संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथरुद्रयंत्रंस्कांदोक्तम् व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथरुद्रयंत्रंस्कांदोक्तम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथरुद्रयंत्रंस्कांदोक्तम् Translation - भाषांतर श्री: ॥ प्रणम्यजगतामीशमुमादेहार्धधारिणं ॥ यंत्रोध्दारमहंवक्ष्येरुद्रकल्पानुसारत: ॥ मध्येवृत्तंसमालिख्यतन्मध्येचदशास्त्रकं ॥बहिरष्टदलंपद्मंतत:षोडशपत्रकं ॥ चतुर्विंशतिपत्राढयंद्वात्रिंशत्पत्रकंतथा ॥ चत्वारिंशत्पत्रकंतुवृत्तंसूर्यसमप्रभं ॥ पंचपद्मात्मकंवृत्तंचतुरस्त्रंचभूगृहं ॥ सत्त्वरंजस्तमइतित्रिगुणै:परितोवृतं ॥ चतुर्द्वारदेशेबहिर्नागसमावृतं ॥ रुद्रपीठमितिख्यातंदेवतास्तत्रविन्यसेत् ॥ चत्वारिंशच्छतंचैकंदेवतानामुदाहृतं ॥ कर्णिकामध्यदेशेतुरुद्रंपंचास्यमालिखेत् ॥ नमोभगवतेरुद्रायेतितारादिकंन्यसेत् ॥ सोयंदशाक्षरोमंत्र:सर्वकामार्थसिध्दिद: ॥ प्रणवादिनमोंतानिपंचास्यानितत:परं ॥ सध्योजातंवामदेवघोरंतदनंतरंततस्तत्पुरुषंप्रोक्तमीशानंपंचमंक्रमात् ॥ प्रधानमिदमाख्यातंप्रथमावरणेतत: ॥ दलेष्वष्टसुनंध्यादीन्पूर्वादिक्रमतोन्यसेत् ॥पूज्यपूजकयोर्मध्येप्राचीस्याध्यंत्रलेखने ॥ आदौनंदिमहाकालगणेशवृषभान्क्रमात् ॥अनंतरंभृंगिरिटीस्कंदोमाचंडसंज्ञकां: ॥ षोडशारेतत:पद्मेद्वितीयावरणेयजेत् ॥ अनंतंचतथासूक्ष्मंशिवंचैकपदंतथा ॥ एकरुद्रंत्रिमूर्तिंचश्रीकंठंवामदेवकं ॥ ज्येष्ठंश्रेष्ठंतथारुद्रंकालंकलविकरणं ॥ बलंबलविकरणंचबलप्रमथनंतथा ॥तृतीयावरणेपद्मेचतुर्विंशद्दलेतथा ॥ अणिमामहिमाचैवगरिमालघिमातथा ॥ वाराह्यैंद्रीचचामुंडाचंडिकाचेतिता:क्रमात् ॥ ततोष्टस्वसितांगादीन्भैरवान्विन्यसेत्पुन: ॥असितांगोरुरुश्चंड:क्रोधउन्मत्तभैरव: ॥ कालभीषणसंहारभैरवाश्चाष्टकीर्तिता: ॥ द्वात्रिंशत्पत्रकेपूर्वंभवाष्टकमुदाहृतं ॥ भव:शर्वश्चईशानस्तत:पशुपति:परं ॥ रुद्रश्चोग्रश्चभीमश्चमहांश्चैवतत:परं ॥ शेषोनंतोवासुकिश्चतक्षकश्चकुलीरक: ॥कर्कोटक:शंखपाल:कंबलाश्वतरस्तथा ॥ ततोष्टसुन्यसेद्वैन्यंपृथुंहैहयमर्जुनं ॥ शाकुंतलेयंभरतंनलंराममितिक्रमात् ॥ तत:कुलाचलानष्टौदलेष्वष्टसुविन्यसेत् ॥हिमवान्निषधोविंध्योमाल्यवान्पारियात्रक: ॥ मलयोहेमकूटश्चगंधमादनसंज्ञक: ॥चत्वार्यावरणान्येवंपंचमावरणंतत: ॥ चत्वारिंशद्दलेपद्मेपंचमावरणेन्यसेत् ॥इंद्राध्यष्टौलोकपालानष्टसुक्रमतोलिखेत् ॥ इंद्रमग्निंयमंचैवनिऋतिंवरुणंतथा ॥वायुंकुबेरमीशानंदलेष्वष्टसुविन्यसेत् ॥ इंद्रादिलोकपालानामष्टौशक्तीस्ततोन्यसेत् ॥ऐरावतंतथामेषंमहिषंश्वेतसंज्ञकं ॥ मकरंचमृगंचैवनरंचवृषभंतथा ॥ ऐरावतादयोप्यष्टदिग्गजास्तदनंतरं ॥ ऐरावत:पुंडरीकोवामन:कुमुदोंजन: ॥ पुष्पदंत:सार्वभौम:सुप्रतीकश्चदिग्गजा: ॥ भूगृहांत:पुनर्लेख्या:पंचपद्मात्मकाब्दहि: ॥इंद्रंविन्यस्यपूर्वस्यामाग्नेय्यामग्निमेवच ॥ दक्षिणस्यांयमंचैवनैऋत्यानिऋतिंतथा ॥प्रतीच्यांवरुणंवायुंवायव्यांविन्यसेत्तत: ॥ कुबेरंचैवकौवेर्यामीशान्यामीशमालिखेत् ॥विरुपाक्षंतुविन्यस्येदाग्नेय्यामग्नियोगत: ॥ प्रागादिक्रमतोलेख्या:शेषाध्याभूगृहाब्दहि: ॥विप्रवर्णंश्वेतरुपंसहस्त्रफणमंडितं ॥ शेषंविन्यस्यपूर्वस्यांपूजयेदुपचारकै: ॥ तक्षकंवैश्यवर्णंचनीलंपंचशतै:फणै: ॥ युक्तमुत्तुंगकायंचआग्नेय्यांदिशिविन्यसेत् ॥अनंतंविप्रवर्णंचतथाकुंकुमवर्णकं ॥ सहस्त्रफणसंयुक्तंदक्षिणस्यांप्रपूजयेत् ॥वासुकिंक्षत्रियंपेतवर्णंसप्तशतै:फणै: ॥ युक्तमुत्तुंगकायंचनैऋत्यांदिशिविन्यसेत् ॥शंखपालंक्षत्रियंचपीतंसप्तशतै:फणै: ॥ युक्तमावाह्यवारुण्यांपूजयेद्गंधधूपकै: ॥महापद्मंवैश्यवर्णंयुक्तंपंचशतै:फणै: ॥ युक्तमुत्तुंगकायंचवायव्यांदिशिपूजयेत् ॥कंबलंशूद्रवर्णंचकृष्णंत्रिंशत्फणैर्युतं ॥ कौबेर्यांदिशिविन्यस्यपूजयेच्चविधानत: ॥ कर्कोटकंशूद्रवर्णंश्वेतंत्रिंशत्फणैर्युतं ॥ ईशान्यांदिशिविन्यस्यपूजयेद्विधिवत्तत: ॥रुद्रपीठमिदंसर्वरुद्रकल्पेषुविश्रुतं ॥ शंभुनास्वयमाख्यातंभक्तानुग्रहकाम्यया ॥कुंकुमागरुकर्पूरैर्भूर्जपत्रेऽथवापटे ॥ लिखितंपूजयेभ्दक्त्यासर्वकामार्थसिध्दये ॥ यंत्रंमंत्रमयंप्रोक्तमाख्यातादेवतेतिच ॥ पूजनीयंप्रयत्नेनतेनेदंदेवतामयं ॥ अग्निचोरभयंतत्रनचराजभयंक्वचित् ॥ यत्रेदंलिखितंयंत्रंपूज्यतेविधिवत्सदा ॥ इतिस्कंदपुराणेरुद्रयंत्रं ॥ तध्यथा ॥ कर्णिकायां ॐ नमोभगवतेरुद्रायेतिदशाक्षर: ॥तत:प्रथमकोष्ठएवप्रागादिक्रमेणमध्येच ॐ सध्योजातायनम: वामदेवाय अघोराय तत्पुरुषाय ईशानाय ५ ॥तत:प्रागादिक्रमेणनंदी महाकाल: गणेश्वर: वृषभ: भृंगिरिटि: स्कंद: उमा चंडीश्वर: ८ इतिप्रथमावरणं ॥ अनंत: सूक्ष्म: शिव: एकपात् एकरुद्र: त्रिमूर्ति: श्रीकंठ: वामदेव: ज्येष्ठ: श्रेष्ठ: रुद्र: काल: कलविकरण: बलविकरण: बल: बलप्रमथन: १६ इतिद्वितीय: ॥ अणिमा महिमा लघिमा गरिमा प्राप्ति: प्राकाम्यं ईशिता वशिता ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही ऐंद्री चामुंडा चंडिका असितांगभैरव: रुरुभैरव: चंडभैरव: क्रोधभैरव: उन्मत्तभैरव: कपालभैरव: भीषणभैरव: संहारभैरव: २४ इति तृतीयावरणं ॥भव: शर्व: ईशान: पशुपति: रुद्र: उग्र: भीम: महान् शेष: अनंत: वासुकि: तक्षक: कुलीर: कर्कोटक: शंखपाल: कंबलाश्वतर: वैन्य: पृथु: हैहय: अर्जुन: शाकुंतलेय: भरत: नल: राम: हिमवान् निषध: विंध्य: माल्यवान् पारियात्रक: मलय: हेमकूट: गंधमादन: ३२ इतिचतुर्थ: ॥इंद्र: अग्नि: यम: निऋति: वरुण: वायु: कुबेर: ईशान: शची स्वाहा वाराही खड्गिनी वारुणी वायवी कौवेरी ईशानी वज्रं शक्ति: दंड: खड्ग: पाश: अंकुश: गदा त्रिशूल: ऐरावत: मेष: महिष: प्रेत: मकर: हरिण: नर: वृषभ: ऐरावत: पुंडरीक: वामन: कुमुद: अंजन: पुष्पदंत: सार्वभौम: सुप्रतीक: ४० इतिपंचम: ॥एवंपंचपद्मानिकृत्वा बहिश्चतुष्कोणंभूगृहं ॥ तत्रपूर्वेइंद्र: आग्नेय्यामग्नि:विरुपाक्षश्च दक्षिणे यम: नैऋत्यांनैऋति:विश्वरुपश्च पश्चिमेवरुण: वायव्यांवायु:पशुपतिश्च उत्तरेकुबेर: ईशान्यामीशान:ऊर्ध्वलिंगंच ॥ ततो भूगृहाब्दहि: पूर्वेविप्रवर्णंश्वेतंसहस्त्रफणंशेषंपूजयेत् ॥ वैश्यवर्णंनीलंपंचशतफणभूषितंतक्षकंआग्नेय्यां ॥विप्रवर्णंकुंकुमाभंसहस्त्रफणमनंतंदक्षिणे ॥ क्षत्रियवर्णंपीतंसप्तशतफणयुतंवासुकिंनैऋत्यां ॥ क्षत्रियवर्णंपीतंसप्तशतफणयुतंशंखपालंपश्चिमे ॥ वैश्यवर्णंनीलंपंचशतफणयुतंमहापद्मंवायव्यां ॥शूद्रवर्णंकृष्णंत्रिंशत्फणयुतंकंबलमुत्तरे ॥ शूद्रवर्णंश्वेतंत्रिंशत्फणयुतंकर्कोटकमीशान्यां ॥एतादेवता:प्रणवादिनमोऽन्तैर्नामभिरावाह्यपूज्या: ॥ इतिस्कांदानुसारेणरुद्रपीठदेवता: ॥ततोरुद्रपीठादीशानदिग्भागेनपूर्ववत्कलशंसंस्थाप्यरुद्रजपार्थत्वेनब्राह्मणंवृणुयात् ॥ततआचार्योग्निसमीपमेत्याग्ने:पश्चिमतउपविश्यद्वेतिस्त्रोवासमिधआदायान्वाधानंकुर्यात् ॥ तत्रास्मिन् रुद्रहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा सग्रहपक्षेग्रहानमुकसंख्याभिरर्कादिसमिभ्दि:चरुपक्षेऽमुकसंख्याभिश्चर्वाहुतिभि:कृतस्यजपस्यदशांशेनामुकद्रव्येणेत्युक्त्वारुद्रपीठेदेवताएकैकाज्याहुत्याशेषेणस्विष्टकृतमित्यादियक्ष्यइत्यंतमुक्त्वा ॥व्याहृतिभि:समिधौसमिधोवाजुहुयात् ॥ द्रव्याण्याहुतिसंख्यामंत्रविभागाश्चवक्ष्यंते ॥ तत:परिसमुह्यपरिस्तरणंकुर्यात् तच्चद्वितीयमेखलायांपश्चिमेचयोनिनिरंध्रेकार्यं ॥शाखांतरीयाणांपरिधिपरिधानमप्यत्रैव ॥ तत:पर्युक्षणादिप्रणीतापूरणांतेकृतेआचार्योब्रह्माणंपूर्ववृतमेवासनेदक्षिणतउपवेशयेत् पूर्वंयजमानवृतस्यैब्रह्मण:पुनर्वरणस्यवैयर्थ्यात् ॥तत:प्रणीताप्रणयनांतेकृतेआचार्योब्रह्माणंपूर्ववृतमेवासनेदक्षिणतउपवेशयेत् पूर्वंयजमानवृतस्यैवब्रह्मण:पुनर्वरणस्यैयर्थ्यात् ॥ तत:प्रणीताप्रणयनांतेकृतेग्रहाणांचरुपक्षेतूष्णींनिर्वापादिचरुश्रपणेकृतेआज्यसंस्कारेचरुणातिलादिद्रव्येणचसहाज्यंपर्यग्निकृत्वाज्यासादनाध्याज्यभागांतंकुर्यात् ॥ ततोयजमानोग्नेर्द्क्षिणतोब्रह्मण:पश्चिमतउपविश्यसावधानउद्देशत्यागौकुर्यात् ॥ तत्रस्वयमेवचेध्दोमंकरोतितदाप्रत्याहुतिसूर्यायेदंनममेत्यादितत्तद्देवतताभ्यस्त्यागंकुर्यात् ॥ नोत्सृजेदिति श्रध्दावत्कर्तृत्वात् ॥ यदाऋत्विज:प्रतिनिधयोवाहोमंकुर्युस्तदायजमान आज्यभागानंतरंयक्ष्यमाणा:सर्वादेवताउद्दिश्यहोष्यमाणानिचसर्वाणिद्रव्याणिनिर्दिश्यएताभ्योदेवताभ्यइदंद्रव्यमहमुत्सृजामिइतित्यजेत् ॥बह्वृत्विगादिकर्तृकेहोमेप्रत्याहुतित्यागस्यकर्तुमशक्त्यत्वात् त्यागपूर्वकत्वाच्चहोमस्य ॥सर्वहोमानंतरंत्यागस्यायुक्तत्वादिदानीमेवत्याग:कार्यइतिष्टा: ॥ ततआचार्यादय:सावधानायजमानाभीष्टसिध्दिंप्रार्थयंतोहोमंकुयुं: ॥ N/A References : N/A Last Updated : August 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP