संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथाग्न्युत्तारणसूक्तम्

व्रतोदयान - अथाग्न्युत्तारणसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौस्मृत्वाअस्या:प्रतिमाया:अंगप्रत्यंगसंधिसमुत्पन्नवास्याग्निकुद्दालग्निटं
काग्न्यातपनिरासार्थं अग्न्युत्तारणंकरिष्यइति संकल्प्यअग्नि:सप्तिमितिवर्गेण अग्निपद
त्यागेनपठितेनपुन:अग्निपदसहितेनपठितेनैवकमावर्तनंभवति एवंअष्टशतवारमष्टाविंशति
वारंवापठित्वासंततजलधारांकुर्यात् ॥
यथा ॥ अग्नि:सप्तिमितिसप्तरस्यसूक्तस्यसौचिकोवैश्वानरस्त्रिष्टुप् ॥ अग्न्युत्तारणेवि० ॥ ॐ सत्पिंवाजंभरंददातिवीरंश्रुत्यंकर्मनिष्ठां ॥ रोदसीविचरत्समंजन्नारींवीरकुक्षिंपुरंधिं ॥ अप्नस:समिदस्तुभद्रामहीरोदसीआविवेश ॥ एकंचोदयत्समत्सुवृत्राणिदयतेपुरुणि ॥
हत्यंजरत:कर्णमावाभ्ध्योनिरदहुज्जरुथं ॥ अत्रिंघर्मउरुष्यदंतर्नृमेधंप्रजयासृजत्सं ॥
दाद्रविणंवीरपेशाऋषिय:सहस्त्रासनोति ॥ दिविहव्यमाततानधामानिविभृतापुरुत्रा ॥
उक्थैऋषयोविह्वयंतेनरोयामनिबाधितास: ॥ वयोअंतरिक्षेपतंत:सहस्त्रापरियातिगोनां ॥
विशईळतेमानुषीर्यामनुषोनहुषोविजाता: ॥ गांधर्वीपथ्यामृतस्यगव्यूतिर्घृतआनिषत्ता ॥
ब्रह्मऋभवस्ततक्षुर्महामवोचामासुवृक्तिं ॥ प्रावजरितारंयविष्ठमहिद्रविणमायजस्व ॥
अग्निपदसहितंसूक्तं ॥ ॐ अग्नि:सप्तिवाजंभरंददात्यग्निर्विरंश्रुत्यंकर्मनिष्ठां ॥
अग्नीरोदसीविचरत्समंजन्नग्निर्नारींवीरकुक्षिंपुरंधिं ॥ अग्नेरप्नस:समिदस्तुभद्राग्निर्महीरो
दसीआविवेश ॥
अग्निरेकंचोदयत्समत्स्वग्निर्वृत्राणिदयतेपुरुणि ॥अग्निर्हत्यंजरत:कर्णमावाग्निरभ्ध्योनिर
दहज्जरुथं ॥
अग्निरत्रिंघर्मउरुष्यदंतरग्निर्नृमेधंप्रजयासृजत्सं ॥ अग्निर्दाद्रविणंवीरपेशाअग्निऋषिय:
सहस्त्रासनोति ॥
अग्निर्दिविहव्यमाततानाग्नेर्धामानिविभृतापुरुत्रा ॥ अग्निमुक्थैऋषयोविव्हयंतेग्निंनरोया
मनिबाधितास: ॥
अग्निंवयोअंतरिक्षेपतंतोग्नि:सहस्त्रापरियातिगोनां ॥ अग्निंविशईळतेमानुषीर्याअग्निंमनु
षोनहुषोविजाता: ॥
अग्निर्गांधवीपथ्यामृतस्याग्नेर्गव्यूतिर्घृतआनिषत्ता ॥ अग्नयेब्रह्मऋभवस्ततक्षुरग्निंमहाम
वोचामासुवृक्ति: ॥
अग्नेप्रावजरितारंयविष्ठाग्नेमहिद्रविणमयाजस्व ॥ इति ॥ ततोर्चांम्रुदाद्वादशवारंजलेनच
प्रक्षाल्यमंत्रवत्पंचगव्यंकृत्वा ॐ पय:पृथिव्यांपयओषधीषुपयोदिव्यंतरिक्षेपयोधां ॥
पयस्वती:प्रदिश:संतुमह्यं ॥
ॐ आवोराजानं० ॐ आप्यायस्व० ॐ दधिक्राव्णो० ॐ शुक्रमसिज्योतिरसितेजोऽसि ॐ मधुवाता० ॐ आयंगौ: पृ० इतिपंचामृतै:संस्नाप्य ॥
लिंगंचेत् ॐ नमस्तेरुद्र० इत्यष्टाभिऋग्भि:संस्नाप्यघृतेनाभ्यज्योद्वर्तनेनोद्वर्त्य उष्णोद
केनप्रक्षाल्य गंधदत्त्वासपल्लवैश्चतुर्भि:कुंभैरापोहिष्ठेतितिसृभिराकलशेष्वितिचप्रत्येकं समु
द्रज्येष्ठाइतिचतुर्भिराकलशेष्वितिचमिलितै:संस्नाप्य ओदुंबरपीठेऽर्चामुपवेश्यपरितोऽष्टदि
क्षुसजलकुंभान् संस्थाप्यतेषुगंधपुष्पदूर्वा:प्रक्षिप्य ॥
आध्येसप्तमृद: १ द्वितीयेपुष्करपर्णशमीविकंकताश्मंतकत्वच:पल्लवांश्च २ तृतीयादिषु
क्रमेणयवव्रीहितिलमाषकंगुश्यामाकमुद्गाइति सप्तधान्यानि ३ पंचरत्नानि ४ फलपुष्पा
णि ५ कुशदूर्वागोरोचना: ६ संपातोदकं ७ सर्वौषधीश्च ८ क्षिप्त्वा क्रमेण ॐ आपोहिष्ठा० ३ ॐ हिरण्यवर्णा: ४ ॐ पवमान:सुवर्जनइत्यनुवाकेनचाभिषिच्यएककुंभेश
मीपलाशवटस्वदिरबिल्वाश्वत्थविकंकतपनसाम्रशिरीषोदुंबराणांपल्लवान्कषायांश्चक्षिप्त्वा
ॐ अश्वत्थेव० इत्यभिषिच्यपंचरत्नोदकेन ॐ हिरण्यवर्णा:शुचय:पा० ४ इतिसंस्त्राप्य
आचमनंदत्त्वा वस्त्रोपवीतादिदीपपर्यंतपूजांतेयपपिष्टदीपानष्टौदध्यात् ॥
तत्रमंत्रा: ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्यजात:परिरेकआसीत् ॥ सदाधारपृथिवींध्यामुते
मांकस्मैदेवायहविषाविधेम ॥१॥
ॐ यआत्मदाबलदायस्यविश्वउपासनेप्रशिषंयस्यदेवा: ॥ यस्छायामृतंयस्यमृत्यु:कस्मै० ॥२॥
ॐ य:प्राणतोनिमिषतोमहित्वैकइद्राजाजगतोबभूव ॥ यईशेअस्यद्विपदशतुष्पद:कस्मै० ॥३॥
ॐ यस्येमेहिमवंतोमहित्वायस्यसमुद्रंरसयासहाहु: ॥ यस्येमा:प्रदिशोयस्यबाहूकस्मै० ॥४॥
ॐ येनध्यौरुग्रापृथिवीचदृह्लायेनस्वम्स्तभितंयेननाक: ॥ योऽअंतरिक्षेरजसोविमान:
कस्मै: ॥५॥
ॐ यंक्रंदसीअवसातस्तभानेअभ्यैक्षेतांमनसारेजमाने ॥ यत्राधिरसूउदितोविभातिकस्मै० ॥६॥
ॐ आपोहयद्वृहतीर्विश्वमायन् गर्भंदधानाजनयंतीरग्निं ॥ ततोदेवानांसमवर्ततासुरेक:
कस्मै० ॥७॥
ॐ यश्चिदापोमहिनापर्यपश्यदृक्षंदधानाजनयंतीर्यज्ञं ॥ योदेवेष्वधिदेवएकआसीत्कस्मै०
॥८॥ इति ॥
तत:सुवर्णशलाकयातैजसपात्रस्थंमधुघृतंचगृहीत्वा ॐ चित्रंदेवाना० ॐ तेजोसिशुक्रमस्य
मृतमसिधामनामासिप्रियंदेवानामनाधृष्टंदेवयजनमसि ॐ नमोभगवतेतुभ्यंशिवायहरये
नम: ॥ हिरण्येतसेविष्णोविश्वरुपायतेनम: ॥ इतित्रिभिर्मंत्रैर्दक्षिणंचक्षुर्विलिख्यपुनस्तैरेव
मंत्रै:सव्यंचक्षुर्लिखेत् तत:ॐ अंजतित्वाम० इतिमंत्रेणदक्षिणंदेवस्यचक्षुरंजयेत् मंत्रावृत्त्या
सव्यं ॥
ततोमध्वाज्यशर्कराभिर्मिलिताभिर्देवस्यदक्षिणंचक्षु: ॐदेवस्यत्वा० मग्नेस्तेजसासूर्यस्यव
र्चसेंद्रस्येंद्रियेणानज्मिइतिअंक्त्वामंत्रावृत्त्यासव्यमंक्त्वा पुन: कज्जलेन ॐ देवस्यत्वा०
इंद्रस्येंद्रियेणानज्मिइतिमंत्रावृत्त्या दक्षिणसव्येचक्षुषीअंजयेत् लिंगेतु स्वर्णसूच्या गंधेन
ॐ नमोभगवतेरुद्रायहिरण्यरेतसेपरायपरमात्मनेविश्वरुपायोमाप्रियायनम: इत्यंक्त्वा अंजं
तित्वेत्यादिमंत्रै:पूर्वोक्तवदंजयेत् ॥
नेदंबाणसरिभ्दवलोहजलिंगेषु ॥ ततआदर्शभक्ष्यादिदर्शयेत् ॥ तत:कर्ताचार्यायगामृत्वि
ग्भ्यश्चदक्षिणांदध्यात् ॥
अथाचार्य:प्रत्यृचमादौप्रणवंवदन् पुरुषसूक्तेनदेवंस्तुत्वावंशपात्रेपंचवर्णौदनेनदेवस्यनीराजनं
कृत्वा ॐ नमोरुद्रायसर्वभूताधिपतयेदीप्तशूलधरायोमादयितायविश्वाधिपतयेरुद्रायवैनमो
नम: शिवमगर्हितंकर्मास्तुस्वाहेतिचतुष्पथेदध्यात् ॥
ततोऽन्यंबलिं ॐ भूतेभ्योनमइतिअश्वत्थपर्णेक्षिपेत् ॥ ततोवेध्यांसर्वतोभद्रेनाममंत्रेणदेवा
नावाहयेत् ॥
यथा मध्ये ॐ ब्रह्मणेनम:ब्रह्माणमावाहयामिएवंसर्वत्र पूर्वादिदिक्षु १ ॐ इंद्रायनम: २
ॐ अग्नये० ३ ॐ यमाय० ४ ॐ निऋतये० ५ ॐ वरूणाय० ६ ॐ वायवे० ७ ॐ सोमाय० ८ ॐ ईशानाय० ९ ॥
ईशानेंद्राध्यं तराले ॐ अष्टवसुभ्यो० १० रुद्रेभ्यो० १६ ॐ स्कंदवृषाभ्यां० १७ ॥
ब्रह्मेशानाध्यंतरालेष्वष्टसु ॐ दक्षाय० १८ ॐ विष्णवे० १९ ॐ दुर्गायै० २० ॐ स्वधाये० २१ ॐ मृत्युरोगेभ्यो० २२ ॐ समुद्रेभ्यो० २३ ॐ सरिभ्ध्यो० २४ ॐ गणपतये० २५ ॥
मध्येब्रह्माध: ॐ पृथिव्यै० २६ ॐ मेरवे० २७ ॥ मध्यएवस्थाप्यदेवंसुवर्णप्रतिमायांतन्मं
त्रेणावाह्यप्रागादिषु ॐ वज्राय २८ ॐ शक्तये २९ ॐ दंडाय ३० ॐ खड्गाय ३१ ॐ पाशाय ३२ ॐ अंकुशाय ३३ ॐ गदायै ३४ ॐ शूलाय ३५ ॥
तब्दाह्ये ॐ गौतमं ३६ ॐ भरद्वाजं ३७ ॐ विश्वामित्रं ३८ ॐ कश्यपं ३९ ॐ जमदग्निं ४० ॐ वसिष्ठं ४१ ॐ अत्रिं ४२ ॐ अरुंधतीं ४३ ॥
तब्दाह्ये सूर्यं ४४ सोमं ४५ भौमं ४६ बुधं ४७ गुरुं ४८ शुक्रं ४९ शनिं ५० राहूकेतू ५१ ॥ तब्दाह्ये ऐंद्रीं ५२ कौमारीं ५३ ब्राह्मीं ५४ वाराहीं ५५ चामुंडां ५६ वैष्णवीं ५७ माहेश्वरीं ५८ वैनायकीं ५९ इतिदेवतानामभि रावाह्यसंपूज्य अर्चायांदेवंतन्मंत्रेणावाह्य मंडलमध्येअर्चांसुप्रतिष्ठोभवेतिनिवेश्यसंपूज्य पुष्पांजलिंसमर्प्य ॐ नमोमहभ्ध्यौ इति देवंनत्वामंडलादुत्तरत:स्वस्तिकेमंचकंतदुपरिशय्यामुपकल्प्य ॐ उत्तिष्ठब्रह्मणस्पत इति
देवमुत्थाप्यमंगलघोषै:शय्यायांदेवमारोप्यपुरुषसूक्तेन ॐ अभ्ध्य:संभूत:पृ० इत्युनुवाकेनो
त्तरनारायणाख्येनचस्तुत्वादेवेतत्त्वन्यासंकुर्यात् ॥
सयथा-पुरुषात्मनेनम: प्राणात्मने प्रकृतितत्त्वाय बुध्दितत्त्वाय अहंकारतत्त्वाय मनस्तत्त्वाय इतिसर्वांगेषु प्रकृतितत्त्वाय बुध्दितत्त्वाय हृदि शब्दतत्त्वायशिरसि स्पर्शतत्त्वायत्वचि रुपतत्त्वायहृदि रसतत्त्वायमुखे गंधतत्त्वायनासायां श्रोत्रतत्त्वायश्रोत्रयो: त्वक्तत्त्वायत्वचि चक्षुस्तत्त्वायचक्षुषो: जिव्हातत्त्वायजिव्हायां घ्राणतत्त्वायघ्राणे वाक्तत्त्वायवाचि पाणिततत्त्वायहस्तयो: पादतत्त्वायपादयो: पायुतत्त्वायपायौ उपस्थतत्त्वायउपस्थे पृथ्वीतत्त्वायपाददिजानुपर्यंतं अप् तत्त्वायजान्वादिनाभिप० तेजस्तत्त्वायनाभ्यादिहृदयांतं वायुतत्त्वायहृदयादिभूमध्यांतं आकाशतत्त्वायभ्रूमध्यादिशिरों
तं सत्त्वतत्वाय० रजस्तत्त्वाय० तमस्तत्त्वाय० सर्वांगे ॥
तत:पुरुषसूक्तेनषोडशांगन्यास: ॥ तत:सुखशायीभवेतिशय्यायांदेवंस्वापयित्वावस्त्रद्वयेना
च्छाध्यदेवस्यशिरोभागेकलशंसंस्थाप्यतत्रनिद्रामावाहयेत् ॥
वासुदेवंनमस्कृत्यनिद्रामावाहयाम्यहं ॥ मोहिनींसर्वभूतानांमनोविभ्रमकारिणीं ॥
एहिसावित्रिमूर्तिस्त्वंचक्षुर्भ्यांज्ञानगोचरे ॥ विशनासापुटेदेविकंठेचोत्कंठिताभवेति ॥
ततस्तांसंपूज्यमंडलशय्ययोरंतरानगंतव्यमितिप्रैषंदत्त्वामंडलदेवताभ्योनाम्नापायसेनबलिदानं ॥ तत:कुंडसंस्कारादिकुर्यात् ॥ प्रसंगान्मध्येप्रासादवास्त्वाध्यावाहनक्रमोलिख्यते ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP