संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
पंचकुंडीपक्षेऽन्वाधानादि

व्रतोदयान - पंचकुंडीपक्षेऽन्वाधानादि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पूर्वंईशानकुंडस्थमुख्याचार्य:उपर्मेखलायांइदंविष्णुरितिविष्णुं मधमेखलायांब्रह्मज
ज्ञानमितिब्रह्माणं अधोमेखलायांकद्रुयातेतिरुद्रंयोन्यांगौरीर्मिमायेतिगौरींचावाह्यपूजयेत् ॥
स्वगृह्यविधिनाकुंडसंस्कारपूर्वमग्निंप्रतिष्ठाप्यअग्नेर्गर्भाधानादिसंस्कारार्थंव्याहृत्याहुती:
प्रतिसंस्कारमष्टाष्टसंख्याकाहुत्वा ॥
तत:प्रागाध्याचार्या:प्रागदिकुंडहोमंकरिष्य इतिसंकल्प्य ॥ उक्तवत्खस्वकुंडसंस्कारंकृत्वा
मुख्याचार्यकुंडात्संस्कृतमग्निंअग्निनाग्नि:समिष्यतइतिमंत्रेणस्वेस्वेकुंडेप्रतिष्ठापयेयुरग्रे
र्ध्यानादिचकुर्यु: ॥
मुखकुंडाचार्य:स्वकुंडस्यैशान्यांशांतिकलशंविधिवत्स्थापयेत् ॥ प्रागाध्याचार्या:स्वस्वकुंड
स्यैशान्यांसंपातोदकार्थंशांतिकलशंचस्थापयेयु: ॥
तत्रैक:कलश:संपातोदकार्थं ॥ द्वितीयकलशेसाक्षतपात्रेमूरिमूर्त्यधिपतिंलोकपालंचावाहयेत् ॥ तत्प्रकार: ॥ पूर्वकुंडस्येशानकलशे पृथिवीमूर्तिंआवाहयामि १ पृथिवीमूर्त्यधिपतिंशर्वं २
लोकपालमिंद्रं ३ अग्निमूर्तिं ४ अग्निमूर्त्यधिपतिंपशुपतिं लोकपालंअग्निं ६ इतिपूर्वकुंडे
षट् ॥
दक्षिणकुंडैककलशेयजमानमूर्तिं १ यजमानमूर्त्यधिपतिंउग्रं २ लोकपालंयमं ३ सूर्यमूर्तिं ४
सूर्यमूर्त्यधिपतिं ५ रुद्रं ५ लोकपालांनिऋतिं ६ इतिषट् ॥
दक्षिणकुंडैककलशे जलमूर्तिं १ जलमूर्त्यधिपतींभवं २ लोकपालंवरुणं ३ वायूमूर्तिं ४ वायुमूर्त्यधिपतिं ईशानं ५ लोकपालंवायुं ६ इतिषट्‍ ॥
अथोत्तरकुंडैककलशे सोममूर्ति १ सोममूर्त्यधिपतिं २ लोकपालंकुबेरं ३ आकाशमूर्तिं ४ आकाशमूर्त्यधिपतिंभीमं ५ लोकपालंईशानं ६ इत्युत्तरकुंडेषट्‍आवाह्यपूजयित्वाअन्वाधानं
कुर्यात् ॥
तत्रादौमुख्यकुंडेआचार्य:समिद्दूयमादायविष्णुप्रतिष्ठांगतयाविहितहोमंकर्तुंतत्रदेवतापरिग्रहार्थमन्वाधानंकरिष्ये अस्मिन्नवाहितेग्रावित्याध्याज्यभागांतमुक्त्वा (मुख्यकुंडेमूर्तिपानसं
ति) ॥
प्रधानंस्थाप्यदेवंविष्णुंपलाशौदुंबराश्वत्थशम्यपामार्गसमित्तिलचर्वाज्यै:प्रतिद्रव्यं १०८ संख्य
या २८ संख्ययावायक्ष्ये ॥
पिंडिकां २८ संख्ययातिलद्रव्येण लक्ष्मींगरुडंचप्रत्येकं २८ तिलद्रव्येण ब्रह्मादिमंडलदेव
ता:प्रत्येकं १० तिलद्रव्येण ॥
प्रणवादिन्यासांतर्गततत्त्वानामाप्यायनार्थंप्रतितत्त्वं १० संख्ययालिंगोक्तदेवतास्तिलद्रव्येण
यक्ष्ये ॥
(अथवाप्रणवादिन्यासमंत्राणामाप्यायनार्थंविष्णुं १०८ तिलैर्यवैश्चइतित्रिविक्रम:) ॥
गर्भादानादिषोडशसंस्कारसिध्द्यर्थंप्रजापतिंअष्टा ८ हुतिसंख्ययातिलद्रव्येणव्याहृतिमंत्रेण
यक्ष्ये ॥ तथाचशांत्यर्थंप्रजापतिं १०८ तिलद्रव्येणयक्ष्ये ॥ शेषेणस्विष्टकृतमित्यादि ॥
अथपूर्वकुंडेआज्यभागांतमुक्त्वा अत्रप्रधानं पृथिवीमूर्तिंपृथिवीमूर्त्यधिपतिंशर्वंलोकपालंइंद्रं
अग्निमूर्ति अग्निमूर्त्यंधिपतिंपशुपतिंलोकपालंअग्निचपलाशोदुंबराश्वत्थशम्यपामार्गसमि
त्तिलचर्वाज्यै:प्रत्येकं प्रतिद्रव्यं ८ यक्ष्ये ॥
स्थाप्यदेवंविष्णुंतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यं १०८ संख्याभिराहुतिभि: पिंडिकां २८ तिलद्रव्येण ॥
लक्ष्मींगरुडंचप्रत्येकं २८ तिलद्रव्येण ॥ प्रजापतिं १०८ तिलद्रव्येण शेषेण स्विष्टकृतमित्यादि० ॥ दक्षिणकुंडेप्रधानं ॥
यजमानमूर्तिं यजमानमूर्त्यधिपतिंउग्रं यमं सूर्यमूर्तिं सूर्यमूर्त्यधिपतिरुद्रं लोकपालंनिऋतिं च पलाशोदुंबराश्वत्थशम्यपामार्गसमित्तिलचर्वाज्यै:प्रत्येकंप्रतिद्रव्यं ८ स्थाप्यदेवंविष्णुंतैरे
वद्रव्यै: प्रतिद्रव्यं १०८ पिंडिकां २८ तिलद्रव्येण लक्ष्मींगरुडचप्रत्येकं २८ तिलद्रव्येण प्रजापतिं १०८ तिलद्रव्येण ॥ शेषेणेत्यादि ॥
अथपश्चिमकुंडेप्रधानं ॥ जलमूर्त्तिं जलमूर्त्यधिपतिंभवं लोकपालंवरुणं वायुमूर्तिंवायूमूर्त्य
धिपतिं ईशानं लोकपालंवायुं तैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यं ८ स्थाप्यदेवंविष्णुंतैरेवद्रव्यै:प्रति
द्रव्यं १८ पिंडिकां २८ तिलद्रव्येण लक्ष्मींगरुडंचप्रत्येकं २८ तिलद्रव्येणप्रजापतिं १०८ तिलद्रव्येण शेषेणेत्यादि० ॥
अथोत्तरकुंडेप्रधानं सोममूर्तिं सोममूर्त्यधिपतिंमहादेवं लोकपालंकुबेरं आकाशमूर्तिं आकाश
मूर्त्यधिपतिंभीमं लोकपालंईशानं पूर्वोक्तद्रव्यै: प्रत्येकं प्रतिद्रव्यं ८ स्थाप्यदेवंविष्णुंतैरेव
द्रव्यै:प्रतिद्रव्यं १०८ पिंडिकां २८ तिलद्रव्येणलक्ष्मींगरुडंचप्रत्येकं २८ तिलद्रव्येण प्रजापतिं १०८ तिलद्रव्येणशेषेणस्विष्टकृतमित्यादि ॥ इतिपंचकुंडीपक्षेऽन्वाधानम् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP