संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकदलीव्रतोध्यापनम्

व्रतोदयान - अथकदलीव्रतोध्यापनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथ्यादिसंकीर्त्यात्मनइहजन्मनिजन्मांतरेवासौभाग्यारोग्यपुत्रपौत्र
लक्ष्मीवृध्दिसर्वदु:खनाशनपूर्वकंउमामहेश्वरप्राप्तिकाम:कदलीव्रतोध्यापनंकरिष्येइतिसंकल्प्य ॥
कदल्याआलवालंकृत्वाउपरिमंडपंचतुर्द्वारंकृत्वापूजयेत् ॥ वृताचार्य:कदलीमूलदेशेमृदावेदीं
विधायतत्रलिंगतोभद्रेउक्तविधिनाब्रह्मादिदेवताआवाह्य तदुपरिकलशस्थपूर्णपात्रेहैमंशिवं
त्र्यंबकंमितिकद्रुदायेतिमंत्रेणवागौरींचगौरीर्मिमायेतिगायत्र्यावाप्रतिष्ठाप्यपुरतोवृषभंराजतं
पूजयेत् ॥ तत:कदलीं ॥
कदल्यैकामदायिन्यैमेधायैचनमोनम: ॥ रंभायैभूतसारायैसर्वसौख्यप्रदेनम: ॥ इत्येनेन
पूजयेत् ॥
कदलीपरितोलोकपालानावाह्यततस्तैलहरिद्रादिनामंगलस्नपनंकृत्वास्त्रीभूषणैर्भूषयित्वाऽ
वाहनाध्युपचारै:संपूजयेत् ॥
अत्रप्रधानं शिवंगौरींकदलींचपलाशसमित् १ मधु २ सर्पि: ३ तिल ४ व्रीहि ५ द्रव्यै:
तिलाज्याभ्यांवाप्रत्येकमष्टोत्तरशतमष्टाविंशतिवासंख्याकाहुतिभि: ब्रह्मादिदेवताश्चैकैकया
ज्याहुत्यायक्ष्ये ॥
क्रमेणहोममंत्रा: ॐ कद्रुद्राय० ॐ गौरीर्मिमायेति ॥ ॐ आहींक्लींकामिन्यैविद्महेत्रैलोक्य
क्षोभिण्यैधीमहि ॥ तन्न:कदलीप्रचोदयात् ॥
उमेगौरीनमस्तुभ्यंनमस्तेविश्वधारिणि ॥ परमानंदरुपिण्यैकदल्यैतेनमोनम: ॥ वायनंद
ध्यात् ॥ ततआचार्यायपीठंकदलींचदध्यात् ॥ तंत्रमंत्र: ॥
कदलींकामदात्रींचसर्वसौख्यप्रदायिनीम् ॥ गिरिजाहररुपांवैब्राह्मणायददाम्यहम् ॥
प्रतिगृह्णद्विजश्रेष्ठसमस्तफलदायक ॥ कदल्याश्चप्रदानेनपूर्णा:संतुमनोरथा: ॥
कदलीप्रतिगृह्णातिकदलीवैददातिच ॥ कदलीतारकास्माकंकदल्यैतेनमोनम: ॥
कदलीदानसांगतासिध्यर्थंहिरण्यद० ॥ इतिकदलीव्रतोध्यापनम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP