संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्| अथवटोध्यापनम् व्रतोदयानादिमिश्रप्रकरणम् अथव्रतोध्यापनहोम: अथशुक्लैकादशीव्रतोध्यापनम् अथकृष्णैकादश्युध्यापनम् अथहरितालिकाव्रतम् अथपरशुरामजयंतीव्रतम् अथसंकष्टचतुर्थीव्रतम् अथशुक्लचतुर्थ्यांविनायकव्रतम् अथऋषिपंचमीव्रतम् अथोपांगललिताव्रतम् अथमुक्ताभरणसप्तमीव्रतम् अथजन्माष्टमीव्रतम् अथरामनवमीव्रतम् अथरामनामलेखनव्रतम् अथादुःखनवमीव्रतम् अथगोपद्मव्रतम् अथश्रवणद्वादशीव्रतम् अथप्रदोषव्रतम् अथानंतचतुर्दशीव्रतम् अथवैकुंठचतुर्दशीव्रतम् अथशिवरात्रिव्रतम् अथवटसावित्रीव्रतम् अथकोजागरव्रतम् अथसोमवत्यमावास्याव्रतम् अथपिठोरिव्रतम् अथसूर्यव्रतम् अथाशादित्यव्रतम् अथसोमवारव्रतम् अथशिवमुष्टिव्रतम् अथमंगलागौरीव्रतम् अथभौमवारव्रतम् अथशनैश्वरव्रतम् अथशिवलक्षपूजाव्रतम् अथविष्णुलक्षपूजाव्रतम् अथलक्षप्रदक्षिणाव्रतम् अथलक्षवर्तिव्रतम् अथरुद्रलक्षवर्तिव्रतम् अथकदलीव्रतोध्यापनम् अथकर्कटीव्रतम् अथकूष्मांडीव्रतम् अथकूष्मांडाष्टकफलदानम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथ दशहरास्त्रोत्रंस्कांदे अथमलमासव्रतम् अथदशहराव्रतविधि: अथार्धोदयव्रतम् अथसमुद्रस्नानविधि: अथपार्थिवलिंगोध्यापनम् अथपार्थिवशिवपूजा अथप्रबोधोत्सवतुलसीविवाहौ अथतुलसीविवाह: अश्वत्थोध्यापनंशौनकीयम् अश्वत्थोपनयनम् अथाश्वत्थविवाह: अथयूप्रकार: अश्वत्थोध्यापनंबौधायनीयं (पंचकुंडी) अथवटोध्यापनम् अथवास्तुशांतिप्रयोग: अथवास्तुमंडलदेवता: अथगृहप्रवेश अथपंचकुंडीमंडपप्रकार: अथसंकल्प:ऋत्विग्वरणंच अथमंडपपूजाचंडेश्वरोक्ता अथशांतिहोम: देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष: पंचकुंडीपक्षेऽन्वाधानादि अथपंचकुंडीहोममंत्रद्वारपालजपक्रम: अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् अथ प्रासाददेवस्थिरप्रतिष्ठाप्रयोग: अथ जलाधिवास: अथाग्न्युत्तारणसूक्तम् प्रासादादिवास्तुप्रकार: अथकुंडसंस्कारादि अथदेवस्थापनदिनकृत्यं अथप्राणप्रतिष्ठा षोडशतत्त्वन्यासास्तध्दोमश्चमुख्यकुंडप्रधानहोमोत्तरंवासुदेव्यामुक्त:सयथा अथचलार्चाप्रयोग: अथएकाध्वरचलप्रतिष्ठा अथजीर्णोध्दारेअघोरहोम: अथप्रासादप्रतिमयोर्जीणोध्दार: अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि: अथप्रोक्षणविधि: अथवापीकूपतडागाध्युत्सर्ग: अथकूपतडागादौमृतदोषशांति: अथकाम्यवृषोत्सर्ग: अथरुद्रपध्दति: अथरुद्रजपादौन्यासविधि: अथरुद्रस्यऋषिदैवतच्छंदांसि अथमंडपकुंडस्थंडिलादिप्रमाणं अथरुद्रप्रयोग: अथरुद्रयंत्रंस्कांदोक्तम् अथहविर्द्रव्याणांनियम: अथरुद्रहोमेद्रव्यंमंत्रविभागश्च अथतृचाकल्पपध्दति: अथोदकशांतिप्रयोग: अथापामार्जनम् अथशीतलाष्टकस्तोत्रम् अथनवचंडीशतचंडीसहस्त्रचंडीप्रयोग: अथगोप्रदानप्रयोग: अथवृषभदानप्रयोग: अथमहिषीदानप्रयोग: अथमेषदाननप्रयोग: अथग्रहणशांति: अथग्रहणेदानादि अथग्रहणेपुरश्चरणविधि: अथगायत्रीपुरश्चरणप्रयोग: अथगणपत्यथर्वशीर्षपुरश्चरणं गणपत्यथर्वशीर्षहवनविधि: अथज्वरशांतिप्रयोग: अथमृत्युंजयजपविधि: अथसर्वरोगनाशकानि अथाच्युतानंतगोविंदनामजप: अथषड्ग्रहादियोगशांति: अथसर्वाद्भुतशांति: अथजनमारशांति: अथदीपपतनशांति: अथपल्लीसरठशांति: अथकाकमैथुनदर्शनादिशांति: प्रपौत्रमुखदर्शनविधि: अथ जलाधिवास:अथशष्टितमाब्देउग्ररथशांति: अथरोगोत्पत्तौनक्षत्रफलं अथसर्वनक्षत्रसाधारण:शांतिप्रयोग: अथद्वादशाब्दोत्तरमवलोकनविधि: अथजीवतोमृतिवार्ताश्रवणेविधानम् अथकृतौर्ध्वदेहिकस्यसंग्रहविधि: व्रतोदयान - अथवटोध्यापनम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथवटोध्यापनम् Translation - भाषांतर श्री: ॥ तिथ्यादिसंकीर्त्यआत्मन:सकलपापक्षयकुलकोटिसमुध्दरणैहिकामुष्मिकनिरवधिसुखप्राप्तिपूर्वकब्रह्मपदप्राप्तिकामोवटोध्यापनंतथाभीष्टदातृत्वसिध्द्यर्थंसर्वप्राणिसुखनिवासार्थंचवटसंस्कारंकरिष्येइतिसंकल्प्य ॥ तदंगविहितंगणपतिपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्ये ॥स्वगृह्याविधिनातानिकृत्वाऽऽचार्यादीन्वृणुयात् ॥ तत:सर्त्विग्यजमान: पूर्णकलशहस्त: मंगलवाध्यतूर्यघोषेणसहशाकुनसूक्तंपठन् वटमंडपप्रादक्षिण्येनपश्चिमद्वारमागत्यतत्रस्योनापृथिविमहीध्यौरितिमंत्राभ्यांधरांसंपूज्यार्घ्यंदत्त्वामंडपंप्रविश्यवटसमीपेकलशंनिधायवरुणनिऋतिमध्येउपविशेत् ॥ ततआचार्य:कर्मसंकल्प्यभूतशुध्द्यादिविधायमंडपांतर्गौरसर्षपलाजान् यदत्रसंस्थितमितिविर्यसाधितंपंचगव्येनकुशै: आपोहिष्ठाइत्यादिमंत्रै:सर्वत्रप्रोक्षणंकृत्वा स्वस्त्ययनमितिमंत्रद्वयंपठित्वादेवाआयांतुयातुधानाअपयांतुविष्णोदेवयजनंरक्षस्वभूमौप्रादेशंकुर्यात् ॥यथोक्तमंडपेउक्ततोरणपताकाध्वजान्बध्द्वाशांतिसूक्तजपार्थंवेदादिक्रमेणद्वावेकंब्राह्मणंप्रागादिक्रमेणप्रतिद्वारंवृणुयात् ॥ ततआचार्योवटपश्चिमेचतुरस्त्रांवेदिकांनिर्मायतत्रसर्वतोभद्रेउक्तप्रकारेणब्रह्मादिदेवताआवाह्य तदुपरिअक्षतपुंजेकलशत्रयंएकंवाकलशंप्रतिष्ठाप्य ॥ तत्रमध्यमकुंभेब्रह्मजज्ञानमितिब्रह्माणं तद्दक्षिणेवषट्तेइतिविष्णुं उत्तरेत्र्यंबकमितिरुद्रं एकएवकलशश्चेत्तत्रैव आग्नेय्यादिकोणे षुगणानांत्वेतिगणपतिं जातवेदसइतिदुर्गा जज्ञानमितिमातृ: क्षेत्रस्यपतिनेतिक्षेत्रपालं तत:परितोलोकेशांस्तत्तन्मन्त्रैरावाह्यसंपूज्य वेदीपरितोऽष्टौकलशान् स्थापनप्रकारेणसंस्थाप्य तत्रपूर्वादिकलशेषुंपंचगव्यंसप्तमृद:पंचपल्लवान् चंदनंपंचरत्नानिक्षीरंसर्वौषधी:गंगोदकंचक्षिप्त्वाशुध्दजलेनापूर्यपूर्णपात्रंनिधाय तेषुइंद्रादिलोकपालानावाह्यसंपूजयेत् ॥ ततस्तैलहरिद्रारोपणादिवटस्यकृत्वावस्त्रेणावेष्टयेत् ॥ इत्यधिवासनम् ॥ परेध्यु:प्रारर्नित्यकर्मनिर्वर्त्यपीठदेवता:संपूज्यमंडपस्यप्रागादिद्वारचतुष्टयेचतुर:कुंभान् संस्थाप्यतेषुउदकंपंचरत्नपल्लवादिचनिधाय इंद्रयमवरुणसोमांस्तत्तन्मंत्रैरावाह्यसंपूज्य चतुर्द्वारेषुचतुर्वेदविदोद्विजा:शांतिसूक्तानिपठेयु: ॥ततईशान्यांकुंडेस्थंडिलेवाग्निंप्रतिष्ठाप्य तदुत्तरेवेदिकायामुक्तप्रकारेणग्रहानावाह्यसंपूज्यतदीशान्यांकलशंप्रतिष्ठाप्यजपार्थंब्राह्मणंवृणुयात् ॥ तत:प्रागाध्याचार्याश्चत्वार:स्वस्वकुंडेस्वगृह्यविधिनाआचार्यकुंडात् श्रोत्रियागाद्वाऽग्नीन्प्रणीयध्यायेयु: ॥कुंडचतुष्टयपक्षेप्राक् कुंडादग्निप्रणयनंतत्रैवमुख्यहोम: ॥ अन्वाधानम् ॥ तत्रेशानकुंडेब्रह्मविष्णुरुद्रान् घृताक्तदूर्वाज्यद्रव्याभ्यांप्रत्येकंप्रतिद्रव्यमष्टोत्तरशतमिताहुतिभिर्यक्ष्ये ॥इंद्राध्यष्टौलोकपालान् पलाशसमिच्चर्वाज्यद्रव्यै: प्रत्येकंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाभिराहुतिभिर्यक्ष्ये ॥ दक्षिणेगणपतिंदुर्गांसप्तमातृ:क्षेत्रपालंघृताक्ततिलद्रव्येणप्रत्येकंप्रतिद्रव्यमष्टाविंशतिसंख्याहुतिभिर्यक्ष्ये ॥ पश्चिमेसाधितप्रत्यधिदेवतानादित्यादिनवग्रहानर्कादिसमिच्चर्वाज्यतिलव्रीहिद्रव्यै:प्रत्येकंप्रतिद्रव्यंअष्टाविंशतिसंख्याकाहुतिभिर्यक्ष्ये ॥ उत्तरेसोमंसोमोधेनुमितिमंत्रेणघृताक्तचरुप्लक्षसमिद्द्रव्येणप्रतिद्रव्यं अष्टोत्तरशताहुतिभि:ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ एवंतत्तन्मंत्रै:होमंसंपाध्य आचार्योवटस्यहरिद्रातैलादिदत्त्वापंचोपचारै:संपूज्यपूर्वस्थापितानष्टकलशान्ब्राह्मणैर्ग्राहयित्वा आपोहिष्ठा० ३ समुद्रज्येष्ठा० ४ इमाआप:० ३ एतोन्विंद्र० ३ इतिप्रत्येकंजपन् वटस्यभिषेकंकुर्यात् ॥तत:आचार्य:प्रतीच्यांवटसंस्कारार्थंस्थंडिलंनिर्मायवटस्यपुंसवनादिविवाहांतान्संस्कारान् व्याहृतिद्वाराकरिष्ये ॥ अग्निंप्रतिष्ठाप्य अन्वादध्यात् ॥अग्निंवायुंसूर्यंप्रजापतिंआज्यद्रव्येण व्यस्तसमस्तव्याहृतिभि: प्रतिसंस्कारंचतुश्चतु:संख्याकाहुतिभिर्यक्ष्ये ॥ प्रतिसंस्कारहोमांतेवनस्पतेशतवल्शइतिमंत्रेणवटंस्पृशेत् ॥ एवमुपनयनपर्यंतंहुत्वा ॥ यजमानवटांतरालेंऽतपटंधृत्वासुहूर्तेतदेवलग्नमितिपठितेअंत:पटंनि:सार्यध्रुवसूक्तंयेयज्ञेनेतिचपठित्वाकौपीनंयज्ञोपवीतंमेखलांदंडंचतत्तन्मंत्रैर्दत्त्वाउपदेशवद्गायत्रींश्रावयित्वामनमेत् ॥ततोमहानाम्न्यादिसमावर्तनांतंकर्मकृत्वाऽलंकारान्दत्त्वाआयुष्यंवर्चस्यमितिपठित्वामौंजींविसर्जयेत् ॥ ततोवटंदूर्वांचदुग्धादिनासिक्त्वावटंदूर्वांचवस्त्रयुग्मेनसंवेष्टयवस्त्रंकंचुकीमाभरणादिदत्त्वापूर्ववदंत:पटंधृत्वासुहूर्तेतदेवलग्नमितिपठित्वागृभ्णामीतिमंत्रेण वटदूर्वयो:पल्लवमयान् हस्तान्योजयेत् ॥ तत:संस्कारसंबंधिस्विष्टकृदादिहोमशेषंसमाप्यवटंपुरुषसूक्तेनसंपूज्यप्रार्थयेत् ॥ मूलतोब्रह्मरुपायमध्यतोविष्णुरुपिणे ॥ अग्रतोरुद्ररुपायवटवृक्षायतेनम: ॥ अकारमूलरुपायउकारस्कंधशाखिने ॥ मकारफलपुष्पायवटवृक्षायतेनम: ॥ ततआचार्या:स्वस्वकुंडेस्विष्टकृदादिहुत्वाबलिंपूर्णाहुतिंचकृत्वा यजमानोवटोध्यापनसांगतासिध्दयेदक्षिणांगांचदस्येइतिसंकल्प्यक्रमेणदध्यात् ॥ ततऋत्विज:कलशोदकै:यजमानंसमुद्रज्येष्ठाइत्यादिमंत्रैरभिषिच्यकर्मशेषंसमापयेयु: ॥ ततोयजमान:पीठदेवता:संपूज्य उत्तिष्ठब्रह्मणस्पत इतिउत्थाप्य यांतुदेवगणा:सर्वेइतिविसृज्यपीठादिआचार्यदत्त्वा मंडपंसदस्यायदत्त्वाभूयसींदत्त्वाशताधिकान्यथाशक्तिवाब्राह्मणान्भोजयिष्ये इतिसंकल्प्यसंभोज्यआशिषोगृहीत्वावटोध्यापनपूर्णतांवाचयित्वाइष्टजनै: सहभुंजीत ॥ इतिवटोध्यापनम् ॥ N/A References : N/A Last Updated : August 22, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP