संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथवास्तुमंडलदेवता: व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथवास्तुमंडलदेवता: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथवास्तुमंडलदेवता: Translation - भाषांतर तत्रमंडलेप्रणवाध्यैश्चतुर्थ्यंतैर्नमोंऽतैर्वक्ष्यमाणनामाभिर्देवताआवाह्यस्थापयेत् ॥तत्रैशानकोणपदेवास्तो:शिरसि ॐ शिखियेनम: शिखिनमावाहयामीत्येवंसर्वत्र १ तद्दक्षिणैकपदेदक्षिणनेत्रे ॐ पर्जन्यायन० २ तद्दक्षिणेततोपिपश्चिमतइतिपदद्वयेदक्षिणश्रोत्रे ॐ जयंतायन० ३ तद्दक्षिणपदद्वयेदक्षिणांसे ॐ कुलिशायुधाय० ४ तद्दक्षिणपदद्वयेदक्षिणबाहौ ॐ सूर्याय० ५ तद्दक्षिणपदद्वयेदक्षिणबाहौ ॐ सत्याय० ६ तद्दक्षिणपदद्वयेदक्षिणकर्पूरे ॐ भृशाय० ७ तद्दक्षिणेअंसपंक्तिगतैकपदेदक्षिणप्रबाहौ ॐ आकाशायन० ८ आग्नेयकोणपदेदक्षिणप्रबाहौ ॐ वायवेन० ९ तत्पश्चिमैकपदेदक्षिणमणिबंधे ॐ पूष्णेन० पूषणमावा० १० तत्पश्चिमेततोप्युत्तरइतिपदद्वयेदक्षिणपार्श्वे ॐ वितथाय० ११ तत्पश्चिमपदद्वयेदक्षिणपार्श्वेएव ॐ गृहक्षताय० १२ तत्पश्चिमपदद्वयेदक्षिणोरौ ॐ यमाय० १३ तत्पश्चिमपदद्वयेदक्षिणजानौ ॐ गंधर्वाय० १४ तत्पश्चिमपदद्वयेदक्षिणजंघायां ॐ भृंगराजाय० १५ तत्पश्चिमेबाह्यपंक्तिगतैकपदेदक्षिणस्फिचि ॐ मृगाय० १६ नैऋतकोनपदैकपदेपादयो: ॐ पितृभ्यो० १७ तदुत्तरैकपदेवामस्फिचि ॐ दौवारिकाय० १८ तदुत्तरैकपदेततोपिप्रागितिपदद्वयेवामजंघायां ॐ सुग्रीवाय० १९ तदुत्तरपदद्वयेवामजानौ ॐ पुष्पदंताय० २० तदुत्तरपदद्वयेवामोरौ ॐ जलाधिपाय० २१ तदुत्तरपदद्वयेवामपार्श्वे ॐ असुराय० २२ तदुत्तरपदद्वयेवामपार्श्वेएव ॐ शोषाय० २३ तदुत्तरेबाह्यपंक्तिगतैकपदेवाममणिबंधे ॐ पापाय० २४ वायव्यकोणपदेवामप्रवाहौ ॐ रोगाय० २५ तत्प्रागेकपदेवामप्रवाहौ ॐ अहये० २६ तत्प्राक्ततोपिदक्षिणेचेतिपदद्वयेवामकर्पूरे ॐ मुख्याय० २७ तत्प्राक् पदद्वयेवामबाहौ ॐ भल्लाटाय० २८ तत्प्राक् पदद्वयेवामबाहौ ॐ सोमाय० २९ तत्प्राक्पदद्वयेवामांस ॐ सर्पाय० ३० तत्प्राक् पदद्वयेवामश्रोत्रे ॐ अदितयेन० ३१ तत्प्राग् बाह्यपंक्तिगतैकपदेवामनेत्रे ॐ दितयेन० ३२ तद्दक्षिणेईशानकोणपदाध:कोणपदेमुखे ॐ आपाय० ३३ आग्नेयकोणपदादध:कोणपदेदक्षिणहस्ते ॐ सावित्राय० ३४ नैऋत्यपदाध:कोणपदेमेढ्रे ॐ जयाय० ३५ वायव्यकोणाध:कोनपदेवामहस्ते ॐ रुद्राय० ३६ मध्यगतनवकोष्ठब्रह्मपदसंलग्नप्रागादिपदत्रयेदक्षिणस्तने ॐ अर्यम्णे० अर्यमणमावा० ३७ तद्दक्षिणैकपदेदक्षिणहस्ते ॐ सवित्रेन० ३८तत्पश्चिमेब्रह्मसंलग्नपदत्रयेजठरवामभागे ॐ विवस्वतेन० विवस्वंतमा० ३९ तत्पश्चिमैकपदेवृषणयो: ॐ विबुधाधिपाय० ४० तदुत्तरब्रह्मसंलग्नपदत्रयेजठरवामभागे ॐ मित्राय ४१ तदुत्तरैकपदेवामहस्ते ॐ राजयक्ष्मणे० राजयक्ष्माणमा० ४२ तत्प्राक्पदत्रयेवामस्तने ॐ पृथ्वीधरायन० ४३ तत्प्रागेकपदेउरसि ॐ आपवत्साय० ४४ ततोमध्यनवपदेषुहृन्नाभ्यो: ॐ ब्रह्मणेन० ४५ ॥तदुत्तरे वास्तोष्पतेमैत्रावरुणिर्वसिष्ठोवास्तोष्पतिस्त्रिष्टुप् वृषवास्तुप्रतिष्ठापनेविनियोग: ॐ वास्तोष्पतेप्रतिजानी० इतिसुवर्णादिप्रतिमामग्न्युत्तारणपूर्वकंसंस्थाप्य ४६ मंडलाब्दहिरीशानादिकोणचतुष्टये ॐ चरक्यै० ४७ ॐ विदार्यै० ४८ ॐ पूतनायैन० ४९ ॐ पापराक्षस्यैन० ५० तत:पूर्वोदिचतुर्दिक्षु ॐ स्कंदायन० ५१ ॐ अर्यम्णेनम: ५२ ॐ जृंभकायन० ५३ ॐ पिलिपिच्छायन० ५४ तत:पूर्वाध्यष्टदिक्षुतत्तन्मंत्रैर्नामभिर्वा ॐ इंद्रायन० ५५ ॐ अग्नयेन० ५६ ॐ यमायन० ५७ ॐ निऋतयेन० ५८ ॐ वरुणायन० ५९ ॐ वायवेन० ६० ॐ कुबेरायन० ६१ ॐ ईशानाय० ६२ इत्यावाह्य वास्तुपीठदेवताभ्योनम इतिसंपूज्यमंडलादीशान्यांकलशंसंस्थाप्यतत्रवरुणायनमइतिवरुणंसंपूज्याग्निसमीपमेत्याऽन्वाधानंकुर्यात् अस्मिन्वास्तुशांतिकर्मण्यन्वाधानंकरिष्ये ॥ अस्मिनन्वाहितेऽग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वाऽत्रप्रधानं ॥ आदित्यादिनवग्रहान् प्रत्येकंप्रतिद्रव्यं अष्टाविंशत्यष्टाविंशतिसंख्याकाभि:समित्तिलाज्याहुतिभि: ॥ अधिदेवता:प्रत्यधिदेवताश्चतैरेवद्रव्यै:प्रत्येकंप्रतिद्रव्यंअष्टाष्टसंख्याकाभि: ॥ क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चचतुश्चतु:संख्याकाभि:तैरेवद्रव्यै: ॥ शिख्यादिपंचचत्वारिंशद्देवता:प्रत्येकंप्रतिद्रव्यंअष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्याकाभि:औदुंबरसमित् १ तिल २ (यव) पायस ३ आज्या ४ हुतिभि: ॥ वास्तुंवास्तोष्पतइतिचतसृभिऋग्भि:प्रतिद्रव्यं १०८ वा २८ वा ८ संख्याहुतिभि:पूर्वोक्तद्रव्यै: ॥ पुनर्वास्तुंवास्तोष्पत इतिचतसृभि:वास्तोष्पतेध्रुवास्थूणामित्यनयाचक्रमेणप्रत्यृचंपंचैकान्यतरसंख्याकाभि:पंचबिल्वफलाहुतिभिस्तद्वीजाहुतिभिर्वा ॥ चरक्यादीनष्टौप्रत्येकं प्रतिद्रव्यंअष्टाभि:चतसृभिर्वासमित्तिलपायसाज्याहुतिभिर्यक्ष्ये ॥ शेषेणेत्यादिप्रणीताप्रणयनांतेशिख्यादिदेवताभ्य:प्रत्येकममुष्मैत्वेतिनिर्वापप्रोक्षणपूर्वकमाज्यभागांतेयजमान:इदंउपकल्पितमन्वाधानोक्तद्रव्यजातमन्वाधानोक्ताहुतिसंख्यापर्याप्तमन्वाधानोक्ताभ्योदेवताभ्योनममेत्युक्त्वोसृजेत् ॥ ततआचार्यादयोग्रहहोमंकृत्वा उदुंबरसमित् १ तिल २ पायस ३ आज्य ४ द्रव्यै: शिख्यादिपंचचत्वारिंशद्देवताभ्योनाममंत्रै:प्रत्येकमष्टाविंशत्यष्टाष्टसंख्याकाभिराहुतिभिर्वाहुत्वा वास्तवेवास्तोष्पत इतिचतसृभि:क्रमेणउदुंबरसमित्तिलपायसाज्यनिजुहुयात् ॥पुनर्वास्तवेवास्तोष्पत इतिचतसृभिर्वास्तोष्पतेध्रुवेत्यनयाचप्रत्यृचंपंचएकैकंवाघृताक्तंबिल्वंजुहुयात् ॥ वास्तोष्पत इतिचतसृणांवसिष्ठोवास्तोष्पतिस्त्रिष्टुबंत्यागायत्री ॥ वास्तोष्पतेध्रुवास्थूणामितीरिंबिठिर्वास्तोष्पतिर्बृहती ॥ होमेविनियोग: ॥ ततश्चरक्यादिभ्योन्वाधानोक्तमुख्यन्यूनसंख्ययासमिदादिद्रव्याणिजुहुयात् ॥ इंद्रादीनांहोम:कृताकृत: तत:स्विष्टकृदादिप्रायश्चित्तहोमांते लोकपालेभ्योग्रहपीठदेवताभ्य:क्षेत्रपालायचबलिंदत्त्वापूर्णाहुतिंजुहुयात् ॥ मूर्धानंभरद्वाजोवैश्वानरस्त्रिष्टुप् पूर्णाहुतौवि० ॥ ॐ मूर्धानं देवा:स्वाहा वैश्वानरायेदं० ॥ तत:प्रणीतानिनयनादिकर्मशेषंसमाप्यवास्तुमंडलपश्चिमदेशे ॐ शिखिनेनम; एषपायसबलिर्नममेतिप्रत्येकंपायबलीन्दत्त्वाचरक्यादिभ्यस्तथैवमाषभक्तबलीन्दध्यात् ॥ततआचार्यादय:समुद्रज्येष्ठाइत्यादिमंत्रै:सुरास्त्वामित्यादिभिश्चमंत्रै:सपत्नीकंयजमानंशांतिकलशोदकेनाभिषिच्यसर्वौषधीभिरनुलिप्यस्नापयेयु: ॥तत:यजमानआचार्योवागृहंप्रागादितस्त्रिसूत्र्याराक्षोघ्नपावमानमंत्रै: सतूर्यमंगलघोषंवेष्टयित्वा समंताद्दुग्धपूर्णयाजलपूर्णयाचसस्तन्कुंभ्यातथैवसूक्तद्वयेनधाराद्वयमविच्छिन्नंकुर्यात् ॥ कृणुष्वेतिपंचदशर्चंरक्षोहणंवाजिनम्तिपंचविंशर्चंवाराक्षोघ्नं ॥ स्वादिष्ठयेतिदशर्चंपावमानं ॥ ततोमध्यनवपदेब्रह्मस्थानेसुरुपांस्त्रीरुपांपृथ्वींध्यात्वा ॐ पृथिव्यैनम: इतिसंपूज्य ॥सर्वदेवमयंवास्तुवास्तुदेवमयंपरंइतिपठित्वा ॥ गृहस्याग्नेयकोणेआकाशपदे यजमानपदेनजानुमात्रंगर्तंखात्वामध्येगोमयेनोपलिप्यशुभ्रचंदनपुष्पाक्षतैरलंकृत्यसरधान्यबीजानिदध्योदनंचक्षिप्त्वानवंजलपूर्णंकलशंशुक्लैकपुष्पयुतंगंधाध्यचिंतमादायजानुभ्यामवनिंगत्वातज्जलंगर्ते ॐ नमोवरूणायेतिमंत्रेणक्षिपेत् ॥ जलेप्रदक्षिणावर्तेपुष्पेचोर्ध्वमुखेशुभम् ॥ तत:पक्वमृत्पेटिकायांशाल्यादिसप्तधान्यबीजानि यव १ व्रीहि २ माष ३ तिल ४ कंगु ५ श्यामाक ६ मुद्गाख्यानि ७ दध्योदनंशैवालंफलपुष्पाणिचक्षिप्त्वातूर्यघोषेणपूर्वस्थापितवृषवास्तुप्रतिमामानीयपेटिकायांसंस्थाप्यगंधादिभि:संपूज्यप्रार्थयेत् ॥ पूजितोऽसिमयावास्तोहोमाध्यैरर्चनै:शुभै: ॥ प्रसीदपाहिविश्वेशदेहिमेगृहजंसुखं ॥ वास्तुमूर्तेनमस्तेऽस्तुभूशय्याभिरतप्रभो ॥ मद्गृहंधनधान्यादिसमृध्दंकुरुसर्वदेति ॥ ततोमृत्पेटिकांपिधायशनैर्गतेंसंस्थाप्य ॥ सशैलसागरांपृथ्वींयथावहसिमूर्धनि ॥ तथामांवहकल्याणसंपत्संततिभि:सह ॥ इतिसंप्रार्थ्यतयैवमृदागर्तंपूरयेत् ॥ मृदआधिक्येउत्तमंसाम्येमध्यमंन्यूनत्वेत्वधमंफलंविध्यात् ॥ गर्तोपरिभूमिंगोमयेनोपलिप्यशुक्लगंधपुष्पाक्षतैर्भूषयेत् ॥ ततोऽग्ने:पश्चिमतआचार्यंसंपूज्यतस्मैवासोयुगंगांचदत्त्वाब्रह्मऋत्विग्भ्योयथाशक्तिदक्षणांदत्त्वाग्रहाणाम्शिख्यादीनांचपूजांकृत्वाक्षमाप्य ॐ उत्तिष्ठब्र० यांतुदेवेतिचविसर्जनेकृतेतत्प्रतिमाध्याचार्यहस्तेप्रतिपाध्याग्निंसंपूज्यगच्छगच्छेतिविसृज्यब्राह्मणै:शांतिंपाठयित्वाग्रहशिख्यादिप्रीत्यर्थंप्रत्येकंत्रींस्रीनेकैकंवायथाशक्तिवाब्राह्मणान्संभोज्याशिषोगृहीत्वासुहृध्युतोभुंजीत ॥ इतिश्रीमन्नारायणभट्टसूरिसूनुभट्टरामकृष्णविरचित:पौराणवास्तुशां० ॥ N/A References : N/A Last Updated : August 22, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP