संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि:

व्रतोदयान - अथजीर्णप्रतिमापिंडिकाप्रतिष्ठाविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ गर्भागारस्यजीर्णोध्दारेगर्भागारभूमेर्वापिंडिकायावाजीर्णोध्दारेक्रियमाणेतत्रसंकोचत्वा
त्पूर्वस्थितदेवानांतत्रावस्थानंनसंभवतितदापूर्वकल्पितमंदिरांतरेनेतुंदेवानुध्दरेत् ॥
तत्प्रकारस्त्वेवं ॥
सुवर्णरजतताम्रान्यतमपात्रंगंधवारिणापूर्यगंधादिनाभ्यर्च्यमनोध्यानेनदेवेपिंडिकायांचपूर्वं
आवाहितप्रणवदिषोडशन्यासतत्त्वानितानिसर्वाणिजलपूरितताम्रादिपात्रेविन्यसेत् ॥
तत्रप्रयोग: ॥ देवस्थंअकारंपात्रजलेन्यसामि उकारंपात्रजले० मकारंपात्रजलेन्यसामि ॥
इतिप्रणवन्यास:प्रथम: ॥
अनेनप्रकारेणपूर्वोक्तषोडशन्यासप्रकारेणपूर्वोक्तषोडशन्यासतत्त्वानिपात्रेआवाहयेत् ॥
तत:पिंडिकातत्त्वानि ॥
ॐ यंथंभंइत्यादीनिपात्रजलेन्यसामि ॥ एवंप्रकारेणदेवतत्त्वानिपिंडिकातत्त्वानिचपात्रजले
आवाहयेत् ॥
तत:समस्तेंद्रियसंयुक्तंसूक्ष्मदेहान्वितंमूलसंज्ञकंजीवंनियोज्यफलपुष्पाक्षतहस्त:देवंविज्ञाप
येत् ॥
तध्यथा ॥ त्वत्प्रसादेननिर्विघ्नंगेहंनिर्मापयत्यसौ ॥ वासंकुरुसुरश्रेष्ठतावत्त्वंचाल्पकेगृहे ॥
वसक्लेशंसहित्वैवमूर्तिंवैतवपूर्ववत् ॥
यावत्कारयतेभक्त:कुरुतस्यचवांछितं ॥ अनेनमंत्रेणदेवंप्रार्थयेत् ॥ तत:कुद्दालदिशस्त्राणि
पीठादौनिधायतत्र ॥
ॐ विश्वकर्मन्हविषावावृधान:स्वयंयजस्वपृथिवीमुतध्यां ॥ मुह्यंत्वन्येअभितोजनासइहा
स्माकंमघवासुरिरस्तु ॥
इतिमंत्रेणशस्त्रेविश्वकर्माणंसंपूज्यशस्त्रेणपिंडिकांखनित्वादेवमुध्दृत्यमंगलावाध्यघोषेणपूर्व
कल्पितंमंदिरंनीत्वायथास्थानावस्थितपीठादौदेवंस्थापयित्वाम्रादिपात्रस्थितंजलंदेवशिरसिनिषिंचेत् ॥
तत्पात्रंप्रासादनिष्पत्तिपर्यंतंदेवनिकटेरक्षेत् अथवामुकुटवत् देवशिरसिनिदध्यात् ॥
तत:दिग्बलिंदत्त्वादेवंसंपूज्य अग्निंब्राह्मणांश्चसंपूज्यदक्षिणांदत्त्वाऽऽशिषोगृहीत्वानूतनंगर्भ
गृहादिकुर्यात् ॥
गर्भगृहादौनिष्पन्नेगर्भागारमध्येयथास्थानंजीर्णांनूतनांवापिंडिकांस्थापयेत् ॥ नूतनाचेत्पिं
डिकाक्रियते तदाजीर्णोध्दारविधिनाजीर्णांपिंडिकांविसृज्यजलादौतस्या:प्रतिपत्तिंकृत्वानूतनां
पिंडिकांपूर्वोक्तपिंडिकास्थापनप्रकारेणस्थापयित्वा तत्ररत्नन्यासादिकृत्वा तत्रदेवंशलाकांत
रितवज्रलेपनादिनादृढीकृत्यवाससामूर्त्याच्छादनप्रकारेणपुनरर्चाशुध्दिंकुर्यात् ॥
जीर्णैवचेत्पिंडिकास्थाप्यतेतर्हितत्रदेवंस्थापयित्वार्चाशुध्दिंकुर्यात् ॥ वास्तुयाग्रहमखादिकृ
त्वामंगलवाध्यघोषेणसुमुहूर्तेशलाकांनिष्कास्यदेवंस्थिरीकृत्यमहापूजांकुर्यात् ॥
तत:देवाभिषेकजलपूरितांपूर्वोक्तांताम्रदिपात्रीमादायतत्रमनोध्यानेनप्रणवादिषोडशन्यासमनोगतानिअकारादितत्त्वानिआदायस्वस्थानस्थितदेवेनियोजयेत् ॥
तत्प्रकारस्तु ॥ पात्रजलस्थमकारंदेवस्ययथास्थानंन्यसामिइति प्रणवादिषोडशन्यासांतर्ग
तानितत्त्वानिदेवस्ययथास्थानंविन्यस्यपिंडिकातत्त्वानिपिंडिकायांविन्यस्यतज्जलंदेवस्यच
रणयोर्निषिच्यपुनर्महापूजांमहानैवेध्यादिमहोत्साहंबलिप्रदानंचकृत्वाब्राह्मणान्संपूज्याभिषे
काध्याशिषोगृहीत्वा ब्राह्मणान्भोजयेत् ॥
इतिजीर्णप्रतिमादिप्रतिष्ठा ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP