TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ तच्चिकित्सा ॥

॥ अथ तच्चिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ तच्चिकित्सा ॥
॥ अथ तच्चिकित्सा ॥
अभ्यड्गं स्वेदनं बस्तिर्नस्यं स्नेहविरेचनम्‍ । स्निग्धाम्ललवणं स्वादु वृष्यं वाताप्रयापहम्‍ ॥१॥
साद्वम्ललवणै: स्निग्धैराहारैर्वातरोगिण: । अभ्यड्गस्नेहबस्त्याद्यै: सर्वानेवोपपादयेत्‍ ॥२॥
पित्तस्यावरणे वातरोगे शीतोष्णभेषजम्‍ । कफस्यावरणे वायौ रुक्षोष्णं भक्ष्यभेषजम्‍ ॥३॥
केवले पवनव्याधौ स्निग्घोष्णं भक्ष्यभेषजम्‍ । स्निग्धोष्णशीतरुक्षाद्यैर्वातजो यो न शाम्यति ॥ विकारस्तत्र विज्ञेयो दुष्टशोणितसम्भव: ॥४॥
अथ वस्तिगते वाते ॥ कार्यो वस्तिगते वाते विधिर्बस्तिविशोधन: । विशेषतस्तु कोष्ठस्थे वाते क्षीरं पिबेन्नर: ॥१॥
व्योषसौवर्चलाजाजीपथ्यालवणपञ्चकम्‍ । सारिवाबृहतीपाठाकलिड्गाग्नियवाग्रजम्‍ ॥२॥
चूर्णीकृतं दधिसुरातन्मण्डोष्णाम्बुकाञ्जिकै: । पिबेदग्निविवृद्‍ध्यर्थं कोष्ठवातहरं परम्‍ ॥३॥
अथ गुदाश्रिते ॥ दशमूलीकषायेण मातुलिड्गरसेन वा । पिबेदैरण्डतैलं च बस्तिकुक्षिगुदाश्रिते ॥१॥
अथामाशयगते ॥ आमाशयगते वाते छर्दिस्वायौ यथाक्रमम‍ । देय: षट्‍चरणो योग: सप्तरात्रं तथाम्बुना ॥१॥
चित्रकेन्द्रयवापाठाकटुकातिविषाभया: । महाव्याधिप्रशमनो योग: षट्‍चरण: स्मृत: ॥२॥
अन्यच्च । पूतीकपथ्याशटिपुष्कराणि बिल्वं गुडूची सुरदारु शुण्ठी । विड्ड्गपाठातिविषा कणा च क्वाथास्त्रय: साप्रसमीरनघ्ना: ॥१॥
कार्यासास्थिकुलत्थिकातिलयवैरेरण्डामाषातसीवर्षाभूशणबीजकाञ्चिकयुतैरेकीकृतैवां पृथक्‍ । स्वेद: स्यादिति कूर्परोदरहनुस्फिकपाणिपादाड्गुलीगुल्फस्तम्भकटीरुजो विजयते साम: समीरोद्भव: ॥२॥
अथ पक्वाशये ॥ पक्वाशयगते वाते हितं स्नेहैर्विरेचनम्‍ । बस्तय: शोधनीयाश्च प्राशाश्च लवणोत्तरा: ॥१॥
॥ अथ श्रोत्रादिषु ॥ श्रोत्रादिषु प्रकुपिते कार्यो वातहर: क्रम: । स्नेहाभ्यड्गोपनाहांश्च मर्दनालेपनानि च ॥१॥
अथ त्वड्मांसासृकशिरागते ॥ त्वड्मांससृक्शिराप्राप्ते कुर्याद्रक्तबिमोक्षणम्‍ । स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च ॥१॥
अथ मांसमेदोमज्जास्थिकुपिते ॥  विरेको मांसमेद:स्थे निरुह: शमनानि च । बाह्याभ्यन्तरगस्नेहैरस्थिमज्जागतं जयेत्‍ ॥१॥
अथ स्त्रायुसन्ध्यास्थिगते ॥ स्नायुसन्ध्यस्थिम्प्राप्ते कुर्याद्वाते विचक्षण: । स्वेदोपनाहसंमर्दस्नेहनादिकमादरात्‍ ॥१॥
अथ शुक्रस्थे कुपिते ॥ शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम्‍ ॥१॥
अथ वक्षआदिमन्यागते ॥ वक्षस्त्रिकस्कन्धगते वाते मन्यागते तथा । वमनं मर्दनं नस्यं कुशलेन प्रयोजयेत्‍ ॥१॥
अथाशीतिवातजरोगाणां संक्षेपेण चिकित्सा ॥ अथ पक्षाघातस्य ॥ माषात्मगुप्तकैरण्डवाट्यालकशृतं जलम्‍ । हिड्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम्‍ ॥ इति माषादिक्वाथ: ॥
अथ वृन्दात्‍ माषादिसप्तकम्‍ ॥ माषबलाशुकशिम्बीकत्तृणरास्त्राश्वगन्धारुबुकाणाम्‍ । क्वाथ: प्रात: पीतो रामठलवणान्वित: कोष्ण: ॥१॥
अपनयति पक्षघातं मन्यास्तम्भं सकर्णनादरुजम्‍ । दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम्‍ ॥२॥
अथ माषतैलम्‍ सारसंग्रहात्‍ ॥ ग्रन्थिकाग्निकणारास्त्राकुष्ठनागरसैन्धवम्‍ । माषाक्वाथेन तत्तैलं पक्षवातविनाशनम्‍ ॥१॥
अथार्दितस्य चिकित्सा ॥ नवनीतेन संयुक्तां खादेन्माषेण्डरीं नर: । दुर्वारमर्दितं हन्ति सप्तरात्रान्न संशय: ॥१॥
अथ लशुनविधि: ॥ पलमर्धपलं वापि रसोनस्य सुकुट्तितम् । हिड्गुजीरकसिन्धूत्थसौवर्चलकटुत्रिकै: ॥१॥
चूर्णितैर्माषकोन्मानैरवचूर्ण्यावलोडितम्‍ । यथाग्निभक्षितं प्रातऋबुक्वाथानुपानत: ॥२॥
दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम्‍ । वातामयं निहन्त्येवमर्दितं चापतन्त्रकम्‍ ॥३॥
एकाड्गरोगिणां रोगं तथा सर्वाड्गरोगिणाम्‍ । ऊरुस्तम्भं गृध्रसीं च शूलं द्वन्द्वकृमीनपि ॥४॥
कटिपृष्ठामयं हन्याज्जाठरं च समीरणम्‍ । अथावबाहुके ॥ माषतैलरसो नाभ्यां बाह्वोश्च परिमर्दयेत्‍ ।
दशाड्घ्रिमाषक्वाथेन जयेद्वैद्योऽवबाहुकम्‍ ॥१॥ इति वृन्दात्‍ ॥ अथ माषाद्यं तैलम्‍ ॥ माषातसीयवकुरण्ट्ककारीगोकन्टटुण्टुकजटाकपिकच्च्छुतोयै: । कार्पासकास्थिशणबीजकुलत्थकोलक्वाथेन बस्तपिशितस्य रसेन वापि ॥१॥
शुण्ठया च मागधिकया शतपुष्पया च सैरण्डमूलसपुनर्नवया सरेण्वा । रास्त्राबलामृतलताकटुकैर्विपक्वं माषाख्यमेतदवबाहुकहारि तैलम्‍ ॥२॥
अर्धाड्गशोषमपतानकमाढ्यवातमाक्षेपकं सभुजकम्पशिर:प्रकम्पम्‍ । नस्येन बस्तिविधिना परिषेचनेन हन्यात्कटीजघनजानुशिर:समीरान्‍ ॥३॥
इति माषाद्यं तैलम्‍ ॥ अथ प्रत्यष्ठीलाष्ठीलकयोग: ॥ प्रत्यष्ठीलाष्ठीकयोर्गुल्मेऽभ्यन्तरविद्रधौ । क्रिया हिड्ग्वादि चूर्णं च शस्यतेऽत्र विशेषत: ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:58:26.5570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खांद्याखालीं पदर

  • स्‍वैरिणीच्या बाबतीत ही शब्‍दयोजना योजतात. पूर्वी कुलीन स्‍त्रियांनी रस्‍त्‍यातून जातांना खांद्यावरून डोकीवर पदर घेण्याची चाल असे. तेव्हां खांद्याखाली पदर येणें. हे अगदीच निर्लज्‍जपणाचे मानले जाई. 
RANDOM WORD

Did you know?

सोळा वर्षाखालील मुलांना शनिची साडेसाती कां त्रस्त करत नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.