संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथचलार्चाप्रयोग: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथचलार्चाप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथचलार्चाप्रयोग: Translation - भाषांतर श्री: ॥ अथबौधायनसूत्रत्रिविक्रमानुसारेणसिंधूक्त:सर्वदेवचलप्रतिष्ठाप्रयोग: ॥ तत्रदौदशद्वादशान्यतमहस्तंमंडपंकृत्वाआग्न्येय्यांहस्तमात्रंचतुरस्त्रंकुंडंस्थंडिलंवाकृत्वा पूर्वतोहस्तमात्रांद्वादशांगुलोच्चांत्रिवप्रांग्रहवेदिं नैऋत्यांचतुरंगुलोन्नतांहस्तमात्रांवास्तु वेदिं मध्येमंडपनवांशांहस्तोच्चांप्रधानवेदिंकृत्वा तदुपरिसर्वतोभद्रंविरच्यप्रतिष्ठादिनात्पूर्वेध्यु:यजमान:आचम्यप्राणानायम्यदेशकालौसंकीर्त्य अस्यांमूर्तौंलिंगेवादेवतासांनिध्यार्थंदीर्घायुर्लक्ष्मीसर्वकामसमृध्द्यक्षय्यसुखकामोऽहंग्रहयज्ञसहितांअमुकमूर्तिंचलप्रतिष्ठांकरिष्ये ॥ (वास्तुदेवतापिंडिकापरिवारदेवतासत्त्वेतत्तदूह:कार्य:) ॥ तदंगभूतंमहागणपतिपूजनपूर्वकंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंआचार्यादिवरणंचकरिष्ये ॥ तानिकृत्वा ॥ वृताचार्य: द्विराचम्यपवित्रपाणि:प्राणानायम्यदेशकालाध्युच्चार्यअमुकमूर्तिचलप्रतिष्ठाख्येकर्मणियजमानेनवृतोऽहमाचार्यकर्मकरिष्ये ॥ शरीरशुध्द्यर्थंपुरुषसूक्तजपंचकरिष्ये ॥ तानिकृत्वा ॥ यदत्रेतिगौरसर्षपान्विकीर्यशुचीव इतितृचेनपंचगव्येनआपोहिष्ठेतितृचेनकुशोदकेनचदेवयजनंसंप्रोक्ष्य ॐ स्वस्त्ययनं० अहोमुंच० देवाआयांतुइत्यादिभूमौप्रादेशंकुर्यात् ॥ ततउक्तविधिनामंडपप्रतिष्ठांकृत्वाऽकृत्वावापूर्वरात्रौसुवस्त्राच्छादितांमूर्तिंपंचगव्यहिरण्ययवदूर्वाश्वत्थपर्णपलाशपर्णक्षिप्तोदकेनहिरण्यमंतर्धायआपोहिष्ठेतितिसृभि: हिरण्यवर्णा:शुचयइतितिसृभि: पवमान:सुवर्जनइत्यनुवाकेनचाभिषिच्य व्याहृतिभि:इदंविष्णुरितिचपुष्पफलयवदूर्वा:समर्प्यरक्षोहणमितिदेवहस्तेकंकणंबध्द्वावाससाऽऽच्छाध्य अवतेहेळो० उदुत्तमं० इतिमंत्राभ्यांगंधोदकपूरितजलद्रोण्यांप्राड्मुखीमुदड्मुखींवामूर्तिमधिवासयेत् ॥ पात्राभावेसंततधारांकुर्यात् ॥तत:पूर्वोक्तकुंडसमीपमेत्यअमुकप्रतिष्ठांगत्वेनहोमंकर्तुंकुंडोपलेपनाध्यग्निप्रतिष्ठांकरिष्ये ॥ तद्गोमयेनोपलिप्यउल्लिख्यउपरिमेखलायांइदंविष्णुरितिविष्णुं मध्यमेखलायांब्रह्मजज्ञानमितिब्रह्माणं अधोमेखलायांकद्रुदायेतिरुद्रं योन्यांगौरीर्मिमायेतिगौरींचावाह्यसंपूज्य तारंक्तेनकौशेयवाससाऽऽच्छाध्यबलवर्धननामानमग्निंप्रतिष्ठाप्यध्यात्वा ॥ मंडपपक्षेनैऋत्यवेध्यांवास्तुमंडलंविलिख्यतत्रशिख्यादिवास्तुदेवताआवाह्यसंपूज्य ईशान्यांकलशेविधिनावरुणंसंपूज्यवास्तुदेवताभ्य:पायसबलिंदध्यात् ॥ ततोग्रहवेध्यांग्रहान्संस्थाप्यसंपूज्याग्निसमीपमेत्यान्वाधानंकुर्यात् ॥ देशाध्युच्चार्यामुकमूर्तिचलप्रतिष्ठाहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा ॥ गणपतिंउपकल्पितसर्वैर्द्रव्यै: प्रतिद्रव्यमेकैकयावराहुत्या शिख्यादिवास्तुदेवता:प्रत्येकंप्रति द्रव्यंअष्टाष्टसंख्याकाभि:समित्तिलपायसाज्याहुतिभि: वास्तोष्पतिंवास्तोष्पतइतिचतसृभि:प्रत्यृचंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाभि:पूर्वोक्तद्रव्यचतुष्टयाहुतिभि: वास्तोष्पतइतिचतसृभिर्वास्तोष्पतेध्रुवास्थूणामितिपंचर्ग्भि:प्रत्यृचंबिल्वफलै: चरक्यादिदेवता: प्रत्येकंप्रतिद्रव्यंचतुश्चतु:संख्याकाभि:पूर्वोक्तद्रव्याहुतिभि: ॥ग्रहहोमेआदित्यादिनवग्रहान् अष्टाष्टसंख्याकाभिरर्कादिसमिच्चर्वाज्याहुतिभि: अधिदेवता:प्रत्यधिदेवताश्चप्रत्येकंप्रतिद्रव्यंचतुश्चतु:संख्याकाभि: पूर्वो० क्रतुसाद्गुण्यदेवता:क्रतुसरं०प्रत्येकंद्विद्विसं० पूर्वोक्तद्रव्यैर्यक्ष्ये ॥ अत्रप्रधानं ॥इंद्रपृथिवींपृथिवीमूर्तिंशर्वंअग्निंअग्निमूर्तिंपशुपतिंयमंयजमानमूर्तिंउग्रंनिऋतिंसूर्यमूर्तिंरुद्रंवरुणंजलमूर्तिंभवंवायुंवयुमूर्तिंईशानं कुबेरंसोममूर्तिंमहादेवं ईशानंआकाशमूर्तिंभीमं एतालोकपाकमूर्तिमूर्तिपतिदेवता:पलाशोदुंबराश्वत्थशम्यपामार्गसमित्तिलाज्यद्रव्यै:प्रत्येकंप्रतिद्रव्यं २८ वा ८ आहुतिभि:तत्तन्मंत्रै: ॥ स्थाप्यदेवंअमुकंतन्मंत्रेणपूर्वोक्तसमित्पंचकतिलनीवारपायसाज्यै:प्रतिद्रव्यं १०८ वा २८ वा ८ संख्याहुतिभि: ॥ विश्वान्देवान् अग्निर्यजुर्भिरित्यनुवाकेन तिलाजाभ्यां प्रतिद्रव्यंदशाहुतिभि: ॥ पिंडिकांप्रतिद्रव्यमष्टसं० ८ पूर्वोक्तसप्तद्रव्याहुतिभि:तत्तन्मंत्रेण ॥ परिवारदेवताश्चेत् तन्मंत्रै:अमुकदेवता:प्रत्येकंप्रतिद्रव्यंअष्टसंख्याकाभि:पूर्वो० ॥एवंत्रिभि:पर्यायै:पंचभि:पर्यायैर्वायक्ष्ये ॥ ब्रह्मादिमंडलदेवता:प्रत्येकंदशभिर्घृताक्ततिलाहुतिभिर्यक्ष्ये ॥ शेषेणेत्याज्यभागांतेयजमानस्त्यागंकुर्यात् ॥ ततोगणपतयेवराहुतिंजुहुयात् ॥ ततोग्नेरुत्तरत:सजलंकलशंसंस्थाप्यआज्यहोमेतस्मिन्संपातान्नयेत् ॥ सर्त्विगाचार्योऽन्वाधानक्रमेणहोमंकुर्यात् ॥ प्रतिद्रव्यहोमांतेदेवंपादनाभिशिर:सुस्पृशेत् ॥तत्रादौवास्तुदेवताहोम: ततोलोकपालमूर्तिमूर्त्यधिपतीनांहोम: तत:स्थाप्यदेवताहोम: ॥ मत्रास्तु - इदंविष्णुरितिविष्णो: त्र्यंबकमितिशिवस्य गणानांत्वेतिगणपते: उदुत्यमितिसूर्यस्य जातवेदसइतिदुर्गाया: विष्णोर्नुकमितिनारायणस्य हिरण्यवर्णामितिलक्ष्म्या: अथवाविष्णवेनम:स्वाहाइत्यादिनामभिर्वाहोम: ॥ ततोविश्वदेवोद्देशेनअग्निर्यर्जुर्भिरित्यनुवाकांतेस्वाहेति १० आहुतय: ॥ तत:पिंडिकाहोम: ह्रीश्चते० इतिविष्णुपिंकाया: गौरीर्मिमायेतिशिवपिंडिकाया: चित्रंदेवानामितिसूर्यपिंडिकाया: चित्रंदेवनामितिसूर्यपिंडिकाया: गणेशशक्तिपिंडिकानांगौरीर्मिमायेति हनुमदादीनांशिवपिंडिकामंत्रा:शिष्टैर्गृह्यंते ॥ तत:परिवारदेवताहोम:तत्तल्लिंगनिर्दिष्टवेदमंत्रै:नाममंत्रैर्वाकार्य: ॥ एवंप्रथमपर्यायहोमांतेदेवस्यपादौस्पृशेत् द्वितियांतेनाभिंतृतीयांतेमध्यं चतुर्थांतेउर: पंचमांतेशिरइति ॥ पर्यायत्रयपक्षेतु प्रथमांतेपादौ द्वितीयांतेनाभिं तृतीयांतेशिर: ॥ ततोर्चांशोधयेत् ॥देवंनत्वा ॥ स्वागतंदेवदेवेशविश्वरुपनमोऽस्तुते ॥ शुध्देऽपित्वदशिष्ठानेशुध्दिंकुर्म:सहस्वतां ॥ इतिसंप्रार्थ्य ॥ ॐ उत्तिष्ठब्रह्मण० इतिदेवमुत्थाप्य अग्न्युत्तारण्मंकुर्यात् ॥ यथाअग्निं:सप्तिमितिसूक्तमग्निपदरहितंपुनस्तत्सहितमिति १०८ वा २८ संख्ययापठन् जलंपातयेत् ॥ ततोर्चांद्वादशवारंमृदाजलेनचप्रक्षाल्यमंत्रवत्कृतपंचगव्येनस्त्रापयेत् ॥ तत्रमंत्रौ: ॥ॐ पय:पृथिव्यांपयओषधीषुपयोदिव्यंतरिक्षेपयोधां ॥ पयस्वती:प्रदिश:संतमुह्यं ॥ ॐ आवोराजान० ॥ तत:पंचामृतस्नानं ॐ आप्याय० दधिक्राव्णो० शुक्रमसि० मधुवाता० आयंगौ:० ॥ लिंगंचेन्नमस्तेरुद्रमन्यवइत्यारभ्यमृडयातिनइत्यंताष्टमंत्रै:संस्त्राप्यघृतेनाभ्यंगंचंदनोद्वर्तनंउष्णोदकेनक्षालनंचकृत्वागंधंदत्त्वासंपातोदकैरभिषिच्यसपल्लवैश्चतुर्भि:कुंभै:क्रमेण ॐ आपोहिष्ठा० ॐ योव:शिवत० ॐ तस्माअरंग० ॐ आकलशेषु० इति मंत्रै: संस्त्राप्यतैरेवैकीकृतकुंभोदकै: ॐ समुद्रज्येष्ठा: ४ ॐ आकलेषु० इति संस्त्राप्य० ॥ पूर्ववेदिकायांऔदुंबरदिपीठेऽर्चामुपवेश्यपरितोऽष्टदिक्षुसजलकुंभेषुगंधपुष्पदूर्वा:क्षिप्त्वा ॥आध्यकुंभेसप्तमृद: ॥ द्वितीयेपुष्करपर्णशमीविकंकताश्मंतकत्वच:पल्लवांश्च ॥ तृतीयेसप्तधान्यंव्रीहियवमाषतिलकंगुश्यामाकमुद्गाख्यं ॥ चतुर्थेपंचरत्नानि ॥ पंचमेफलपुष्पाणि ॥ षष्ठेदूर्वारोचना: ॥ सप्तमेसंपातोदकं ॥ अष्टमेकुष्ठंमांसीहरिद्राद्वयंमुराशैलेयंचंदनंवचाचंपकंमुस्ताइतिदशसर्वौषधी:क्षिप्त्वा क्रमेण आपोहिष्ठेतितिसृभि: हिरण्यवर्णा:शुचय:पावकाइतिचतसृभि: पवमान:सुवर्जनइत्यनुवाकेनचप्रागादिकलशेनाभिषिंच्य ॥ एककुंभेशमीपलाशवटखदिरबिल्वाश्वत्थविकंकतपनसाम्रशिरीषोदुंबराणांपल्लवान्कषायांश्चक्षिप्त्वातेनअश्वत्थेवइतिमंत्रेणाभिषिच्य पंचरत्नोदकेनहिरण्यवर्णा:शुचय:पावकाइतिसंस्त्राप्य अहतेवाससीदत्त्वाउपरिवितानंबध्द्वायज्ञोपवीतादिदीपांतोपचरान्समर्प्य ॥ॐ हिरण्यगर्भ:सम० ॐ यआत्मदा० ॐ य:प्राणतो० ॐ यस्येमे० ॐ येनध्यौ० ॐ यंक्रंदसी० ॐ आपोहय० ॐ यश्चिदापो० इत्यष्टभिर्मंत्रैरष्टौपिष्टदीपान्दत्त्वासुवर्णशलाकयातैजसपात्रस्थंमधुघृतंचगृहीत्वा ॥ चित्रंदेवाना० ॥ॐ तेजोसिशुक्रमस्यमृतमसिधामनामासिप्रियंदेवानामनाधृष्टंदेवयजनमसि ॥ ॐ नमोभगवतेतुभ्यंशिवायहरयेनम: ॥ हिरण्यरेतसेविष्णोविश्वरुपायतेनम: ॥ इतित्रिभिर्मंत्रैर्दक्षिणसव्येदेवनेत्रेमंत्रावृत्त्यालिखेत् ॥तत: ॐ अंजंतित्वा० इतिअंजनेनमधुनाचाड्त्वा ॐ देवस्यत्वा० द्रियेणानज्मिइतिमध्वाज्यशर्कराभिश्चाड्त्वा तेनैवमंत्रेणांजनेनपुनरंजयेत् ॥प्रत्यंजनंमंत्रावृत्ति: ॥ ततआदर्शभक्ष्यादिदर्शयेत् ॥ तत:कर्ताचार्यायगामृत्विग्भ्यश्चदक्षिणांदध्यात् ॥ अथाचार्य: प्रत्यृचमादौप्रणवंवदन् पुरुषसूक्तेनदेवंस्तुत्वा वंशपात्रस्थपंचवर्णौदनेनदेवस्यनीराजनंकारयित्वातंनीराजितंपंचवर्णौदनंरुद्रायचतुष्पथादौदध्यात् ॥ मंत्रस्तु ॥ ॐ नमोरुद्रायसर्वभूताधिपतयेदीप्तशूलधरायोमादयिताविश्वाधिपतयेरुद्रायवैनमोनम:शिवमगर्हितंकर्मास्तुस्वाहेति अश्वत्थपर्णे ॐ भूतेभ्योनमइतिपंचवर्णौदनमयंबलिंभूतेभ्यश्चदध्यात् ॥ अथाचार्योमध्यवेध्युपरिकृतसर्वतोभद्रेदेवानावाहयेत् ॥ मध्येब्रह्माणमित्यादिवैनायक्यंतादेवतानामभिरावाह्यसंपूज्याचार्योदेवंतन्मंत्रेणावाह्यमंडलमध्येस्थाप्यदेवतां ॐ सुप्रतिष्ठोभवेतिनिवेश्यसंपूज्यप्रतिदैवतंदशतिलार्जुहुयात् ॥ ततोदेवेपुष्पांजलिंसमर्प्य ॐ नमोमहभ्द्योइतिनत्वावेध्युपरिपूर्वभागेस्वस्तिकेउत्तरतोवासोपस्करांशय्यांकृत्वाउत्तिष्ठेतिदेवमुत्थाप्यमंगलघोषै:शय्यायांदेवमारोप्य पुरुषसूक्तोत्तरनारायणाभ्यांस्तुत्वाऽनंतरंदेवेन्यासान्कुर्यात् ॥ ॐ पुरुषात्मनेनम: ॐ प्राणात्मने० ॐ प्रकृतितत्त्वाय० ॐ बुध्दितत्त्वाय० ॐ अहंकारतत्वाय० ॐ मनस्तत्त्वाय० इतिसर्वांगे ॥ ॐ प्रकृति० ॐ बुध्दितत्त्वा० हृदये ॥ॐ शब्दतत्त्वाय० शिरसि ॥ ॐ स्पर्शतत्त्वाय० त्वचि ॥ ॐ रुपतत्त्वाय० हृदि ॥ ॐ रसतत्त्वाय० मुखे ॥ ॐ गंधतत्त्वाय० नासिकायां ॥ ॐ श्रोत्रतत्त्वाय० श्रोत्रयो: ॥ ॐ त्वक्तत्त्वाय० त्वचि ॥ ॐ चक्षुस्तत्त्वाय० चक्षुषो: ॐ जिव्हातत्त्वाय० जिव्हायां ॥ ॐ घ्राणतत्त्वाय० घ्राणे० ॥ ॐ वाक्तत्त्वाय० वाचि ॥ ॐ पाणितत्त्वाय० हस्तयो: ॥ ॐ पादतत्त्वाय० पादयो: ॥ ॐ पायुत० पायौ ॥ ॐ उपस्थत० उपस्थे ॥ ॐ पृथ्वीत० पादादिजानुपर्यंतं ॥ ॐ अप् तत्त्वाय० जान्वादिनाभिपर्यंतं ॥ तेजस्त० नाभ्या दिहृदयांतं ॥ ॐ वायुत० हृदयादिभ्रूमध्यांतं ॥ ॐ आकाशत० भ्रूमध्यादिशिरोंतं ॥ ॐ सत्त्वतत्त्वाय ॐ रजस्त० ॐ तमस्त० सर्वांगे ॥ तत:पुरुषसूक्तन्यासोनित्यपूजावत् ॥ तत:सुखशायीभवेतिशय्यायांदेवंस्थापयित्वा मंडलशय्ययोरंतरानगंतव्यंइति प्रैषंदत्त्वास्विष्टकृदादिहोमशेषंसमाप्य मंडलदेवताभ्योनामभि:पायसेनबलीन्दध्यात् ॥ नीवारचरुशेषेणदिग्बलीन् अग्ने:परितोदत्त्वाधामंतइतिपूर्णाहुतिंहुत्वातत:पिंडिकांपरिवारदेवांश्चप्रतिमासमीपेयथावकाशदेवेवावस्त्राच्छादितपीठेनिधायमधुघृतेनाभ्यज्यशुध्दवारिणाप्रक्षाल्यपूर्वस्नानाविष्टकलशवारिणातत्तन्मंत्रै:स्नापयित्वागंधादिभिरभ्यर्च्य वस्त्रैराच्छाध्यन्यासान्कुर्यात् ॥तत्रपिंडिकायां ॐ घंनम:हृदयायनम: ॥ ॐ पंनम:शिरसेस्वाहा ॥ ॐ भंनम:शिखायै० ॥ॐ फंनमकवचायहुं ॥ ॐ ळंनमोनेत्र० ॥ ॐ क्षंनम:अस्त्रायफट् ॥ तत: ॐ महीमूषु० इतिमंत्रेणावाह्य ॐ अदितिर्ध्यौरदितिरंत० इतिस्तुत्वा ॐ ह्रींनमइतिसंपूज्य ॥ ॐ ह्रींनम:स्वाहेतिपूर्णाहुतिंहुत्वा ॥ ॐ ह्रींश्रींह्रींक्ष:परब्रह्मणेसर्वाधारायनम: ॥ ॐ र्हींश्रींह्रींदिव्यतेजोधारिणिसुभगेनमइतिमंत्राभ्यामधिवासयेत् ॥ तत:परिवारदेवेषुतत्तन्मंत्रेणषडंगन्यासंकृत्वातत्तन्मंत्रेणाधिवासयेत् ॥ ततोदेवस्यशिरोभागे विधिवत्कलशंसंस्थाप्यतत्र ॥ वासुदेवंनमस्कृत्यनिद्रामावाहयाम्यहं ॥ मोहिनींसर्वभूतानांमनोविभ्रमकारिणीं ॥ एहिसावित्रिमूर्तिस्त्वंचक्षुर्भ्यांज्ञानगोचरे ॥ विशनासापुटेदेविकंठेचोत्कंठिताभव ॥ इतिनिद्रामावाह्यसंपूज्ययजमान:अधिवासानांगत्वेनाचार्यायगामृत्विग्भ्यश्चदक्षिणांदध्यात् ॥इत्यधिवासनं ॥ तत:परेध्यु:सध्योवा ॐ उत्तिष्ठब्रह्म० इतिदेवमुत्थाप्यपुरुषसूक्तोत्तरनारायणाभ्यांस्तुत्वातत:कुंडांतिकमागत्यदेशकालौस्मृत्वाप्रतिष्ठांगहोमंकरिष्येइतिसंकल्प्यान्वाधानंकुर्यात् ॥ चक्षुषीआज्येनेत्यंते स्थाप्यदेवंतन्मंत्रेणघृतपक्वचरुणादशाहुतिभि: अग्निंसोमंधन्वंतरिंकुहूंअनुमतिंप्रजापतिंपरमेष्ठिनंब्रह्माणं अग्निंसोमंअग्निमन्नादंअग्निमन्नपतिंप्रजापतिंविश्वान्देवान्सर्वान् देवान् प्रजापतिंअग्निंस्विष्टकृतं ॥ पूजांगहोमेविष्णु:स्थाप्यश्चेत् संकर्षणादिद्वादशदेवता: शार्ड्गिणंश्रियंसरस्वतींपुष्टिंविष्णुंचकृसरेणैकैकयाहुत्यानाममंत्रेण ॥ पुनर्विष्णुंविष्णोर्नुकमितिषण्मंत्रै:कृसरेण ॥ पुन:संकर्षणादि १२ देवता:कृसरेण ॥ स्थाप्य:शिवश्चेत् भवंशर्वंईशानंपशुपतिंरुद्रंउग्रंभीमंमहांतंदेवंप्रत्येकंकृसरेण भवस्यदेवस्यपत्न्याध्यष्टदेवता: गुडौदनेन ॥ भवस्यदेवस्यसुतमित्याध्यष्टौदेवता:हरिद्रौदनेन ॥ रुद्रंसप्तदशवारंमानोमहांतमित्यादिसप्तदशमंत्रै:प्रतिमंत्रंकृसरेण ॥ शिवंशंकरंसहमानंशितिकंठंकपर्दिनंताम्रंअरुणंअपगुरमाणंहिरण्यबाहुंसस्पिंजरंबभ्लुशंहिरण्यंप्रत्येकंकृसरेण ॥ शेषेणेत्वादिचक्षुषीआज्येनेत्यंतेस्थाप्यदेवंमूलेनकृसराहुती: १० अग्नयेस्वाहेत्यादिनामभि:सर्वेभ्योदेवेभ्य:स्वाहेति १५ ॥ अंते ॐ भूर्भव:स्व:स्वाहा १६ अग्नयेस्विष्टकृते० १७ ॥विष्णुश्चेत्संकर्षणादिदेवता: ॥ तत:पूर्णाहुतिं ॐ सप्ततेअ० ॐ पुनस्त्वादित्या० इति मंत्राभ्यांहुत्वा आचार्य: ॐ याओषधींपूर्वा० इतिदेवायपुष्पफलसर्वौषधी:समर्प्यसंपातोदकंताम्रपात्रेआदायदेवमंत्रेणशतवारमभिमंत्र्यतेनदेवशिरसिसिंचेत् ॥ तत: ॐ उत्तिष्ठब्रह्म० इतिदेवमुत्थाप्य ॐ विश्वतश्चक्षु० इत्युपतिष्ठेत ॥ ततो देवं ध्यात्वाजपेत् ॥ ॐ ब्रह्मणेनम: ॐ विष्णवे० ॐ रुद्राय० ॐ इंद्राय० ॐ अग्नये० ॐ यमाय० ॐ निऋतये० ॐ वरुणाय० ॐ वायवे० ॐ सोमाय० ॐ ईशानाय० ॐ वसुभ्यो० ॐ अश्विभ्यां० ॐ मरुभ्ध्यो० ॐ कुबेराय० ॐ गंगादिनदीभ्यो० ॐ अग्नीषोमाभ्यां० ॐ इंद्राग्निभ्यां० ॐ ध्यावापृथिवीभ्यां० ॐ धन्वंतरये० ॐ सर्वेशाय० ॐ विश्वेभ्योदेवेभ्यो० ॐ ब्रह्मणेनम:इति ॥त्तत:संपातवास्तुकलशजलेनसामात्यंयजमानमभिषिंचेत्सर्त्विगाचार्य: ॥ ततोदेवंध्यात्वा ॥ ॐ प्रतितिष्ठपरमेश्वरेतिपुष्पांजलिंनिवेध्य ॥सच्चिदानंदंब्रह्मैवभक्तानुग्रहायगृहीतविग्रहंकरचरणाध्यवयविनंशंखचक्राध्यायुधवंतं निजहृत्कमलेऽवस्थितसर्वलोकसाक्षिणमणीयांसंपरमेष्ठयसिपरमांश्रियंगमयेतिमंत्रेणपुष्पांजलावागतंविभाव्य अर्चायांविन्यस्यप्राणप्रतिष्ठांकुर्यात् ॥ अस्यश्रीप्राणप्रतिष्ठामंत्रस्यब्रह्मविष्णुरुद्राऋषय:ऋग्यजु:सामानिच्छंदांसि क्रियामयवपु: प्राणाख्यादेवता आंबीजं ह्रींशक्ति: क्रोंकीलकं प्राणप्रतिष्ठायांवि० ॥ब्रह्मविष्णुरुद्रऋषिभ्योनम:शिरसि ॥ ऋग्यजु:सामच्छंदोभ्योनमोमुखे ॥ प्राणाख्यदेवतायैनमोहृदि ॥ आंबीजायनमोगुह्ये ॥ क्रोंशक्त्यैनम: पादयो: ॥ ॐ अंकंखंगंघंडंपृथिव्यप्तेजोवाय्वाकाशात्मनेआंहृदयायनम: ॥ ॐ इंचंछंजंझंञंशब्दस्पर्शरुपरसगंधात्मनेईंशिरसेस्वाहा ॥ ॐ उंटंडंठंढंणंश्रोत्रत्वक् चक्षुर्जिव्हाघ्राणात्मनेऊंशिखायैवषट् ॥ ॐ एंतंथंदंधनंवाक्पाणिपादपायूपस्थात्मनेऐंकवचायहुं ॥ ॐ ओंपंफंबंभंमंवचनादानविहरणोत्सर्गानंदात्मनेऔंनेत्रत्रयायवौषट् ॥ ॐ अंयंरंलंवंशंषंसंहंळंक्षंमनोबुध्द्यहंकारचित्तविज्ञानात्मनेअ:अस्त्रायफट् ॥ एवमात्मनिदेवेचकृत्वादेवंस्पृष्ट्वाजपेत् ॥ ॐ आंह्रीक्रोंयंरंलंवंशंषंसंहंस:देवस्यप्राणाइहप्राणा: ॥ ॐ आंह्रींक्रों० हंस:देवस्यजीव इहस्थित: ॥ॐ आंह्रींक्रो० हंस:देवस्यसर्वेंद्रियाणि ॥ ॐ आंह्रीं० हंस:देवस्यवाड्मनश्चक्षु:श्रोत्रजिव्हाघ्राणप्राणाइहागत्यस्वस्तयेसुखेनसुचिरंतिष्ठंतुस्वाहा ॥ ततअर्चाहृध्यंगुष्ठंदत्त्वा ॥ ॐ अस्यैप्राणा:प्रतिष्ठंतुअस्यैप्राणा:क्षरंतुच ॥ अस्यैदेवत्वमर्चायैमामहेतिचकश्चन ॥ इतिजपेत् ॥ तत: ॐ इतिसंरुध्यसजीवंध्यात्वाध्रुवाध्यौरितितृचंजप्त्वादेवकर्णेदेवगायत्रींदेवमंत्रंचजप्त्वापुरुषसूक्तेनोपस्थायदेवस्यपादनाभिशिर:सुस्पृष्ट्वा ॐ इहैवैधिमा० इतिमंत्रंत्रिर्जपेत् ॥तत:कर्ता ॥ स्वागतंदेवदेवेशमद्भाग्यात्त्वमिहागत: ॥ प्राकृतंत्वमदृष्ट्वामांमातृवत्परिपालय ॥ धर्मार्थकामसिध्यर्थंस्थिरोभवशिवायन: ॥सान्निध्यंतुसदादेवस्वार्चायांपरिकल्पय ॥ यावच्चंद्रावनीसूर्यास्तिष्ठंत्यप्रतिघातिन: ॥ तावत्त्वयात्रदेवेशस्थेयंभक्तानुकंपया ॥ भगवन्देवदेवेशत्वंपितासर्वदेहिनां ॥ येनरुपेणभगवन् त्वयाव्याप्तंचराचरं ॥ तेनरुपेणदेवेशस्वार्चायांसन्निधोभव ॥ इतिनमेत् ॥ अथाचार्य:कर्तावालिंगंअर्चांवा ॐ भू:पुरुषमावाहयामि ॥ ॐ भुव:पुरुषमावाहयामि ॥ ॐ स्व:पुरुषमावाहयामि ॥ ॐ भूर्भव:स्व:पुरुषमावाहयामि ॥ ॐ मित्यासनंदत्त्वा तेनैवदूर्वाश्यामाकविष्णुक्रांतापद्ममिश्रंपाध्यं ॥ॐ इमाआप:शिवतमा:पूता:पूततमामेध्यामेध्यतमाअमृताअमृतरसा:पाध्यास्ताजुषतांप्रतिगृह्णातुभगवान् महाविष्णुर्विष्णवेनमइतिपाध्यं ॥ भगवान् महादेवोरुद्रायनमइतिरुद्रे ॥ एवंदेवतांतरेषूह्यं ॥ ॐ इमाआप:शिवतमा० अर्घ्यास्ताजुषतांप्रति० ॥ ॐ इमाआप:० आचमनीयास्ताजुषतांप्रति० पंचामृतै:स्नानं ॥ देवमंत्रै:संस्नाप्य ॥ इदंविष्णुरितिविष्णौ नमोअस्तुनीलग्रीवायेतिलिंगेकंकणंविसृज्यवस्त्रंयज्ञोपवीतंचदत्त्वा ॐ इमेगंधा:शुभादिव्या:सर्वगंधैरलंकृता: ॥ पूताब्रह्मपवित्रेणपूता:सूर्यस्यरश्मिभि: ॥ इतिगंधा: ॥ ॐ इमेमाल्या:शुभादिव्या:सर्वमाल्यैरलंकृता: ॥ पूताब्र० ॥ इतिमाला० ॥ ॐ इमेपुष्पा० इतिपुष्पं ॥ वनस्पतिरितिधूपं ॥ ज्योति:शुक्रंचतेजश्चदेवानांसततंप्रियं ॥ प्रभाकरस्तुभूतानांदीपोऽयंप्रतिगृह्यतां ॥ इतिदीपं ॥ विष्णौसंकर्षणादिद्वादशनामभि: पुष्पाणिसमर्प्य तैरेवतर्पणंकृत्वापायसगुडौदनचित्रौदनचित्रौदनानिपवित्रंतेविततमितिनिवेध्यसंकर्षणादिद्वाद्शनामाभिर्गृहसिध्दान्नकृसराहुतीर्हुत्वा ॥ कृसरेणैव ॐ शार्ड्गिणे श्रियै सरस्वत्यै पुष्ठयै विष्णवे ॐ विष्णोर्नुकं० ॐ तदस्यप्रिय० ॐ प्रतद्विष्णु: ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव:० इतिजुहुयात् ॥लिंगेतुदीपांतंकृत्वा भवायदेवाय० शर्वायदे० ईशानायदे० पशुपतयेदे० रुद्रायदे० उग्रायदे० भीमायदे० महतेदे० इतिपुष्पाणिदत्त्वातैरेवतर्पणंकृत्वा ॐ पवित्रंतेइतिपायसंगुडौदनंचनिवेध्यतैरेवनामभि:कृसरंजुहुयात् ॥ ततोभवस्यदेवस्यपत्न्यैइत्याध्यष्टभिर्गुडौदनंहुत्वा भवस्यदेवस्यसुतायइत्याध्यष्टभिर्हरिद्रौदनंहुत्वा ॐ त्र्यंबकं० ॐ मानोमहांत० ॐ मानस्तोके० ॐ आरात्तेगोघ्न० ॐ विकिरिद० ॐ सहस्त्राणिसहस्रधाबाहु० ॐ सहस्त्राणिसहस्त्रशो० इत्यादिभिऋग्भि:कृसरंहुत्वा ॐ शिवाय शंकराय सहमानाय शितिकंठाय कपर्दिने ताम्राय अरुणाय अपगुरमाणाय हिरण्यबाहवे सस्पिंजराय बभ्लुशाय हिरण्याय इतिचकृसरंहुत्वा ॥ स्विष्टकृदादिहोमशेषंसमाप्यपूर्वोक्तसर्वहविर्भिर्विष्णवेलिंगायवाबलिंदध्यात् ॥ मंत्रस्तु ॥त्वामेकमाध्यंपुरुषंपुरातनंनारायणंविश्वसृजंयजामहे ॥ त्वमेवयज्ञोविहितोविधेयस्त्वमात्पनात्मन्प्रतिगृह्णीष्वहव्यं ॥ लिंगेतुनारायणपदेरुद्रंशिवमित्यूह: ॥ ततोऽश्वत्थपर्णे ॥ ॐ भूर्भूव:स्वरोमितिहुतशेषंनिधाय अग्निसहितंदेवंचतुर्वारंप्रदक्षिणीकृत्य ॐ विश्वभुजेनम: ॐ आत्मने० इतिनत्वास्थापितदेवतानामुत्तरपूजांविधायाचार्यायगांदत्त्वाऋत्विग्भ्योदक्षिणांदत्त्वा स्थापितदेवतापीठमाचार्यहस्तेप्रतिपाध्यशतंद्वादशयथाशक्तिवाविप्रान् परमान्नेनभोजयेदिति ॥ इतिप्रतिष्ठेंदौनिर्णयसिंधूक्त:सर्वदेवचलार्चाप्रयोग: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP