ॥ पतीध्युमद्विश्वविदाउभादिव: ॥ सूर्याउभाचंद्रमसाविचक्षणा ॥ विश्ववारावरिवोभोवरेण्या ॥ तानोवतंमतिमंतामहिव्रता ॥ विश्वपरीप्रतरणातरंता ॥ सुवर्दिदादृशयेभूरिरश्मी ॥ सूर्याहिचंद्रावसुत्वेशदर्शता ॥ मनस्विनोभानुचरतोनुसंदिवं ॥ अस्यश्रवोनध्य:सप्तबिभ्रति ॥ ध्यावाक्षामापृथिवीदर्शतंवपु: ॥ अस्मेसूर्याचंद्रमसाभिचक्षे ॥ श्रध्देकमिंद्रचरतोविचर्तुरं ॥ पूर्वापरंचरतोमाययैतो ॥ शिशूक्रीडंतौपरियातोअध्वरं ॥ विश्वान्यन्योभुवनाभिचष्टे ॥ ऋतूनन्योविदधज्जायतेपुन: ॥ हिरण्यवर्णा:शुचय:पावकायासुजात:कश्यपोयास्विंद्र: ॥ अग्निंयागर्भदधिरेविरुपास्तानआप:शस्योनाभवंतु ॥ यासाराजावरुणोयातिमध्येसत्यानृतेअपवश्यंजनानां ॥मधुश्चुत:शुचयोया:पावकास्तानआप:शस्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाअंतरिक्षेबहुधाभवति ॥ या:पृथिवोंपयसोदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषापश्यताप:शिवयातनुवोपस्पृशतत्वचंमे ॥ सर्वाअग्नीरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त: ॥ आपोभद्राघृतमिदापआसूरग्नीषोमौबिभ्रत्याइत्ता: ॥तीव्रोरसोमधुपृचामरंगमआमाप्राणेनसहवर्चसागन् ॥ आदित्पशाम्युतवाशृणोम्यामाघोषोगच्छतिवाड्गआसाम् ॥ मन्येभेजानोअमृतस्यतर्हिहिरण्यवर्णाअतृपंयदाव: ॥ नासदासीन्नोसदासीत्तदानीं ॥ नासेद्रजोनोव्योमापुरोयत् ॥ किमावरीव:कुहकस्यशर्मन् ॥ अंभ:किमासीद्गहनंगंभीर ॥ नमृत्युरमृतंतर्हिन ॥ रात्रियाअह्नआसीत्प्रकेत: ॥ आनीदवातस्व्धयातदेकं ॥ तस्माध्दान्यंपर:किंचनास ॥ तमआसीत्तमसागूढमग्रेप्रकेतं ॥सलिलसर्वमाइदं ॥ तुच्छेनाभ्वपिहितंयदासीत् ॥ तमसस्तन्महिनाजायतैकं ॥ कामस्तदग्रेसमवर्तताधि ॥ मनसोरेत:प्रथमंयदासीत् ॥ सतोबंधुमसतिनिरविंदन् ॥ हृदिप्रतीष्याकवयोमनीषा ॥ तिरश्चीनोविततोरश्मिरेषां ॥ अधस्विदासी३दुपरिस्विदासी३त् ॥ रेतोधाआसन्महिमानआसन् ॥ स्वधाअबस्तात्प्रयति:परस्तात् ॥ कोअध्दावेदकइहप्रवोचत् ॥कुतआजातकुतइयंविसृष्टि: ॥ अर्वाग्देवाअस्यविसर्जनाय ॥ अथाकोवेदयतआबभूव ॥ इयंविसृष्टिर्यतआबभूव ॥ यदिवादधेयदिवान ॥ योअस्याध्यक्ष:परमेव्योमन् ॥ सोअंगवेदयदिवानवेद ॥ किस्विद्वनंकउसवृक्षआसीत् ॥ यतोध्यावापृथिवीनिष्टतक्षु: ॥ मनीषिणोमनसापृच्छतेदुतत् ॥ यदध्यतिष्ठभ्दुवनानिधारयन् ॥ ब्रह्मवनंब्रह्मसवृक्ष आसीत् ॥यतोध्यावापृथिवीनिष्टतक्षु: ॥ मनीषिणोमनसाविब्रवीमिव: ॥ ब्रह्माध्यतिष्ठभ्दुवनानिधारयन् ॥ प्रातरग्निंप्रातरिंद्रहवामहे ॥ प्रातर्मित्रावरुणाप्रातरश्विनां ॥ प्रातर्भगंपूषणंब्रह्मणस्पतिं ॥ प्रात:सोममुतरुद्रहुवेम ॥ प्रातर्जितंभगमुग्रहुवेम ॥ वयंपुत्रमदितेर्योविधर्ता ॥ आध्रश्चिध्यंमन्यमानस्तुरश्चित् ॥ राजाचिध्यंभगंभक्षीत्याह ॥ भगप्रणेतर्भगसत्यराध: ॥भगेमांधियमुदवददन्न: ॥ भगप्रणोजनयगोभिरश्वै: ॥ भगप्रनृभिर्नृवंत:स्याम ॥ उतेनादानींभगवंत:स्याम ॥ उतप्रपित्वउतमध्येअन्हां ॥ उतोदितामघवन्त्सूर्यस्य ॥ वयंदंवानांसुमतौस्याम ॥ भगएवभगवाअस्तुदेवा: ॥ तेनवयंभगवंत:स्याम ॥ तंत्वाभगसर्वइज्जोहवीमि ॥ सनोभगपुरएताभवेह ॥ समध्वरायोषसोनमंत ॥ दधिक्रावेवशुचयेपदाय ॥ अर्वाचीनंवसुविदंभगंन: ॥ रथमिवाश्वावाजिनआवहंतु ॥ अग्निर्न:पातुकृत्तिका: ॥नक्षत्रंदेवमिंद्रियं ॥ इदमासांविचक्षणं ॥ हविरासंजुहोतन ॥ यस्यभांतिरश्मयोयस्यकेतव: ॥ यस्येमाविश्वाभुवनानिसर्वा ॥ सकृत्तिकाभिरभिसंवसान: ॥ अग्निर्नोदेव:सुवितेदधातु ॥प्रजापतेरोहिणीवेतुपत्नीं ॥ विश्वरुपाबृहतीचित्रभानु: ॥१॥सानोयज्ञस्यसुवितेदधातु ॥ यथाजीवेमशरद:सवीरा: ॥ रोहिणीदेव्युदगात्पुरस्तात् ॥विश्वरुपाणिप्रतिमोदमाना ॥ प्रजापतिहविषावर्धयंती ॥ प्रियादेवानामुपयातुयज्ञं ॥ सोमोराजामृगशीर्षेणआगन् ॥ शिवंनक्षत्रंप्रियमंस्यधाम ॥ आप्यायमानोबहुधाजनेषु ॥रेत:प्रजांयजमानेधातु ॥२॥यत्तेनक्षत्रंमृगशीर्षमस्ति ॥ प्रियराजन्प्रियतमंप्रियाणां ॥ तस्मैतेसोमहविषाविधेम ॥शंनएधिद्विपदेशंचतुष्पदे ॥ आर्द्रयारुद्र:प्रथमानएति ॥ श्रेष्ठोदेवानांपतिरघ्नियानां ॥नक्षत्रमस्यहविषाविधेम ॥ मान:प्रजारीरिषन्मोतवीरान् ॥ हेतीरुद्रस्यपरिणोवृणक्तु ॥ आर्द्रानक्षत्रंजुषताहविर्न: ॥३॥प्रमुंचमानौदुरितानिविश्वा ॥ अपाघशसंनुदतामरातिं ॥ पुनर्नोदेव्यदितिस्पृणोतु ॥ पुनर्वसून:पुनरेतांयज्ञं ॥ पुनर्नोदेवाअभियंतुसर्वे ॥ पुन:पुनर्वोहविषायजाम: ॥ एवानदेव्यदितिरनर्वा ॥ विश्वस्यभत्रींजगत:प्रतिष्ठा ॥ पुनर्वसूहविषावर्धयंती ॥ प्रियंदेवानामप्येतुपाथ: ॥४॥बृहस्पति:प्रथमंजायमान: ॥ तिष्यंनक्षत्रमभिसंबभूव ॥ श्रेष्ठोदेवानांपृतनासुजिष्णु: ॥ दिशोनुसर्वाअभयंअस्तु ॥ तिष्य:पुरस्तादुतमध्यतोन: ॥ बृहस्पतिर्न:परिपातुपश्चात् ॥बाधेतांद्वेषोअभयंकृणुतां ॥ सुवीर्यस्यपतय:स्याम ॥ इदसर्पेभ्योहविरस्तुजुष्टं ॥ आश्रेषायेषामनुयंतिचेत: ॥५॥येअंतरिक्षंपृथिवींक्षियंतिं ॥ तेन:सर्पासोहवमागमिष्ठा: ॥ येरोचनेसूर्यस्यापिसर्पा: ॥येदिवंदेवीमनुसंचरंति ॥ येषामाश्रेषाअनुयंतिकामं ॥ तेभ्य:सर्पेभ्योमधुमज्जुहोमि ॥उपहूता:पितरोयेमघासु ॥ मनोजवस:सुकृत:सुकृत्या: ॥ तेनोनक्षत्रेहवमार्गमिष्ठा: ॥स्वधाभिर्यज्ञंप्रयतंजुषंतां ॥६॥येअग्निदग्धायेनग्निदग्धा: ॥ येमुंलोकंपितर:क्षियंति ॥ याश्चविद्मयाउचनप्रविद्म ॥मघासुयज्ञसुकृतंजुषंतां ॥ गवांपति:फल्गुनीनामसित्वं ॥ तदर्यमन्वरुणमित्रचारु ॥तंत्वावयसनितारसनीनां ॥ जीवाजीवंतमुपसंविशेम ॥ येनेमाविश्वाभुवनानिसंर्जिता ॥ यस्यदेवाअनुसयंतिचेत: ॥७॥अर्यमाराजाजरस्तुविष्मान् ॥ फल्गुनीनामृषभोरोरवीति ॥ श्रेष्ठोदेवानांभगवोभगासि ॥ तत्त्वाविदु:फल्गुनीस्तस्यवित्तात् ॥ अस्मभ्यंक्षत्रमजरसुवीर्य ॥ गोमदश्ववदुपसंनुदेह ॥भगोहदाताभगइत्प्रदाता ॥ भगोदेवी:फल्गुनीराविवेश ॥ भगस्येत्तंप्रसवंगमेम ॥ यत्रदेवै:सधमादंदेम ॥८॥आयातुदेव:सवितोपयातु ॥ हिरण्ययेनसुवृतारथेन ॥ वहन्हस्तसुभगंविद्मनापसं ॥ प्रयच्छंतंपपुरिंपुण्य़मच्छ ॥ हस्त:प्रयच्छत्वमृतंवसीय: ॥ दक्षिणेनप्रतिगृभ्णीमएनत् ॥दातारमध्यसविताविदेय ॥ योनोहस्तायप्रसुवातियज्ञं ॥ त्वष्टानक्षत्रभ्येतिचित्रां ॥ सुभससंयुवतिरोचमानां ॥९॥निवेशयन्नमृतान्मर्त्याश्च ॥ रुपाणिपिशन्भुवनानिविश्वा ॥ तन्नस्त्वष्टातदुचित्राविचष्टां ॥ तन्नक्षत्रंभूरिदाअस्तुमह्यं ॥ तन्न:प्रजांवीरवतीसनोतु ॥ गोभिर्नोअश्वै:समनक्तुयज्ञं ॥वार्युर्नक्षत्रमभ्येतिनिष्ठयां ॥ तिग्मशृंगोवृषभोरोरुवाण: ॥ समीरयन्भुवनामात्तरिश्वा ॥अपद्वेषासिनुदतामराती: ॥१०॥तन्नोवायुस्तदुनिष्ठयाशृणोतु ॥ तन्नक्षत्रंभूरिदाअस्तुमह्यं ॥ तन्नोदेवासोअनुजानंतुकामं ॥ यथातरेमदुरितानिविश्वा ॥ दूरमस्मच्छत्रवोयंतुभीता: ॥ तदिंद्राग्नीकृणुतांतद्विशाखे ॥ तन्नोदेवाअनुमदंतुयज्ञं ॥ पश्चात्पुरस्तादभयंनोअस्तु ॥ नक्षत्राणामधिपत्नीविशाखे ॥श्रेष्ठाविंद्राग्नीभुवनस्यगोपौ ॥११॥विषूच:शत्रऊनपबाधमानौ ॥ अपक्षुधंनुदतामरातिं ॥ पूर्णापश्चादुतपूर्णापुरस्तात् ॥उन्मध्यत:पौर्णमासीजिगाय ॥ तस्यांदेवाअधिसंवसंत: ॥उत्तमेनाकइहमादयंता ॥ पृथ्वीसुवर्चायुवति:सजोषा: ॥ पौर्णमास्युदगाच्छोभमाना ॥ आप्याययंतीदुरितानिविश्वा ॥ उरुंदुहांयजमानाययज्ञं ॥१२॥ऋध्यास्महव्यैर्नमसोपध्य ॥ मित्रंदेवंमित्रधेयंनोअस्तु ॥ अनूराधान्हविषावर्धयंत: ॥शतंजीवेमशरद:सवीरा: ॥ चित्रंनक्षत्रमुदगात्पुरस्तात् ॥ अनूराधासइतियद्वदंति ॥तन्मित्रएतिपथिभिर्देवयानै: ॥ हिरण्ययैर्विततैरंतरिक्षे ॥ इंद्रोज्येष्ठामनुनक्षत्रमेति ॥ यस्मिन्वृत्रंवृत्रतूर्येततार ॥ तस्मिन्वयममृतंदुहाना: ॥ क्षुधंतरेमदुरितिंदुरिष्टिं ॥ पुरंदरायवृषभायधृष्णवे ॥ अषाढायसहमानायमीढुषे ॥ इंद्रायज्येष्ठामधुमद्दुहाना ॥उरुंकृणोतुयजमानायलोकं ॥ मूलंप्रजांवीरवतींविदेय ॥ पराच्येतुनिऋति:पराचा ॥ गोभिर्नक्षत्रंपशुभि:समक्तं ॥ अहर्भूयाध्यजमानायमह्यं ॥१३॥अहर्नोअध्यसुवितेदधातु ॥ मूलंनक्षत्रमितियद्वदंति ॥ पराचींवाचानिऋतिंनुदामि ॥ शिवंप्रजायैशिवमस्तुमह्यं ॥ यादिव्याआप:पयसासंबभूवु: ॥ याअंतरिक्षउतपार्थिवीर्या: ॥यासामषाढाअनुयंतिकामं ॥ तानआप:शस्योनाभवंतु ॥ याश्चकूप्यायाश्चनाध्या:समुद्रियां ॥ याश्चवैशंतीरुतप्रासचीर्या: ॥ यासामषाढामधुभक्षयंति ॥ तानआप:शस्योनाभवंतु ॥तन्नोविश्वेउपश्रृण्वंतुदेवा: ॥ तदषाढाअभिसंयंतुयज्ञं ॥ तन्नक्षत्रंप्रथतांपशुभ्य: ॥ कृषिर्वृष्टिर्यजमानायकल्पतां ॥ शुभ्रा:कन्यायुवतय:सुपेशस: ॥ कर्मकृत: सुकृतोवीर्यावती: ॥ विश्वेन्देवान्हविषावर्धयंती: ॥ अषाढा:काममुपयांतुयज्ञं ॥ यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् ॥ अमुंअलोकमिदमुचसर्वै ॥ तन्नोनक्षत्रमभिजिद्विजित्य ॥ श्रियंदधात्वहृणीयमानं ॥ उभौलोकौब्रह्मणासंजितेमौ ॥ तन्नोनक्षत्रमभिजिद्विचष्टां ॥ तस्मिन्वयंपृतना:संजयेम ॥ तन्नोदेवासोअनुजानंतुकामं ॥ शृण्वंतिश्रोणाममृतस्यगोपां ॥ पुण्यामस्याउपश्रृणोमिवाचं ॥ महींदेवींविष्णुपत्नीमजूर्यां ॥ प्रतीचीमेनाहविषायजाम: ॥ त्रेधाविष्णुरुरुगायोविचक्रमे ॥ महींदिवंपृथिवीमंतरिक्षं ॥ तच्छोणैतिश्रवइच्छमाना ॥ पुण्यश्लोकंयजमानायकृण्वती ॥ अष्टौदेवावसव:सोम्यास: ॥ चतस्त्रोदेवीरजरा:श्रविष्ठा: ॥ तेयज्ञंपांतुरजस:परस्तात् ॥ संवत्सरीणममृतस्वस्ति ॥ यज्ञंन:पांतुवसव:पुरस्तात् ॥ दक्षिणतोभियंतुश्रविष्ठा: ॥ पुण्यंनक्षत्रमभिसंविशाम ॥ मानोअरातिरघशसागन् ॥ क्षत्रस्यराजावरुणोधिराज: ॥ नक्षत्राणाशतभिषग्वसिष्ठ: ॥ तौदेवेभ्य:कृणुतोदीर्घमायु: ॥ शतसहस्त्राभेषजानिधत्त: ॥यज्ञंनोराजावरुणउपयातु ॥ तन्नोविश्वेअभिसंयंतुदेवा: ॥ तन्नोनक्षत्रशतभिषग् जुषाणं ॥दीर्घमायु:प्रतिरभ्देषजानि ॥ अजएकपादुदगात्पुरस्तात् ॥ विश्वाभूतानिप्रतिमोदमान: ॥तस्यदेवा:प्रसवंयंतिसर्वे ॥ प्रोष्ठपदासोअमृतस्यगोपा: ॥ विभ्राजमान:समिधानउग्र: ॥ आंतरिक्षमरुहदगंध्यां ॥ तसूर्यदेवमजमेकंपादं ॥ प्रोष्ठपदासोअनुयंतिसर्वे ॥ अहिर्बुध्निय:प्रथमानएति । श्रेष्ठोदेवानामुतमानुशाणां ॥ तंब्राह्मणा:सोमपा:सोम्यास: ॥ प्रोष्ठपदासोअभिरंक्षंतिसर्वे ॥ चत्वारएकमभिकर्मदेवा: ॥ प्रोष्ठपदासइतियान्वदंति ॥ तेबुध्नियंपरिषध्यस्तुवंत: ॥अहिरक्षंतिनमसोपसध्य ॥ पूषारेवत्यन्वेतिपंथा ॥ पुष्टिपतीपशुपावाजबस्त्यौ ॥ इमानिहव्याप्रयताजुषाणा ॥ सुगैर्नोयानैरुपयातांयज्ञं ॥ क्षुद्रान्पशून्रक्षतुरेवतीन: ॥ गावोनोअश्वाअन्तेतुपूषा ॥ अन्नरक्षतौबहुधाविरुपं ॥ वाजसनुतांयजमानाययज्ञं ॥ तदश्विनावश्वयुजोपयातां ॥ शुभंगमिष्ठौसुयमेभिरश्वै: ॥ स्वंनक्षत्रहविषायजंतौ ॥ मध्वासंपृक्तौयजुषासमक्तौ ॥ यौदेवानांभिषजौहव्यवाहौ ॥ विश्वस्यदूतावमृतस्यगोपौ ॥तौनक्षत्रंजुजुषाणोपयातां ॥ नमोश्विभ्यांकृणुमोश्वयुग्भ्यां ॥ अपपाप्मानंभरणीर्भरंतु ॥तध्यमोराजाभगवान्विचष्टां ॥ लोकस्यराजामहतोमहान्हि ॥ सुगंन:पंथामभयंकृणुमोश्वयुग्भ्यां ॥ अपपाप्मानंभरणीर्भरंतु ॥ तध्यमोराजाभगवान्विचष्टां ॥ लोकस्यराजामहतोमहान्हि ॥ सुगंन:पंथामभयंकृणोतु ॥ यस्मिन्नक्षत्रेयमएतिराजा ॥ यस्मिन्नेनमभ्यषिंचंतदेवा: ॥ तदस्यचित्रहविषायजाम ॥ अपपाप्मानंभरणीर्भरंतु ॥ निवेशनीसंगमनीवसूनांविश्वारुपाणिवसून्यावेशयंती ॥ सहस्त्रपोषसुभगारराणासानआगन्वर्चसासंविदाना ॥ यत्तेदेवाअदधुर्भागघेयममावास्येसंवसंतोमहित्वा ॥ सानोयज्ञंपिपृहिविश्ववारेरयिंनोधेहिसुभगेसुवीरं ॥ नवोनवोभवतिजायमानोह्नांकेतुरुषसामेत्यग्रे ॥ भागंदेवेभ्योविदधात्यायन्प्रचंद्रमास्तिरतिदीर्घमायु: ॥ यमादित्याअशुमाप्याययंतियमक्षिततमक्षितय:पिबंति ॥ तेननोराजावरुणोबृहस्पतिराप्याययंतुभुवनस्यगोपा: ॥ येविरुपेसमनसासंव्ययंती ॥ समानंतंतुपरितातनाते ॥ विभूप्रभूअनुभूविश्वतोहुवे ॥ तेनोनक्षत्रेहवमागमेतं ॥ वयंदेवीब्रह्मणासंविदाना: ॥ सुरत्नासोदेववीतिंदधाना: ॥ अहोरात्रेहविषावर्धयंत: ॥ अतिपाप्मानमतिमुक्त्यागमेम ॥ प्रत्युवदृश्यायती ॥ व्युच्छंतीदुहितादिव: ॥ अपोमहीवृणुतेचक्षुषा ॥ तमोज्योतिष्कृणोतिसूनरी ॥ उदुस्त्रिया:सचतेसूर्य: ॥ सचाउध्यंनक्षत्रमर्चिमत् ॥ तवेदुषोव्युषिसूर्यस्यच ॥ संभक्तेनगमेमहि ॥ तन्नोनक्षत्रमर्चिमत् ॥ भानुमत्तेजउच्चरत् ॥ उपयज्ञमिहागमत् ॥प्रनक्षत्रायदेवाय ॥ इंद्रायेंदुहवामहे ॥ सन:सवितासुवत्सनिं ॥ पुष्टिदांवीरवत्तमं ॥ उदुत्यंजातवेदसं देवंवहंतिकेतव: ॥ दृशेविश्वायसूर्यं ॥ चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्रे: ॥ आप्राध्यावापृथिवीअंतरिक्षसूर्यआत्माजगतस्तस्थुषश्च ॥ अदितिर्नउरुष्यत्वदिति:शर्मयच्छतु ॥ अदिति:पात्वहस: ॥ महीमूषुमातरसुव्रतानामृतस्यपत्नीमवसेहुवेम ॥ तिविक्षत्रामजरंतीमुरुचीसुशर्माणमदितिसुप्रणीतिं ॥ इदंविष्णुर्विचक्रमेत्रेधानिदधेषदं ॥ समूढमस्यपारुस्रे ॥ प्रतद्विष्णु:स्तवतेवीर्याय ॥ मृगोनभीम:कुचरोगिरिष्ठा: ॥ यस्योरुषुत्रिषुविक्रमणेषु ॥ अधिक्षियंतिभुवनानिविश्वा ॥अग्निमूर्धादिव:ककुत्पति:पृथिव्याअयं ॥अपारेतासिजिन्वति ॥ भुवोयज्ञस्यरजसश्चनेतायत्रानियुभ्दि:सचसेशिवाभि: ॥ दिविमूर्धानंदधिषेसुवर्षांजिह्वामग्नेचकृषेहव्यवाहं ॥ अनुनोध्यानुमतिर्यज्ञंदेवेषुमन्यतां ॥ अग्निश्चहव्यवाहनोभवतांदाशुषेमय: ॥ अन्विदनुमतेत्वंमन्यासैशंचन:कृधि ॥ ऋत्वेदक्षायनोहिनुप्रणआयूषितारिष: ॥ हव्यवाहमभिमातिषाहं ॥ रक्षोहणंपृतनासुजिष्णुं ॥ ज्योतिष्मंतंदीध्यतंपुरंधि ॥ अग्निस्विष्टकृतमाहुवेम ॥ स्विष्टमग्नेअभितत्पृणाहि ॥विश्वादेवपृतनाअभिष्य ॥ उरुंन:पंथांप्रदिशन्विभाहि ॥ ज्योतिष्मध्देह्यजरंनआयु: ॥अग्नयेस्वाहाकृत्तिकाभ्य:स्वाहा ॥ अंबायैस्वाहा दुलायैस्वाहा ॥ नितत्न्यैस्वाहाभ्रयंत्यैस्वाहा ॥ मेघयंत्यैस्वाहावर्षयंत्यैस्वाहा ॥ चुपुणीकायैस्वाहा ॥ प्रजापतयेस्वाहारोहिण्यैस्वाहा ॥ रोचंमानायैस्वाहाप्रजाभ्य:स्वाहा ॥ सोमायस्वाहामृगशीर्शायस्वाहा ॥ इन्वकाभ्य:स्वाहौषधीभ्य:स्वाहा ॥ राज्यायस्वाहाभिजित्यैस्वाहा ॥ रुद्रायस्वाहार्द्रायैस्वाहा ॥ पिन्वमानायैस्वाहापशुभ्य:स्वाहा ॥ अदित्यैस्वाहापुनर्वसुभ्यां ॥स्वाहाभूत्यैस्वाहाप्रजात्यैस्वाहा ॥ बृहस्पतयेस्वाहातिष्यायस्वाहा ॥ ब्रह्मचर्यसायस्वाहा ॥ सर्पेभ्य:स्वाहाश्रेषाभ्य:स्वाहा ॥ दंदशूकेभ्य:स्वाहा ॥ पितृभ्य:स्वाहामघाभ्य: ॥ स्वाहानघाम्य:स्वाहागदाभ्य: ॥ स्वाहारुंधतीभ्य:स्वाहा ॥ अर्यम्णेस्वाहाफल्गुनीभ्यास्वाहा ॥ पशुभ्य:स्वाहा ॥ भगायस्वाहाफल्गुनीभ्यास्वाहा ॥ श्रैष्ठ्यायस्वाहा ॥ सवित्रेस्वाहाहस्ताय ॥ स्वाहाददतेस्वाहापृणते ॥ स्वाहाप्रयच्छतेस्वाहाप्रतिगृभ्णतेस्वाहा ॥ त्वेष्टेस्वाहा ॥ चैत्रायस्वाहाप्रजायैस्वाहा ॥ वायव्येस्वाहानिष्ठयायैस्वाहा ॥ कामचारायस्वाहाभिजित्यैस्वाहा ॥ इंद्राग्निभ्यास्वाहाविशाखाभ्यास्वाहा ॥ श्रेष्ठयायस्वाहाभिजित्यैस्वाहा ॥ पौर्णमास्यैस्वाहाकामायस्वाहागत्यैस्वाहा ॥ मित्रायस्वाहानूराधेभ्य:स्वाहा ॥ मित्रधेयायस्वाहाभिजित्यैस्वाहा ॥ इंद्रायस्वाहाज्येष्ठायैस्वाहा ॥ ज्यैष्ठायस्वाहाभिजित्यैस्वाहा ॥ प्रजापतयेस्वाहामूलायस्वाहा ॥ प्रजायैस्वाहा ॥ अभ्ध्य:स्वाहाषाढाभ्य:स्वाहा ॥ समुद्रायस्वाहाकामायस्वाहा ॥ अभिजित्यैस्वाहा ॥ विश्वेभ्योदेवेभ्य:स्वाहाषाढाभ्य:स्वाहा ॥ अनपजय्यायस्वाहाजित्यैस्वाहा ॥ ब्रह्मणेस्वाहाभिजितेस्वाहा ॥ ब्रह्मलोकायस्वाहाभिजित्यैस्वाहा ॥ विष्णवेस्वाहाश्रोणायैस्वाहा ॥ श्लोकायस्वाहाश्रुतायस्वाहा ॥ वसुभ्य:स्वाहाश्रविष्ठाभ्य:स्वाहा ॥ अग्रायस्वाहापरीत्यैस्वाहा ॥ वरुणायस्वाहाशतभिषजेस्वाहा ॥ भेषेजेभ्य:स्वाहा ॥ अजायैकपदेस्वाहाप्रोष्ठपदेभ्य:स्वाहा ॥ तेजसेस्वाहाब्रह्मवर्चसायस्वाहा ॥ वरुणायस्वाहाशतभिषजेस्वाहा ॥ भेषजेभ्य:स्वाहा ॥ अजायैकपदेस्वाहाप्रोष्ठपदेभ्य:स्वाहा ॥ तेजसेस्वाहाब्रह्मवर्चसायस्वाहा ॥ अहयेबुध्नियायस्वाहाप्रोष्ठपदेभ्य:स्वाहा ॥ प्रतिष्ठायैस्वाहा ॥ पूष्णेस्वाहारेवत्यैस्वाहा ॥पशुभ्य:स्वाहा ॥ अश्विभ्यास्वाहाश्वयुग्भ्यास्वाहा ॥ श्रोत्रायस्वाहाश्रुत्यैस्वाहा ॥ यमायस्वाहापभरणीभ्य:स्वाहा ॥ राज्यायस्वाहाभिजित्यैस्वाहा ॥ अमावास्यायैस्वाहाकामायस्वाहागत्यैस्वाहा ॥ चंद्रमसेस्वाहाप्रतीदृश्यायैस्वाहा ॥ अहोरात्रेभ्य:स्वाहार्धमासेभ्य:स्वाहा ॥ मासेभ्य:स्वाहर्तुभ्य:स्वाहा ॥ संवत्सरायस्वाहा ॥ अन्हेस्वाहाकारात्रियैस्वाहा ॥ अतिमुक्त्यैस्वाहा ॥उषसेस्वाहाव्युष्टौस्वाहा ॥ व्यूषुष्यैस्वाहाव्युच्छंत्यैस्वाहा ॥ व्युष्टायैस्वाहा ॥ नक्षत्रायस्वाहोदेष्यतेस्वाहा ॥ उध्यतेस्वाहोदितायस्वाहा ॥ हरसेस्वाहाभरसेस्वाहा ॥ भ्राजसेस्वाहातेजसेस्वाहा ॥ तपसेस्वाहाब्रह्मवर्चसायस्वाहा ॥ सूर्यायस्वाहानक्षत्रेभ्य:स्वाहा ॥ प्रतिष्ठायैस्वाहा ॥ अदित्यैस्वाहाप्रतिष्ठायैस्वाहा ॥ विष्णवेस्वाहायज्ञायस्वाहा ॥ प्रतिष्ठायैस्वाहा ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥ सुरभिनोमुखाकरत्प्रणआयूषितारिषत् ॥ ॐ आपोहिष्ठामयोभुवस्तान० ॥३॥यच्चिध्दितेविशोयथा० यत्किंचेदं० कितवासो० ॐ हिरण्यवर्णा:शुचय:पावका० यासाराजा० यासांदेवा० शिवेनमाचक्षुषापश्यताप:शिवयातनुवोषस्पृशतत्वचंमे ॥सर्वाअग्रीरप्सुषदोहुवेवोमयिवर्चोबलमोजिनिधत्त ॥ पवमान:सुवर्जन:० ॥ जातवेमोर्जयंत्यापुनातु ॥ ॐ भूर्भव:सुव: ॥ तच्छंयोरावृणीमहे ॥ गातुंयज्ञाय ॥ गांतुयज्ञपतये ॥ दैवीस्वस्तिरस्तुन: ॥ स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुभेषजं ॥ शंनोअस्तुद्विपदे ॥ शंचतुष्पदे ॥ नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनमओषधीभ्य: ॥ नमोवाचेनमोवाचस्पतयेनमोविष्णवेबृहतेकरोमि ॥ इतित्रि: ॥ ॐ शांति:शांति:शांति: ॥ततऋत्विज:पंचोपचारै:संपूज्यप्रणवेनोदकुंभमुत्थाप्यतत्रैवस्थाप्यतज्जलैर्व्याहृतिभिरापोहिष्ठेत्यादिभि:सपत्नीकंयजमानमभिषिंचेयु: ॥ यजमानस्तेभ्योदक्षिणांपूर्वस्थितायहिरण्यंदक्षिणस्थायरजतंप्रत्यक्स्थायकास्यंउदक्स्थायवस्त्रमितितन्निष्क्रयंवादध्यात् ब्राह्मणान्भोजयेत् इति ॥ इत्युदकशांति:सप्रयोगासमाप्ता ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP