संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथतृचाकल्पपध्दति: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथतृचाकल्पपध्दति: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथतृचाकल्पपध्दति: Translation - भाषांतर श्री: ॥ सूतउवाच ॥ भक्त्याकृष्णंनमस्कृत्यपांडव:पर्यपृच्छत ॥ तृचामंत्रस्यमाहात्म्यंश्रोतुमिच्छाम्यहंप्रभो ॥१॥श्रीकृष्णउवाच ॥ परंव्रतंप्रवक्ष्यामिश्रृणुपार्थह्यनन्यधी: ॥ सौरवेदिकमंत्रस्यविधिंसर्वरुजापहं ॥२॥प्रत्यहंपूजनंतस्यमंत्रस्यसकलार्थदं ॥ अर्घ्यंचैवनमस्कारंसर्वंयध्यच्छृणुष्वतत् ॥३॥तवप्रीत्याप्रवक्ष्यामिसर्वलोकहितायवै ॥ सौरमंत्रस्यमाहात्म्यंप्रवक्ष्यामिसमासत: ॥४॥उध्यन्नध्येतिमंत्रोयंसौर:पापप्रनाशन: ॥ रोगघ्नश्चद्विषघ्नश्चभुक्तिमुक्तिप्रदायक: ॥५॥कण्वेनतुपुरादृष्टंगुह्यंपरमसिध्दिदं ॥ पुत्रस्यरोगनाशायख्यातंलोकहितायच ॥६॥तेनचाराधितोदेव:स्तुत्वामंत्रेणभास्कर: ॥ तत्प्रवक्ष्यामितेसर्वंन्यासपूजाविधिंक्रमात् ॥७॥उध्यन्नध्येत्यृचादित्यमुपतिष्ठेद्दिनेदिने ॥ हृद्रोगंनाशयेत्तस्यपरमारोग्यदायकं ॥८॥रोगीचजपतेरोगैर्मुक्तोभास्करतुष्टित: ॥ आरोग्यमेतत्परमंजपेन्नित्यमतंद्रित: ॥९॥द्विषंतमितिचार्धर्चंयद्विषंतंजपेत्स्मरन् ॥ अष्टावृत्त्याजपेन्नित्यंद्विषंनाशयतेध्रुवं ॥१०॥उक्तमन्त्रस्यसार्धंचद्विषिद्वेषइतिश्रुतं ॥ हृद्रोगंनाशमाप्नोतिमंत्रस्यास्यप्रभावत: ॥११॥साधकोविधिनानित्यंस्त्रात्वाह्यनुदितेरवौ ॥ धौतशुक्लांबरधर:कृत्वासंध्यादिका:क्रिया: ॥१२॥गोमयेनोपलिप्तेचशुचि:स्वासनमाविशेत् ॥ प्राणान्निरुध्यसंकल्प्यपूजाद्रव्याणिशोधयेत् ॥१३॥सकेसराणिपद्मानिकरवीराणिचार्जुन ॥ रक्तचंदनमिश्राणिगंधाक्षतकुशानिच ॥१४॥मंडलंरक्तवर्णेनआत्माग्रेचतुरस्त्रकं ॥ विरच्यतत्रपद्मानिगंधपंकेनवालिखेत् ॥१५॥ताम्रपात्रस्थितंयंत्रंविधायपंकजोपरि ॥ अर्घ्यपात्रंतथाताम्रंगर्भपद्मंतुलास्थितं ॥१६॥अर्घ्योदकेनसंपूर्यकलशंस्थापयेत्तत: ॥ गंगांचावाहयेत्तत्रमुद्रामंकुशयाजपन् ॥१७॥घृणीतिमूलमंत्रेणप्रणवाष्टकमंत्रितं ॥ गंधाध्यैरर्चितंतच्चअर्घ्यंतोयेनपूरयेत् ॥१८॥अर्चयेत्पूर्ववत्तेनअभिमंत्र्यततोजलं ॥ प्रोक्षणीकरणैस्त्वेवमात्मानंसेचयेत्तत: ॥१९॥न्यासंकृत्वातत:पश्चाद्विधिरेषउदाहृत: ॥ उध्यन्नध्येत्यृचामासामृषि:प्रस्कण्वईरित: ॥२०॥छंदोनुष्टुप् तथादेव:सूर्यनारायण:स्मृत: ॥ विनियोगस्तथाकार्योन्यासकर्मत्विदंश्रृणु ॥२१॥अनेनैवविधानेनन्यासंकृत्वायथाविधि ॥ उध्येत्यर्धर्चंप्रणवमायादीर्घस्वरैर्युतं ॥२२॥अंगुष्ठादिकरन्यासंदेहांगंचतत:परं ॥ हस्तयोर्हृदयेमूर्ध्निपादेनाभौमुखेतथा ॥२३॥चक्षुषो:कवचंशस्त्रंपादश:क्रमतोन्यसेत् ॥ अनेनैवविधानेनन्यासंकुर्वाध्यथाविधि ॥२४॥षडंगंकवचंकृत्वासौरमंत्रविधिक्रमात् ॥ एवंय:कुरुतेन्यासंद्वादशांगेषुसंयत: ॥२५॥सर्वरोगविनिर्मुक्त:सर्वोपद्रववर्जित: ॥ एवंन्यस्तमुनिर्विप्र:कर्णिकायामध:क्रमात् ॥२६॥आधारपीठपूजांचक्रमेणैवसमर्चयेत् ॥ कर्णिकायांन्यसेत्सूर्यंसांगावरणभूषितं ॥२७॥पत्रसंधिस्थिताष्टारदैवतै:सहपूजयेत् ॥ पादार्घ्याचमनंचैवमधुपर्कंनिवेदयेत् ॥२८॥ततस्त्वाचमनंस्नानंवस्त्रमाचमनंतथा ॥ गंधपुष्पंतथाधूपंदीपंनैवेध्यमेवच ॥२९॥ततश्चफलतांबूलंदक्षिणांचसमर्पयेत् ॥ अथार्घ्यपात्रमादायपूरयेत्तीर्थवारिणा ॥३०॥सकेसराणिपद्मानिकरवीराणिचार्जुन ॥ तिलतंडुलसंयुक्तंकुशैर्गंधोदकेनच ॥३१॥रक्तचंदनमिश्राणिकृत्वावैताम्रभाजने ॥ धृत्वाशिरसितत्पात्रंजानुभ्यांधरणीतले ॥३२॥मंत्रपूतंगुडाकेशअर्घ्यंदध्याद्गभस्तये ॥ पादार्धर्चतृचेनैवत्रिधावृत्तंत्रिधापुन: ॥३३॥दध्यादर्घ्यसमंत्रेण आनुलोम्यै: पुन:पुन: ॥ नित्यात्तुद्विगुणंकुर्याद्रविवारेप्रयत्नत: ॥३४॥दंडवत्प्रणमेभ्दूमावर्घ्यदानक्रमेणतु ॥ पुनश्चगंधपुष्पादीनुपचारान्प्रकल्पयेत् ॥३५॥मित्रादिदेवता:सर्वास्तर्पयेन्मार्जयेत्तत: ॥ तीर्थस्यग्रहणंकुर्यान्मंत्रेणानेनवापुन: ॥३६॥विप्रान्द्वादशशक्त्यावाभोजयेद्रविवासरे ॥ नमस्कृतिशतांशेनततोब्राह्मणभोजनं ॥३७॥इतिश्रीभविष्योत्तरपुराणेतृचाकल्पविधानं ॥ अथप्रयोग: ॥ आचम्यप्राणानायम्य ॥ तदादौशुभेमुहूर्तेनदीतीरेशुध्दभूमौषोडशद्वादशहस्तान्यतमहस्तंमंडपंचतुर्द्वारंकृत्वातन्मध्येहस्तमात्रांवेदींकृत्वासूर्योदयात्पूर्वंस्त्रात्वा परिहितशुक्लशुचिवासा:पूजासंभारन्संभृत्यमंडपमेत्यवेध्या:पश्चिमत:प्राड्मुखउपविश्यप्राणानायम्यदेशकालौसंकीर्त्यममामुकव्याधिनिरसनेनशरीरपुष्टिद्वाराश्रीसवितृसूर्यनारायणदेवताप्रीत्यर्थं अमुकसंख्ययातृचाकल्पविधिनार्घ्यदानानिनमस्कारांश्चकरिष्ये ॥ इतिसंकल्प्य ॥ गणेशपूजनंस्वस्तिवाचनंचकृत्वाआचार्यऋत्विजश्चयथाविभवंवृणुयात् ॥ तताआचार्योवेध्यांरक्तचंदनेनकुंकुमेनवाषट्कोणंवृत्तंअष्टकोणंद्वादशकोणंभूगृहंचतुर्द्वारयुतंचतुष्कोणंयंत्रंनिर्माय अर्घ्यपात्रासादनार्थंपुरत:अष्टदलंचतुरस्त्रंचनिर्मायअर्घ्यपात्रेअष्टदलंचनिर्मायसंकल्पपूर्वकंभूतशुध्द्यादिकंकुर्यात् ॥ निर्मितंयंत्रकेवलवेध्यांताम्रपात्रेवास्थापयेत् ॥ रविचक्रलक्षणं ॥ अथात:संप्रवक्ष्यामिरवेश्चक्रमनुत्तमं ॥ बिंदुस्त्रिकोणंवृत्तंचषट्कोणंवृत्तयुग्मकं ॥ पश्चादष्टलंप्रोक्तंद्वादशारंसकर्णिकं ॥भूपुरत्रितयंपश्चाच्चतुर्द्वारंरवे:क्रमात् ॥ इतिरविचक्रलक्षणं ॥ रवेर्मतांतरेणचक्रं ॥ आध्यंतृतीयेयादिभूतं भूताद्वितीयाच्चतथाद्वितीया (?) ॥ चतुर्थमाध्यंहिपुन:क्रमेणएवंलिखेदष्टदलेषुपद्मं ॥ तत:न्यासंकुर्यात् ॥तत्रमंडपदेवताभ्योनमइतिमंडपंसंपूज्यवास्तोष्पतयेब्रह्मणेनमइतिवास्तोष्पतिंपूजयित्वा ॥उध्यन्नध्येतितृचस्यकाण्व:प्रस्कण्वऋषि: ॥ सूर्योदेवता ॥ अनुष्तुप् छंद: ॥ अंगशुध्दौविनियोग: ॥ ॐ उध्यन्नध्यमित्र० इतितृचेनसोदकेनपाणिनांगान्यभिमृश्य ॥गुरुभ्योनम: ॥ परमगुरुभ्योनम: ॥ परात्परगुरुभ्योनम: ॥ कण्वपुत्रप्रस्कण्वऋषयेनम: शिरसि ॥ अनुष्टुप् छंदसेनम:मुखे ॥ सर्वरोगापहर्ताजगदात्माश्रीसूर्योदेवताहृदयायनम: ॥ज्ञाननेत्रेश्रींबीजंनाभ्यैनम: ॥ ह्रींकीलकंआधारायनम: ॥ द्वादशांगन्यासेविनियोग: ॥ ॐ उध्यन्नध्यमित्रमह: ॐ ह्रांदक्षिणहस्तायनम:कुकृतान्मित्रोरक्षतुमां ॥ ॐ आरोहन्नुत्तरांदिवं ॐ ह्रींवामहस्ताय० विहिताकरणाद्रवीरक्षतुमां ॥ ॐ हृद्रोगंममसुर्य ॐ ह्रंहृदयाय० सूर्योऽज्ञानाद्रक्षत्वनामयंकरोतुमां ॥ ॐ हरिमाणंचनाशय ओम ह्रैंमूर्ध्नेनम: शिरोवनमनाभ्दानूरक्षतु० ॥ ॐ शुकेषुमेहरिमाणं ॐ ह्रौदक्षिणपादाय० प्रतिषिध्दगमनात्खगोरक्षतुमां ॥ ॐ रोपणाकासुदध्मसि ॐ ह्र:वामपादाय० विहितागमनात्पूषारक्ष० ॥ ॐ अथोहारिद्रवेषुमे ॐ ह्रांनाभ्यै० तमोजाड्याध्दिरण्यगर्भोरक्ष० ॥ ॐ हरिमाणंनिदध्मसि ॐ ह्रींमुखाय० प्रतिषिध्दजिव्हाव्यापारात्सर्वतोमरीचीरक्षतुमां ॥ ॐ उदगादयमादित्य: ॐ ह्रूंदक्षिणनेत्राय० आंध्याद्विहितादर्शनाच्चादित्योरक्ष० ॥ ॐ विश्वेनसहसासह ॐ ह्रैंवामनेत्राय० प्रतिषिध्ददर्शनात्सवितारक्षतुमां ॥ ॐ द्विषंतंमह्यंरंधयन् ॐ ह्रौंकवचायहुं सर्वरोगेभ्योरिष्टेभ्यश्चार्कोरक्षतुमां ॥ ॐ मोअहंद्विषतेरधं ॐ ह्र:अस्त्रायफट् सर्वशत्रुकृत्याभ्योऽनिष्टेभ्यश्चभास्करोक्षतुमां ॥ अथषडंगन्यास: ॥ ॐ उध्यन्नध्यमित्रमह:० दिवं ॐ ह्रांमित्ररविभ्यामंगुष्ठाभ्यांनम: ॥ ॐ ह्र्द्रोगंममसूर्यहरिमाणंचनाशय ॐ ह्रीसूर्यभानुभ्यां तर्जनीभ्यांनम: ॥ ॐ शुकेषुमे० ध्मसि ॐ ह्रूं खगपूषभ्यां मध्यमाभ्यां० ॥ ॐ अथोहारिद्र० ध्मसि ॐ ह्रैंहिरण्यगर्भमरीचिभ्यां अनामिकाभ्यां० ॥ ॐ उदगादय० सह ॐ ह्रौंआदित्यसवितृभ्यां कनिष्ठिकाभ्यां० ॥ ॐ द्विषंतंमह्यं० रधंॐ ह्र:अर्कभास्कराभ्यां० करतलकरपृष्ठाभ्यां० एवंहृदयादि ॥ ॐ उध्यन्नध्यमित्रमहआरोहन्नु० ३ ऋच:कवचत्वेनसर्वांगेविन्यसामि इतिव्यापकं ॥अथपीठपूजा ॥ यंत्राध:कल्पितपीठे ॐ मंडूकाय० एवंसर्वत्रादौप्रणव: ॐ कालाग्निरुद्राय० कच्छपाय० आधारशक्त्यै० महासागराय० सूर्यलोकाय० सूर्यलोकस्थसुरेशेभ्यो० रत्नमंडपाय० रत्नद्वीपाय० कल्पवृक्षेभ्यो० रत्नवेदिकायै० रत्नसिंहासनाय० धर्माय० ज्ञानाय० वैराग्याय० ऐश्वर्याय० अधर्माय० अज्ञानाय० अवैराग्याय० अनैश्वर्याय० अनंताय० आनंदमयकंदाय०संविन्नालाय० कालसरोजाय० प्रकृतिपत्रेभ्यो० विकारमयकेसरेभ्यो० पंचाशद्वर्णकर्णिकायै० अर्कमंडलाय० चंद्रमंडलाय० वन्हिमंडलाय० सत्त्वाय० रजसे० तमसे० आत्मने० अंतरात्मने० परमात्मने० ज्ञानात्मने० ज्ञानतत्त्वाय० मायातत्त्वाय० कालतत्त्वाय० विध्यातत्त्वाय० परतत्त्वाय० विमलायै० उत्कर्षिण्यै० ज्ञानायै० क्रियायै० योगायैनम: प्रह्वायैनम: सत्यायैनम: ईशान्यैनम: अनुग्रहायैनम: ॐ ह्रीं सर्वादिशक्तिकमलायनम: इतिपीठमंत्रा: ॥ एता:पीठदेवताआवाह्यपंचोपचारै:संपूज्य अंतर्यागंकुर्यात् ॥ अथांतर्याग: ॥उदात्तस्वरज्ञानक्षेत्रस्वरुपश्रीसूर्यचरणकमलभक्तिसिध्यर्थंपरमात्मस्वरुपसिधर्थंच अंतर्यागंकरिष्येइतिसंकल्प्यवदेत् ॥सहस्त्रपुरुषादित्य:सहस्त्रकिरणोरवि: ॥ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रपात् ॥ योसावादित्येपुरुष:सोऽसावहंसूर्योहंविश्वरुपपरमात्मनेनमइति ॥ अथात्मपूजा ॥गंधद्वारामानंदकर्दम:श्रीरनुष्टुप् ॥ आत्मपूजनेवि० ॥ गंधद्वारामितिललाटेगंधाक्षतादिन्यस्य ॥ माल्यादीनीतिपुष्पाणिस्वरशिरसिन्यस्य ॥ नमोस्त्वनंतायेत्युक्त्वा सूर्यात्मनेनमइतिकरपुटेनहृध्यात्मानंनमस्कुर्यात् ॥अथाष्टावरणदेवतापूजा ॥ तत्राष्टदलमध्येप्रागादिक्रमेणपूज्या: ॥ मार्तंडायनम: भावनेनम: आदित्याय० हंसाय० सूर्याय० दिवाकराय० तपनाय० भास्कराय० मध्येमंडलाधिपतिर्वर्तमानमासाधिपति:पूज्य: ॥ मासाधिपाश्चैत्रादिषु ॥ अरुणाय० वेदांगाय० भानवे० इंद्राय० रवये० गभस्तये० यमाय० सुवर्णरेतसे० दिवाकराय० मित्राय० विष्णवे० सूर्याय० ॥ इतिप्रथमावरणं ॥दीप्तायै० सूक्ष्मायै० जयायै० भद्रायै० विभूत्यै० विमलायै० अमोघायै० विध्युतायै० मध्येसर्वतोमुख्यैश्रियै० ॥ इतिद्वितीयं ॥ ततोष्टौमातर: ॥ ब्राह्यै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै० वाराह्यै० इंद्राण्यै० चामुंडायै० महालक्ष्म्यै० ॥ इतितृतीयं ॥ आराध्याय० कपिलाय० साराय० प्रभूताय० दंडिने० पिंगलाय० धात्रे० विधात्रे० ॥ इतिचतुर्थ ॥ऐरावताय० पुंडरीकाय० वामनाय० कुमुदाय० अंजनाय० पुष्पदंताय० सार्वभौमाय० सुप्रतीकाय० ॥ इतिपंचमवारणं ॥ ततोऽष्टदलाग्रेषुसायुधान् लोकपालान् ॥ इंद्राय० अग्नये० यमाय० निऋतये० वरुणाय० वायवे० कुबेराय० ईशानाय० पद्मस्याध:शेषाय० ऊर्ध्वंहिरण्यगर्भा० ॥ इतिषष्ठं ॥वज्राय० शक्तये० दंडाय० खड्गाय० पाशाय० अंकुशाय० गदायै० त्रिशूलाय० चक्राय० पद्माय० इतिदशायुधानि ॥ इतिसप्तमं ॥सोमाय० भौमाय० बुधाय० बृहस्यतये० शुक्राय० शनैश्वराय० राहवे० केतवे० ॥ दलांतरेषुविंमध्येप्रकल्पयेत् ॥ इत्यष्टमं ॥ असितांगभैरवाय० रुरुभैरवाय० चंडभैरवाय० क्रोधभैरवाय० उन्मत्तभैरवाय० कपालभैरवाय० भीषणभैरवाय० संहारभैरवाय० ॥ इतिनवमं ॥ ततोमासाधिपान्पश्चिमत: ॥ गणपतये० दुर्गायै० क्षेत्रपालाय० सारथये० अरुणाय० स्वप्नाय० इच्छायै० पिंगलाय० हराय० साराय० आराध्याय० सप्ततुरंगा० इतिदशमं ॥चतुर्द्वारेषु ॥ दंडिने० पिंगलाय० मासाधिपाय० श्रियोर्मध्येपरमसुखाय० इत्येकादशं ॥अथद्वादशदलेषु ॥ मित्राय० रवये० सूर्याय० भानवे० खगाय० पूष्णे० हिरण्यगर्भाय० मरीचये० आदित्याय० सवित्रे० अर्काय० भास्कराय० ॥ ततोरुणादि ॥ अरुणाय० सूर्याय० वेदांगाय० भानवे० इंद्राय० रवयेन० गभस्तये० यमाय० सुवर्णरेतसेन० दिवाकराय० मित्राय० विष्णवे० ॥ॐ नमोभगवतेसर्वावरणसंपन्नायत्रिगुणात्मधारिणेश्रीसूर्यायसांगायसपरिवारायनमइतिनमस्कुर्वीअ ॥ एहिसूर्येपठित्वा ॥सर्वावरणपीठदेवतासहितश्रीसूर्यइहागच्छइहतिष्ठभूर्भव:स्वरोम् ॥ सूर्यमंडलादागत्यहृदयस्थत्वेनभावितंसूर्यंआवाहनीमुद्रयापीठमध्येपुष्पांजलिन्यासेनावाहयेत् ॥ ततोदेवस्यदेहेस्वदेहेस्वदेहेचपुरुषसूक्तन्यासंकुर्यात् ॥ अथध्यानं ॥ ध्येय:सदेतिध्यानं ॥आवाहनीमुद्रयावाहयामि ॥ स्थापनी ॥ संनिधापिनी ॥ संरोधिनी ॥ संमुखीकरणी ॥प्रार्थनामुद्रयाप्रार्थयामि ॥ इतिषण्मुद्रा:प्रदर्शयेत् ॥ अथपुरुषसूक्तेनषोडशोपचारै:पूजांकुर्यात् ॥ षोडशोपचारपूजनेभगवान् श्रीसूर्यनारायण: प्रीयतांनममप्रीतोभवतु यथाशक्तिसूर्यगायत्रींजपेत् ॥ ॐ भास्करायविद्महेमहध्द्युतिकरायधीमहि ॥ तन्नोआदित्य:प्रचोदयात् ॥ अथार्घ्यदानं ॥ ताम्रमयमष्टदलान्वितमर्घ्यपात्रमादायजानुभ्यामवनिंगत्वारचंदनरक्तपुष्परक्ततंदुलदूर्वायवान् अर्घ्यपात्रेनिक्षिप्य नासिकाग्रमवलोकयन् ॥ ॐ ह्राउध्यन्नध्यमित्रमह:ह्रां ॐ मित्रायनम: ॥ ॐ ह्रींआरोहन्नुत्तरांदिवंह्रीं ॐ रवयेनम: ॐ ह्रंहृद्रोगंममसूर्यह्रूं ॐ सूर्यायनम: ॥ ॐ ह्रैंहरिमाणंचनाशयह्रैं ॐ भानवेनम: ॥ ॐ ह्रौंशुकेषुमेहरिमाणंह्रौं ॐ खगायनम: ॥ ॐ ह्र:रोपणाकासुदध्मसिह्र: ॐ पूष्णेनम: ॥ॐ ह्रांअथोहारिद्रवेषुमेह्रां ॐ हिरण्यगर्भायनम: ॥ ॐ ह्रींहरिमाणंनिदध्मसिह्रिं ॐ मरीचयेनम: ॥ ॐ ह्रूंउदगादयमादित्य:ह्रूं ॐ आदित्यायनम: ॥ ॐ ह्रैंविश्वेनसहसासहह्रैं ॐ सवित्रेनम: ॥ ॐ ह्रौंद्विषंतंमह्यंरंधयन् ह्रौं ॐ अर्कायनम: ॥ ॐ ह्र:मोअहंद्विषतेरधंह्र: ॐ भास्करायनम: ॥ ॐ ह्रांर्हीं उध्यन् ० दिवंह्राह्रीं ॐ मित्ररविभ्यांनम: ॥ ॐ ह्रूंह्रैंहृद्रोगं० शय ह्रूंह्रैं ॐ सूर्यभानुभ्यान० ॥ ॐ ह्रौंह्र: शुकेषुमे० ध्वसि ह्रौह: ॐ खगपूषभ्यांन० ॥ ॐ ह्राहीं अथोहारि० निदध्मसि० ह्रांह्रीं ॐ हिरण्यगर्भमरीचिभ्यां० ॥ॐ ह्रूंह्रैं ॐ आदित्यसवितृभ्यां ॥ ॐ ह्रौंह्र:द्विषंतं० रधं ह्रौंह्र: ॐ अर्कभास्कराभ्यांन० ॥ॐ ह्रांह्रींह्रूंहैंउध्यन्नध्यऋक् ॥ ॐ मित्ररविसूर्यभानुभ्यो० ॥ॐ ह्रौह्र:ह्रांर्हींशुकेषुमेऋक् ह्रौंह्र:ह्रांह्रीं ॐ खगपूषहिरण्यगर्भमरीचिभ्यो० ॥ ॐ ह्रूंह्रैंह्रौंह्र: उदगा० ऋक् ह्रूंह्रैंह्रौंह्र: ॐ आदित्यसवित्रर्कभास्करेभ्योनम: ॐ ह्रांह्रींह्रूंह्रैह्रौंह्र:उध्यन्नध्य० शुकेषु० उदगा० ह्रांह्रींह्रूंह्रैंर्हौंह्र:ह्रांर्हींह्रूंह्रैंह्रौंह्र: ॐ मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्योनम: ॥३॥विनतातनयोदेव:सर्वसाक्षीजगत्पति: ॥ सप्ताश्व:सप्तरज्जुश्चअरुणोमेप्रसीदतु ॥ इतिमंत्रेणारुणायार्घ्यंदध्यात् ॥ एवंप्रत्यहंद्वादशावृत्तयउत्तम:पक्ष: ॥ षण्मध्यम: ॥ चतस्त्रोऽधम: ॥ यथाशक्तिवा ॥ प्रत्यहाद्विगुणंरविवारे ॥ एवमर्घ्यक्रमेणनमस्कारा: ॥ नमस्कारांतेपुन:पंचोपचारै:पूजयेत् ॥ ततस्तृतेचनषडंगन्यासंकुर्यात् ॥ नमोमित्रस्येतिद्वादशर्चस्यसूक्तस्य सूर्योभितपाऋषि: सूर्योदेवता जगतीछंद: दशमीत्रिष्टुप् ॥ प्रत्यृचंमित्रादीनांनमस्कारंप्रदक्षिणांकुर्यात् ॥ तत:आवाहन्यादिमुद्रा:प्रदर्श्य ॥ नम:सवित्रेजगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ॥ त्रयीमयायत्रिगुणात्मधारिणेविरिंचि नारायणशंकरात्मने ॥ इतिपुष्पांजलिंदध्यात् ॥ॐ आकृष्णेनेतिस्तुत्वा ॥ ॐ सवितापश्चातादितिप्रार्थ्य ॥ ॐ उध्यन्नतितृचेनश्रीसूर्यंसांगंविसर्जयामीतिपुष्पांजल्यर्पणेनविसर्जयेत् ॥ अभ्यारमित्यनेनेतिकेचित् ॥ यन्मंडलंदीप्तिकरंविशालंरत्नप्रभंतीव्रमनादिरुपं ॥ दारिद्र्यदु:खक्षयकारणंचपुनातुमांतत्सवितुर्वरेण्यं ॥ इत्यर्घ्योदकप्रार्थना ॥ अकालमृत्युशमनंसर्वव्याधिविनाशनं ॥ सूर्यस्यार्घ्योदकंतीर्थंजठरेधारयाम्यहं ॥ ततोमहासौरेरुपतिष्ठेत् ॥ अथसौराणांमंत्रामृक्संख्यामृषिदैवतच्छंदांसिपुनर्वक्ष्यामोमहाव्याधिदुष्टापस्मारादिहृद्रोगोन्मादोदरगुल्मशूलशांतये गुदापशोणितार्शोभगंदरजलोदरपांडुरोगादिविस्फोटकाजीर्णरोगप्रमेहादिसर्वव्याधिनाशाय ममसमस्तपापक्षयार्थंसवितृसूर्यनारायणप्रीत्यर्थ महासौरजपेविनियोग: ॥ षष्टिऋचोर्धर्चएतासांसूर्योदेवताकेचिदंतिमाभि:स्तवंमन्यंतेसोहमितिध्यानव्यंयेनसूर्येणाहरहरुपासितेनधनधान्यवंतोबहुरत्नवंतआदित्यवंतआयुष्यवंतआरोग्यवंतोरयिमंतोधनवंतोबलवंतोबहुपुत्रवंतोभवंति श्रीकाम:शांतिकाम:श्रध्दाकामोमेधाकाम:प्रज्ञाकामएवंभास्करस्याराधनंकुर्यात्सदागृहीपापक्षयार्थीव्याधिनाशार्थीनम:शौनकाय नम:परमऋषिभ्यो नम:परमऋषिभ्यो नम: परमऋषिभ्यइतिसौरशांति: ॥ अथमहार्घ्यसंख्या ॥ चतुर्विंशतिलघ्वर्घ्यैंर्महार्घ्यश्चप्रकीर्तित: ॥ लक्षत्रयेणविधिवदेक ३३१७७६ त्रिंशत्सहस्त्रकै: षटसप्त्यधिकै:सप्तशतैर्घ्यप्रदानत: ॥ सुप्रसन्नोभवेत्सूर्य:शश्वद्रोगप्रशांतये ॥ तस्मात्सर्वप्रयत्नेनमहार्घ्यंचसमाचरेत् ॥ एवमर्घ्यविधिंकृत्वाततोहोमंसमाचरेत् ॥ शतंवाथसहस्त्रंवाअयुतंलक्षमेववा ॥ जुहुयात्पायसाज्येनखाध्यैर्नानाविधैरपि ॥अर्कपुष्पै:समिभ्दिश्चकरवीरैस्तथापरे ॥ रक्तचंदनमिश्राभिरक्षताभिस्तथापुन: ॥ साग्रद्रूर्वांकुरैश्चेतितिलैरपियवै:शुभै: ॥ गायत्र्यासौरमंत्रेर्वातृचामंत्रैर्विशेषत: ॥व्याहृत्यावाऽथहोतव्यंसूर्यस्यप्रीतयेपुन: ॥ ब्राह्मणेभ्य:प्रदातव्यंवस्त्रधेनुहिरण्यकं ॥एवमाराधित:सूर्य:सर्वान्कामान्विधास्यति ॥ इतितृचार्घ्यपध्दति:॥ अथषण्णमुद्रालक्षणं ॥ हस्ताभ्यामंजलिंकृत्वानामिकारमूलपर्वणो:॥ अंगुष्ठौनिक्षिपेत्सेयंमुद्रात्वावाहनीस्मृता ॥१॥अधोमुखीत्वियंचेत्स्यात्स्थापनीमुद्रिकास्मृता ॥ उत्थितांगुष्ठमुष्ट्योस्तुसंयोगात्संनिधापनी ॥२॥अंत:प्रवेशितांगुष्ठासैवसंरोधिनीमता ॥ मुष्टिद्वयस्थितांगुष्ठौसुमुखौचपरस्परं ॥३॥संश्लिष्टांगुलिकौकुर्यात्सेयंसंमुखमुद्रिका ॥ प्रसृतांगुलिकौहस्तौमिथ:श्लिष्टौचसंमुखौ ॥४॥कुर्यात्स्वहृदयेसेयंमुद्राप्रार्थनसंज्ञिका ॥ इतिषण्मुद्रा: ॥ इतिसंक्षेप: ॥ विशेषविस्तरस्तृचभास्करादवगंतव्य: ॥ इतितृचाकल्पपध्दति: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP