संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथकाम्यवृषोत्सर्ग: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथकाम्यवृषोत्सर्ग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथकाम्यवृषोत्सर्ग: Translation - भाषांतर श्री: ॥ अथशौनकोक्तमार्गेणवृषोत्सर्गोलिख्यते ॥ वृषलक्षणं ॥ लोहितोयस्तुवर्णेनमुखेपुच्छेचपांडुर: ॥ श्वेत:खुरविषाणाभ्यांसनीलोवृषउच्यते ॥ यद्वा ॥ चरनास्तुमुखंपुच्छंयस्यश्वेतानिगोपते: ॥ लाक्षयासमवर्णश्चसनीलोवृषौच्यते ॥ एवंलक्षणोमुख:तदभावेयथासंभवंवाग्राह्य: ॥वृषोत्सर्गादाध्येऽन्हिगृहेगोष्ठेतीर्थेशिवालयेपुण्यक्षेत्रेवायथाशास्त्रंपताकाध्वजशोभितंषोडशहस्तंद्वादशहस्तंवामंडपंछायामात्रंवाकृत्वातन्मध्ये ईशानभागेवावेदीमष्टहस्तांचतुर्हस्तांवासुशोभितांकृत्वाकृतान्हिक:पूर्वाण्हेकृताभ्यंग:कृतमंगलश्चदेशकालादिस्मृत्वा ममसमस्तपितृणामुध्दारार्थममुककामनासिध्यर्थंवावृषोत्सर्गाख्यंकर्मश्व:सध्योवाकरिष्ये ॥ तदंगंगणेशपूजनादिकरिष्यइतिसंकल्प्यषोडशोपचारैर्गणपतिंकुलदेवतांचपूजयित्वास्वशाखानुसारेणपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकृत्वा आचार्यंवृणुयात् ॥आचार्योमंडपदेवता:प्रतिष्ठाप्यपताकादितत्तन्मंत्रै:स्थापयेत् ॥ एतस्मिन्नहनिनवग्रहमखमपिकेचिदिच्छंति ॥ ततोवृषस्यचतसृणांवत्सतरीणांचद्वयोरेकस्यावायथालाभंमांगलिकस्नानादिकारयित्वा ब्राह्मणान्भोजयित्वाहविष्यंयजमानोभुंजीत ॥ तत:श्वोभूतेकृतनित्यक्रिय:वेध्युपरिहस्तमात्रंस्थंडिलंविधायदेशकालौस्मृत्वाउपक्रांतंवृषोत्सर्गमहंकरिष्ये तदर्थमग्निस्थापनादिकरिष्यइतिसंकल्प्यपंचभूसंस्कारपूर्वकमध्वरनामानमग्निंस्थापयेत् ॥ स्वयंवृताचार्येणवासध्योऽथिवासनंकार्य ॥ अग्निस्थापनेदेशादीशान्यांपंचगोमातर:पीठेवस्त्रोपरिपूज्या: ॥ ॐ आनंदाम्स्थापयामि ॐ सुमनसां० ॐ सुभद्रां० ॐ सुभद्रशीलां० ॐ सुरभिं० एता:संपूज्यतासामग्रेआग्नेय्यांवाधान्योपरिनवमव्रणंरुद्रकलशंवस्त्रवेष्टितपंचरत्नपंचपल्लवहिरण्यादियुतंआकलशेष्वितिस्थापयित्वा इमंमेगंगेइतिजएनापूर्यतदुपरिताम्रवंशादिमयेभाजनेयथाशक्तिसुवर्णनिर्मितांरुद्रप्रतिमांस्थापयित्वासंपूज्यचएकब्राह्मणेनरुद्रमंत्रेणानुमंत्रणंकारयेत् ॥ ततोवत्सतरीभि:सहवृषंशुध्दोदकेन आपोहिष्ठाकयान इतिसूक्ताभ्यामभिषिंचेत् ॥ आपोहिष्ठेतिनवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीप आपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठाअंत्येद्वेअनुष्टुभौवृषवत्सतर्यभिषेकेविनियोग: ॥ कयानइतितिसृणांवामदेवइंद्रोगायत्रीतृतीयापादनिचृत् ॥ वृषवत्सतर्यभि० ॐ कयानश्चित्र० ३ ॥ततोवस्त्राक्षतगंधमाल्यैरलंकृत्य अन्वाधानंकरिष्यइतिसंकल्प्यचक्षुषीआज्येनेत्यंतमुक्त्वा अत्रप्रधानं रुद्रंचरुणा सोमंपायसेन इंद्रंयावकेन शेषेणस्विष्टकृतमितिसध्योयक्ष्यइत्युक्त्वापरिसमूहनादिपूर्णपात्रनिधानांतंकृत्वा रुद्रायत्वाजुष्टंनिर्वपामीत्यादिनिर्वापप्रोक्षणादिक्रमेणचर्वादिश्रपणंकृत्वाऽवदानधर्मेणजुहुयात् ॥ ॐ रुद्रायस्वाहा रुद्रायेदंनमम इतिचरुं ॥ सोमायस्वाहा सोमायेदं० इतिपायसं० ॥ इंद्रायस्वाहा इंद्रायेदं० इतियावकं ॥ यावकंनाम यवानांतंडुलैर्निष्पन्नश्चरु: ॥ तत:स्विष्टकृदादिपरिसमूहनांतंकृत्वाऽकृत्वावास्त्रीभिर्विवाहवत्कृतमांगलिकंवृषंप्रादक्षिण्येनवेध्याउत्तरतोनीत्वाप्राड्मुखंवृषंस्वयमुदड्मुखोमधुपर्केणयथागृह्यंपूजयेत् ॥ततोऽलंकरणैर्वृषंभूषयित्वावस्त्रछत्रोपानत्कांस्यभाजनाचमनपात्रादियथाशक्तिसमर्प्यहरिद्राकुंकुमादिनालंकृत्यदक्षिनोरौतप्तेनराजतत्रिशूलेनांकयित्वामोरौरौक्मेणचक्रेणांकयेत् ॥ अभावेआयसाभ्यां ॥ उत्सर्गकालेवांऽकनं ॥ अस्मिन्पक्षेअंकनार्थंचिन्हमात्रंकार्यमस्मिन्काले ॥ ततोवृषेन्यास: ॥ ॐ इषेत्वेतिमूर्ध्नि ॥ ॐ इमारुद्रायेतिशूलांके ॥ ॐ नमस्तेरुद्रइतिचक्रांके ॥ ॐ सहस्त्राणिसहस्त्रशोयेरुद्राइतिललाटे ॥ ॐ विभ्राडितिभ्रुवो: ॥ ॐ त्र्यंबकमितिनेत्रयो: ॥ ॐ मानस्तोकेइतिनासिकायां ॥ ॐ अवतत्येतिमुखे ॥ ॐ नीलग्रीवौद्वौकंठे ॥ ॐ मर्माणिइतिबाहुमध्यत: ॥ ॐ समिधाग्निमितिबाहुभ्यां ॥ ॐ नमोव:किरिकेभ्यइतिहृदि ॥ॐ हिरण्यगर्भइतिनाभौ ॥ ॐ मीढुष्टमेतिकटयां ॥ ॐ मानोमहांतमित्यूर्वो: ॥ ॐ उदुत्यमितिजंघयो: ॥ ॐ इमारुद्रायेतिजान्वो: ॥ ॐ रक्षोहनमितिगुदे ॥ ॐ वृष्णस्तइतिलिंगे ॥ ॐ ऋषभंमेतिपुच्छे ॥ ॐ त्रिपादूर्ध्वइतिखुरेषु ॥एवंन्यासंकृत्वावेध्या:समीपमानीयअग्ने:पश्चिमभागेस्वगृह्योक्तविधिनासर्वंविवाहंचतुर्भिर्वत्सतरीभि:सहकुर्यात् ॥ तत्रप्रयोग: ॥देशकालौस्मृत्वाममसर्वेषांपूर्वजानांनिरतिशयसानंदब्रह्मलोकावाप्त्यर्थं अमुककामनयाश्रीरुद्रस्वरुपिणेवृषायवत्सतरीकन्यादानमहंकरिष्ये इतिसंकल्प्यदीर्घमायुरस्त्वित्यादिसर्वंवृषखुरेकार्यं ॥तत:पूर्ववत्संकल्प्यरुद्रस्वरुपायवृषायगौरीस्वरुपाइमा:यथाशक्त्यलंकृता:वत्सतरीस्तुभ्यमहंसंप्रददे ॥ (एकद्व्यादिवत्सतरीपक्षेगौरीस्वरुपामिमांयथाशक्त्यलंकृतांवत्सतरीं-इमेवत्सतर्यौवेतियोज्यं) अनेनवत्सतरीदानेनभगवान्वृषस्वरुपीश्रीरुद्र:प्रीयतामित्युक्ता ॥ अस्यनीलोद्वाहस्यप्रतिष्ठासिध्यर्थंइदंहिरण्यंदक्षिणात्वेनसंप्रददे ॥ एवंकन्यादानंयथास्वगृह्यंकार्यं ॥ ततोवृषवत्सतरीणामभिषेकोरुद्रकलशस्थोदकेनैभिर्मंत्रै:कार्य: ॥ आपोहिष्ठेतिनवभि: ॥ समुद्रज्येष्ठाइतिचतसृभि: ॥ इमंमेगंगेइत्येकया ॥ कयानइत्येकया ॥ सहस्त्राक्षंतधारमृषिभि:पावनंकृतं ॥ तेनत्वामभिषिंचामिपावमान्य:पुनंतुमां ॥ भगंतेवरुणोराजाभगंसुर्योबृहस्पति: ॥ भगमिंद्रश्चवायुश्चभगंसप्तर्षयोददु: ॥ यत्तेकेशेषुदौर्भाग्यंसीमंतेयच्चमूर्धनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तद्घ्नंतुसर्वदा ॥ सुरास्त्वामभिषिंचंतु० एतैर्मंत्रैरभिषिच्यवृषकर्णेमंत्रंजपेत् ॥धर्मस्त्वंवृषरुपेणजगदानंदकारक ॥ अष्टमूर्तेरधिष्ठानमत:पाहिसनातन ॥ तत: ॐ तीक्ष्णशृंगायविद्महेवेद्पादायधीमहि ॥ तन्नोवृष:प्रचोदयात् ॥ इतिवृषगायत्र्यापूजयेत्प्रार्थयेच्च ॥ ततोऋषभंमासमानानामितिप्रार्थयेत् ॥ततोगवांप्रार्थना ॥ गावोमेअग्रत:संतुगावोमेसंतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेसंतुगवांमध्येवसाम्यहं ॥ पंचगाव:समुत्पन्नामथ्यमानेमधोदधौ ॥तासांमध्येतुयानंदातस्यैधेन्वैनमोनम: ॥ यलक्ष्मी:सर्वभूतानांयाचदेवेष्ववस्थिता ॥ धेनुरुपेणसादेवीममपांपंव्यपोहतु ॥ अयंहिषोमयादत्त:सर्वासांपतिरुत्तम: ॥ तुभ्यंचैतामयादत्ता:पत्न्य:सर्वमनोरमा: ॥ इत्युक्त्वासर्वमपिविवाहहोमंलाजादिनाआचार्योवृषान्वारब्ध:कुर्यात् ॥ ततोग्ने:पूर्वत:उदड्मुखंवृषंकृत्वाताम्रपात्रेप्राड्मुखोयवैस्तिलैश्चतत्पुच्छेतर्पणंकुर्यात् ॥वत्सतरीपुच्छमपिवृषपुच्छेमेलयेत् ॥ तध्यथा ॥ पूर्वोक्तएवंगुणविध्सेषणविशिष्टायांशुभपुण्यतिथौदेवर्षिपितृणांदुर्गतिगतानांचतृप्तयेआत्मनआकल्पंसंतानाविच्छेदार्थंवृषपुच्छेतर्पणमहंकरिष्यइतिसंकल्प्य ॥ ब्रह्मादयोयेदेवास्तान्देवास्तान्देवांस्तर्पयामीत्यादियथागृह्यंतर्पणंकृत्वा ॥ तत:प्राचीनावीतीदक्षिणामुख:पित्रादित्रयीमात्रादित्रयीमातामहादित्रयीमातामह्यादित्रयीत्यादिसर्वांस्तर्पयेत् यावंत:स्मर्यंतेतांश्चसर्वान् ॥तत:पुराणश्लोकैस्तर्पयेत् ॥ तध्यथा ॥ ब्रह्माध्यादेवता:सर्वाऋषयोमुनयस्तथा ॥ असुरायातुधानाश्चमातरश्चंडिकास्तथा ॥ दिक्पालालोकपालाश्चग्रहदेवाधिदेवता: ॥तेसर्वेतृप्तिमायांतुनीलपुच्छेसुतर्पिता: ॥ विश्वेदेवास्तथादित्या:साध्याश्चैवमरुद्गणा: ॥क्षेत्रपीठोपपीठानिनदानध्यश्चसागरा: ॥ पातालेनागपत्न्यश्चनागाश्चैवसपर्वता: ॥पिशाचागुह्यका:प्रेतागंधर्वागुह्यराक्षसा: ॥ पृथिव्यापश्चतेजश्चवायुराकाशमेवच ॥दिविभुव्यंतरेचैवपातालवासिन: ॥ शिव:शिवातथाविष्णु:सिध्दिर्लक्ष्मी:सरस्वती ॥ तपोधनाश्चभगवानव्यक्त:परमेश्वर: ॥ क्षेत्रौषधिलतावृक्षावनस्पत्यधिदेवता: ॥ कपिल:शेषनागश्चतक्षकोऽनंतएवच ॥ अन्येजलचराजीवाअसंख्यातास्त्वनेकश: ॥ चतुर्दशयमाश्चैवयेचान्येयमकिंकरा: ॥ सर्वेऽपियक्षराजान: पक्षिण:पशवस्तथा ॥ स्वेदजोभ्दिज्जजाजीवाअंडजाश्चजरायुजा: ॥अन्येऽपिवनजीवायेदिवानिशिवहारिण: ॥ अजागोमहिषीरुपायेचान्येपशवस्तथा ॥ शांतिदा:शुभदास्तेस्युनींलपुच्छेसुतर्पिता: ॥ आब्रह्मस्तंबपर्यतंयेचान्येगोत्रिणस्तथा ॥ तेसर्वेतृप्तिमायांतुनीलपुच्छेसुतर्पिता: ॥ सर्पव्याघ्रहतायेचशृंगिदंष्ट्रयनिलाग्निभि: ॥ अपुत्राअक्रियायेचअदाराधर्मवजिर्ता: ॥ आमगर्भमृतायेचशस्त्रपातमृताश्चये ॥ संस्काररहितायेचरौरवादिषुगामिन: ॥ आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवा: ॥ तप्यंतुपितर:सर्वेमातृमातामहादय: ॥ अतीतकुलकोटीनांसप्तद्वीपनिवासिनां ॥आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकं ॥ पितृवंशेमृतायेचमातृवंशेतथैवच ॥ गुरुश्वशुरबंधूनांयेचान्येबांधवामृता: ॥ येमेकुलेलुप्तपिंडा:पुत्रदारविवर्जिता: ॥क्रियालोपगतायेचजात्यंधा:पंगवतस्था ॥ विरुपाआमगर्भाश्चज्ञाता:कुलेमम ॥तेपिबंतुमयादत्तंवृषभपुच्छेतिलोदकं ॥ येऽबांधवाबांधवावाअन्यजन्मनिबांधवा: ॥ तेसर्वेतृप्तिमायांतुवृषपुच्छतिलोदकै: ॥ वृक्षत्वंचगता:केचित्तृनगुल्मलतास्थिता: ॥यातनासुचघोरासुज्ञातीषुविविधासुच ॥ नरकेषुचघोरेषुपतितायेस्वकर्मणा ॥ देवत्वंमानुषत्वंवातिर्यक् प्रेतपिशाचतां ॥ कृमिकीटपतंगत्वंगतायेचस्वकर्मभि: ॥ तेषामुध्दरणार्थायजलमेतद्ददाम्यहं ॥ आब्रह्मस्तंबपर्यंतंजगत्तृप्यत्वितिब्रुवन् ॥तर्पणांतेपुत्रकामश्चेध्यजमानस्तर्हिदंपतीउपविश्य अध्येत्यादिसत्पुत्रावाप्यर्थंस्नानमहंकरिष्यइतिसंकल्पपूर्वकंसप्तधान्यफलान्वितवंशपात्रेपुच्छान्येकीकृत्यतदुपर्युदकदानेन वारुणमंत्रै:समुद्रज्येष्ठाइत्यादिभिश्चस्त्रापयेद्वंशपात्रगलितोदकेनतदधस्तादुपविष्टौदंपतीआचार्य: ॥ ततस्तानिवस्त्राणिपरित्यज्यनववस्त्राणिपरिधायपिंडदानमित्यपिशिष्टसंप्रदाय: ॥ एवंतर्पणंकृत्वावेध्यांवृषस्यदक्षिणेखुरेपायसेनचरुणाज्येनहविष्ण्येणवापित्रादिभ्य:सर्वेभ्योदक्षिणाभिमुखेनपिंडदानंकार्यं येयेस्मर्यंतेतेभ्यश्च ॥ अत्र मात्रादित्रयेमातामह्यादित्रयेचपृथक् दध्यात् ॥ पिंडदानेहोमचरुशेषंग्राह्यं ॥ श्राध्दमपिकार्यमितिकेचित् ॥ पिंडदानसंकल्पस्तुपूर्वोक्तविशेषणविशिष्टेदेशेकालेचपितृतृप्यर्थंआकल्पंतेषांब्रह्मलोकनिवासार्थं दुर्गतिगतानांस्मर्यमाणानामस्मर्यमाणानांचोध्दारार्थं आत्मनश्चाकल्पंसंतानाविच्छेदार्थंवृषस्यधर्मरुपस्यदक्षिणखुरेपिंडदानमहंकरिष्यइति ॥एवंसर्वेभ्य:पिंडान्दत्त्वापुराणश्लोकै: ॥ पितृवंशेमृतायेचमातृवंशेचयेमृता: ॥गुरुश्वशुरबंधूनांयेचान्येबांधवामृता: ॥ येमेकुलेलुप्तपिंडा:पुत्रदारविवर्जिता: ॥ क्रियालोपगतायेचजात्यंधा:पंगवस्तथा ॥ विरुपाआमगर्भाश्चज्ञाताऽकुलेमम ॥खुरेदत्तेनपिंडेनतृप्तायांतुपरांगतिं ॥ वृक्षयोनिंगतायेचतिर्यग्योनिंगताश्चये ॥ पंगुत्वंचगतायेवैयेचमूकत्वमागता: ॥ आब्रह्मणोयेममवंशजातामातुस्तथावंशभवामदीया: ॥ वंशद्वयेयेममदासभूताभृत्त्यास्तथैवाश्रितसेवकाश्च ॥ मित्राणिसख्य:पशवश्चवृक्षाइष्टाश्चदृष्टाश्चकृतोपकारा: ॥ जन्मांतरेयेममसंगताश्चतेभ्य:स्वधापिंडमहंददामि ॥ अजातदंतायेकेचिध्येचगर्भेप्रपीडिता: ॥ तेषामुध्दरणार्थायइमंपिंडंददाम्यहं ॥ बंधुवर्गेचये केचिन्नामगोत्रविवर्जिता: ॥ स्वगोत्रेपरगोत्रेवातेभ्य:पिंडंददाम्यहं ॥ उद्बंधनमृतायेचविषशस्त्रहताश्चये ॥ श्रृंगिभिर्दंष्ट्रिभिर्वापितेभ्य:पिंडंददाम्यहं ॥ अग्निदाहेमृतायेचसिंहव्याघ्रहताश्चये ॥ आत्मनोघातिनोयेचतेभ्य:पिंडंददाम्यहं ॥ अग्निदग्धाश्चयेकेचिन्नाग्निदग्धास्तथापरे ॥ विध्युच्चोरहतायेचतेभ्य:पिंडंददाम्यहंरौरवेचांधतामिस्त्रेकालसूत्रेचयेगता: ॥ तेषामुध्दरणार्थायइमंपिंडंददाम्यहं ॥ असिपत्रवनेघोरेकुंभीपाकेचयेगता: ॥ तेषामुध्दरणा० ॥ अनेकयातनासंस्थामृता:प्रेतेषुयेगता: ॥ तेषामु० ॥असंख्ययातनासंस्थायेनीतायमकिंकरै: ॥ तेषामु० ॥ पशुत्वंचगतायेचपक्षिकीटसरीसृपा: ॥ अथवावृक्षयोनिस्थास्तेभ्य:पिंडं० ॥ अन्यैर्दुर्मुरणैर्येचक्षुधयातृषयामृता: ॥ भूतप्रेतपिशाचाश्चतेभ्य:पिंडं० ॥ दिव्यंतरिक्षभूमिष्ठा:पितरोबांधवादय: ॥ तेसर्वेतृप्तिमायांतुपिंडेनानेनसर्वदा ॥ जात्यंतरसहस्त्रेषुभ्रमंत:स्वेनकर्मणा ॥ मानुष्यंदुर्लभंयेषांतेभ्य:पिंडं० ॥ येकेचित्प्रेतरुपेणवर्तंतेपितरोमम ॥ तेसर्वेतृप्ति० ॥ एवंपिंडदानंकृत्वाशेषंसर्वंसमापयेत् ॥पिंडदक्षिणांदत्त्वाब्राह्मणैर्वृषखुरेपिंडदानंसंपूर्णमस्त्वितिवाचयित्वा पिंडोध्दारणादिसर्वंकृत्वावृषवत्सतरीरग्निदक्षिणतआनीयाग्ने:पूर्वतोदक्षिणामुखस्त्रिशूलेनदक्षिणौरौवामेचक्रेणचांकयित्वाविसर्जयेत् ॥ प्रांच:केचित्रिशूलमात्रमिच्छंति ॥ देशकालौस्मृत्वा इमंचतुर्विधमुक्तिरुपंवत्सतरीचतुष्टययुतं यथाशक्त्यलंकृतं पितृणामुध्दारपूर्वकमाकल्पंब्रह्मलोकप्राप्तये आकल्पंसंतानाविच्छेदायचवृषमुत्सृजामीतिसंकल्प्य प्रांचमुत्सृजेत् ॥वज्रंतंपृष्ठेहस्तंदत्त्वाऽनुमंत्रयीत ॥ एतंयुवानमित्यस्ययाज्ञवल्क्योवृषभस्त्रिष्टुप् वृषानुमंत्रणेविनियोग: ॥ ॐ एतंयुवानंपरिवोददामितेनक्रीळंतीश्चरतप्रियेण ॥ मान:शाप्तजनुषासुभागारायस्पोषेणसमिषामदेम ॥ इति ॥शांतातेपृथिवीशिवमंतरिक्षंध्यौस्तेदेव्यभयंकृणोतु ॥ शिवादिश:प्रदिशउद्दिशस्तआपोविध्युत:परिपांतुसर्वत:शांति:शांति:शांति: इतित्रि: ॥सर्वतोव्रजस्वेतिब्रूयात् ॥ ऋषभंमेतिपंचर्चस्यसूक्तस्यऋषभभोनंदीश्वरोनुष्टुप् अंत्यामहापंक्ति: ऋषभोपस्थानेविनियोग: ॥ ॐ ऋषभंमासमानानां० ऋच: ५ ॥ततोवृषंपूर्वदिगभिमुखंकृत्वा ॥ कद्रुदायेतिनवर्चस्यसूक्तस्यघौर:कण्वोरुद्रोगायत्री तृतीयामैत्रावरुणीअंत्यस्तृच:सौम्योंत्याऽनुष्टुप् पूर्वदिगुपस्थाने० ॥ ॐ कद्रुद्रायप्रचेतसे०ऋ० ९ ॥ सूक्तजपांतेहेवृषगोभि:सहतृणानिभक्षयथेष्टंपर्यटेतिवदेत् ॥ अथदक्षिणाभिमुखंकृत्वा ॥ इमारुद्रायेत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोजगती अंत्येत्रिष्टुभौ ॥ दक्षिणदिगुपस्थाने० ॥ॐ इमारुद्रायतवसेकपर्दिने० ऋ० ११ ॥सूक्तजपांतेगोभि:सहेतिपूर्ववद्वदेत् ॥ तत:प्रत्यड्मुखंकृत्वा ॥ आतेपितरितिपंचदशर्चस्यसूक्तस्यगृसमदोरुद्रस्त्रिष्टुप् ॥पश्चिमदिगुपस्थानेविनि० ॥ ॐ आतेपितर्मरुतांसुम्नमेतु० ऋ० १५ ॥ सूक्तजपांतेगोभि: सहेत्यादिपूर्ववद्ववेत् ॥अथोदड्मुखंकृत्वा ॥ इमारुद्रायस्थिरधन्वनइतिचतसृणांवसिष्ठोरुद्रोजगतीअंत्यात्रिष्टुप् ॥उत्तरदिगुपस्थाने० ॥ ॐ इमारुद्रायस्थिरधन्वनेगिर:० ऋ० ४ ॥ सूक्तजपांतेगोभि:सहेतिपूर्ववद्वेत् ॥ ततोगच्छतिवृषेऽनुगच्छन्स्तुवीत ॥ वृषोहिभगवान्धर्मोमुक्तयोवत्सिकाइमा: ॥ सारुप्यंचैवसान्निध्यंसायुज्यंचसलोकतां ॥ इमा:सरुपा:पत्न्यस्तुचतस्त्रस्त्वगोपते ॥ कल्पिता:क्रीडनार्थंचत्वयासार्धंव्रजंत्विमा: ॥ धर्मोसित्वंचतुष्पाद:स्मृतोवत्सतरीस्त्विमा: ॥ चतुर्णांपोषणार्थायमयोत्सृष्टास्त्वयासह ॥देवानांचपितृणांचमनुष्याणांचयोगत: ॥ भूतानांतृप्तिजननास्त्वयासार्धंव्रजंत्विमा: ॥ नमोब्रह्मण्यदेवायदेवर्षिपितृपोषक ॥ त्वयिमुक्तेऽक्षयालोकाममसंतुनिरामया: ॥ वृषोहिभगवान्धर्मश्चतुष्पाद:प्रकीर्तित: ॥ वृणोमितमहंभक्त्यासमांरक्षतुसर्वदा ॥ धर्मतस्तवसंभूति:स्वाहात्वंचविभावसो: ॥ वृषरुपेणसादेवीसर्वकामप्रदास्तुमे ॥ अदितिर्देवमातात्वंवेदमातातथेश्वरी ॥ धेनुरुपेणसादेवीममपापंव्यपोहतु ॥ गावोमेअग्रत:संतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेनित्यंगवांमध्येवसाम्यहं ॥ यालक्ष्मी:सर्वदेवानांयाचदेवेष्ववस्थिता ॥ धेनुरुपेणसादेवीममपापंव्यपोहतु ॥ पंचगाव:समुत्पन्नामथ्यमानेमहोदधौ ॥ तासांमध्येतुयानंदातस्यैनमोनम: ॥ धर्मंदेहियशोदेहिपुत्रान्देहिसुसंपद: ॥ एकोत्तरशतंचैवकुलानांतारयस्वमे ॥ रुद्रमायामयादत्ता:पत्न्यस्तववृषोत्तम ॥ पित्रर्नोत्तारणार्थायपर्यटस्वमहीमिमां ॥ खुराग्रक्षेपणै:सर्वंममपापंव्यपोहतु ॥ पितरस्तृप्तिमायांतुखुराग्रजलसीकरै: ॥येत्वांहिंसंतिपाप्मानोनरकंयांतुतेऽक्षयं ॥ येत्वांरक्षंतिधर्मिष्ठा:सुखभाजोभवंतुते ॥ तवदर्पकृतोच्चाटैर्नदीकूलविहारणै: ॥ अक्षय्या:संतुमेलोका:पूर्वजानांचसौरभ ॥ धनसंतानमारोग्यंबांधवानांविशोकतां ॥ तत:प्रदक्षिनीकृत्यत्यवृषंतमभिवादयेत् ॥ धारणाध्दर्मइत्याहुधर्मेणविधृता:प्रजा: ॥चरत्वंधर्मरुपेणवृषवत्सतरीयुत: ॥ धर्मस्त्वंवृषरुपेणब्रह्मणानिर्मित:पुरा ॥तवोत्सर्गप्रभावेणउध्दरस्वमहार्णवात् ॥ एवंनमस्कृत्यमंत्रवाध्यघोषेणसीमांतंनीत्वोत्सृजेत् ॥ सनवाह्योगाव:पत्न्यश्चनदोह्या: ॥ ततआगत्यचरणक्षालनाचमनादिविधायस्थापितदेवतानामुत्तरपूजांविधायविसृज्यसर्वंदेवप्रतिमादिआचार्यायदध्यात् ॥रुद्रकलश:सोपस्करोरुद्रजापकायदेय: ॥ तत:प्रायश्चित्तादिहोमशेषंसमापयेत् ॥ केचित्स्विष्टकृदाध्यत्रैवेच्छंति ॥ कर्मण:सांगतासिध्यर्थंशतब्राह्मणान्पंचविंशतिंयथाशक्तिवाभोजयिष्ये ॥ यथाशक्ति तिलानुदकुंभंवासोहिरण्यंगांचदध्यात् ॥ सूत्रांतरेतुसवत्सागौर्दक्षिणा ॥ सर्वानृत्विज:संपूज्यतेभ्योदक्षिणांनिरीक्षिताज्यदानंचकृत्वाभूयसींदत्त्वाशिषोग्राह्या: ॥एवंयथोक्तविधिनायस्तुनीलंसमुत्सृजेत् ॥ सर्वसिध्दिमवाप्नोतियथातेब्रह्मचारिणइत्यादिफलकथनंविस्तरभयान्नकथितंहेमाध्यादेरवगंतव्यं ॥ इतिभट्टरामेश्वरसुतनारायणभट्टकृत:काम्यवृषोत्सर्गआश्वलायनीयानाम् ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP