TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ ज्वरनिदानम् ॥

॥ अथ ज्वरनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ ज्वरनिदानम् ॥
॥ अथ ज्वरनिदानम्‍ ॥
श्वास: कासो भ्रमो मूर्छा प्रलापी मोहवेपथू । पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य च ॥१॥
वातोल्बणस्य लिड्गानि सन्निपातस्य लक्षयेत्‍ । एषविस्फारको नाम्ना सन्निपात: सुदारूण: ॥२॥
अतिसारो भ्रमो मूर्छा मुखपाकस्तथैव च । गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते ॥३॥
पित्तोल्बेणस्य लिड्गानि सन्निपातस्य लक्षयेत्‍ । भिषग्भि: सन्निपातोऽयमाशुकारी प्रकीर्तित: ॥४॥
जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि । प्रस्तब्धे नयने चैव मुखमाधुर्यवेव च ॥५॥
कफोल्बणस्य लिड्गानि सन्निपातस्य लक्षयेत्‍ । मुनिभि: सन्निपातोऽयमुक्त: कम्पनसंज्ञक: ॥६॥
दोषे विवृद्धे नष्टेऽग्रौ सर्वसंपूर्णलक्षण: सन्निपातज्वरोऽसाध्य: कृच्छ्रसाध्यस्ततोऽन्यथा ॥७॥
सप्तमे दिवसे प्राप्ते द्शमे द्वादशेऽपि वा । पुनर्घोरतरोभूत्वा प्रशमं याति हन्ति वा ॥८॥
सप्तमी द्विगुणा यावन्नवम्येकादशी तथा । एषा त्रिदोषमर्यादा मोक्षाय च वधाय च ॥९॥
पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्‍ । हन्ति विमुञ्चति पुरुषं त्रितोषजो धातुमलपाकात्‍ ॥१०॥
दोषप्रकृतिवैकृत्यं लघुता ज्वरदेहयो: । इन्दियाणां च वैमत्यं दोषाणां पाकलक्षणम्‍ ॥११॥
अथ धातुपाकलक्षणम्‍ ॥ नाभेरुर्ध्वं हृदोऽधस्तात्पीड्यते  च व्यथा भवेत्‍ । धातो: पाकं विजानीयादन्यथा तु मलस्य च ॥१२॥
सन्निपातज्वरस्यान्ते कर्णमूले सुदारूण: । शोफ: संजायते तेन कश्चिदेव प्रमुच्यते ॥१३॥
ज्वरस्य पूर्वं ज्वरमध्यतो वा ज्वरन्ततो वा श्रुतिमूलशोध: । क्रमादसाध्य: खलु कृच्छ्रसाध्य: मुखेन साध्यो मुनिभि: प्रदिष्ठ: ॥१४॥
अभिचाराभिघाताभ्यामभिषड्गाभिशापत: ।आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत्‍ ॥१५॥
भूतादौषधिगन्धाच्च भयाच्छोकांद्विषेण च । कामक्रोधाच्च जातो य: सोऽभिषड्गज्वर: स्मृत: ॥१६॥
श्यावास्यता विषकृते तथातीसार एव च । भक्तारुचि: पिपासा च तोदश्च सह मूर्छया ॥१७॥
औषधीगन्धजे मूर्छा शिरोरुग्वमधुस्तम: । कामजे चित्तविभ्रंशस्तन्द्रालस्यमरोचकम्‍ ॥१८॥
हृदये वेदना चास्यं गात्रं च परिशुष्यति । भयात्प्रलाप: शोकाच्च भवेत्कोपाच्च वेपथु: ॥१९॥
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते । भूताभिषड्गादुद्वेगो हास्यरोदनकम्पनम्‍ ॥२०॥
कामशोकभयाद्वायु: क्रोधात्पित्तं त्रयो मला: । भूताभिषड्गात्कुप्यन्ति भूतसामान्यलक्षणा: ॥२१॥
प्रशापाच्चाभिघातोत्थश्वेतनाप्रभवस्तु य: रात्र्यह्यो: षट्‍सु कालेषु प्रेरितेषु यथा पुरा ॥२२॥
प्रसह्य विषमोऽप्येति मानवं बहुधा ज्वर: । स चापि विषमो देहं न कदाचिद्विमुञ्चति ॥२३॥
यस्माद्‍गौरववैवर्ण्यकार्श्येभ्यो न विमुञ्चति । वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ॥२४॥
शिरसो गौरवं ग्लानिर्नातिश्रद्धातिभोजने । माधुर्यमतिवैरस्यं तिक्तत्वमथवा पुन: ॥२५॥
दोषमलधातुपाकलक्षणम्‍ । शश्वद्धीन्द्रियपञ्चकस्य पटुता वह्येश्च यत्र कमात्तृष्णादिप्रशमो ज्वरस्य मृदुता तं दोषपाकं वदेत्‍ । ह्यन्नाभ्योरतिवेदनातिसरणं तीव्रो ज्वरस्तृटक्ल्म: श्वासाधिक्यमरोचकोऽतिरिति स्याद्धातुपाकाकृति: ॥२६॥
वक्रस्य जायते यस्मात्प्रवेशे विगतेसति । तस्मात्तु नियतो जुष्ठे शरीरे विषमे ज्वर: ॥२७॥
धात्वन्तस्थो न लीनत्वात्सूक्ष्मत्वादुपलभ्यते । अल्पदोषेन्धन: क्षीण: क्षीणेन्धन इवानल:  ॥२८॥
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुन: । धातुमन्यतमं प्राप्य करोति विषमज्वरम्‍ ॥२९॥
क्वचिदुष्णेन शीतेन कचिद्रात्रौ क्वचिद्दिवा । प्रशमं याति कोपं च ज्वर: स विषम: स्मृत: ॥३०॥
य: स्यादनियते काले शीतोष्णाभ्यां तथैव च । वेगतश्चापि विषम: स ज्वरो विषम: स्मृत: ॥३१॥
सन्तत: सततोऽन्येधुस्तृतीयकचतुर्थका: । पच्चैति विषमा: ख्याता: सन्निपातोल्बणोद्भवा: ॥३२॥
सन्ततो रसधातुस्थो रक्तस्थ: सततो मत: । ज्वर: समभवत्रुणां सोऽन्येद्यु: पिशिताश्रित: ॥३३॥
मेदोगतस्तृतीयेऽह्यि त्वस्थिमज्जागत: पुन: । लुर्याच्चातुर्थकं घोरमन्तकं रोगसड्कुरम्‍ ॥३४॥
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा । सन्तत्यायो विसर्गो स्यात्सन्तत: स निगद्यते ॥३५॥
अहोरात्रे सततको द्वौ कालावनुवर्तते । अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ॥३६॥
तृतीयकस्तृतीयेऽह्यि चतुर्थेऽह्यि चतुर्थक: । इत्यादयस्तु विज्ञेया ज्वरा नानाविधा बुधै: ॥३७॥
यथा दोषप्रकोपं तु तथा मन्ये तु तं ज्वरम्‍ । यथा वेगागमे वेलां छादयित्वा महोदधे ॥३८॥
वेगहानौ तदेवाम्भस्तत्रैवान्तर्विलीपते । दोषवेगोदये तद्वदुदीयेत ज्वरस्य तु ॥३९॥
वेगहानौ प्रशाम्येत तथाम्भ: सागरे यथा । श्लेष्मप्रायस्तु पूर्वाह्ने प्रदोषे च प्रवर्तते ॥४०॥
पित्तप्रायस्तु मध्यान्हे त्वर्धरात्रे प्रवर्तते । अपराह्नेऽनिलप्राय: प्रत्युषे च प्रवर्तते ॥४१॥
नर्ते वातात्तु विषमो ज्वर: समुपजायते । कफपित्ते च निश्चेष्ठे चिष्टयत्यनिलो यत: ॥४२॥
तस्मान्नर्तेऽनिलाद्रोगा: संभवन्ति ज्वरादय: । श्लेष्मप्रायस्तु विषम: शीतपूर्व: प्रजायते ॥४३॥
पित्तप्रायस्तु विषमो दाहपूर्व प्रजायते । वातप्रायस्त्वनियते काले समुपजायते ॥४४॥
कृत्वाचिराद्धि देहस्य क्षिप्रवेपथुमुत्तमम्‍ । श्लेष्मपित्ते विदह्यएते रसस्थाने यदानिल: ॥४५॥
तस्मिन्काले मनुष्याणां विषमो जायते ज्वर: । श्वासो मूर्च्छारुचिच्छर्दितृष्णातीसारविड्ग्रहा: ॥४६॥
हिक्का कासोऽड्गभेदश्च ज्वरस्योपद्रवा दश । तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता ॥४७॥
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलबाज्जर: । आमज्वरस्य लिड्गानि न दद्यात्तत्र भेषजम्‍ ॥४८॥
भेषजं ह्यामदोषस्य भूयो जनयति ज्वरम्‍ । शोधनं शमनीयं तु करोति विषमज्वरम्‍ ॥४९॥
ज्वरवेगोऽधिका तृष्णा प्रलाप: श्वसनं भ्रम: । मलप्रवृत्तिरुत्क्लेश: प्च्यमानस्य लक्षणम्‍ ॥५०॥
क्षुत्क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम्‍ । दोषप्रवृत्तिरुत्साहो निरामज्वरलक्षणम्‍ ॥५१॥
प्रकाड्क्षा लाघवं ग्लानि: स्वस्थता सुप्रसन्नता । उपद्रवनिवृत्तिश्च सम्यग्लड्घितलक्षणम्‍ ॥५२॥
निद्रा तन्द्रा क्लमो भ्रान्तिस्तृष्णा शोषो बलक्षय: । उपद्रवाश्च श्वासाद्या: संभवन्त्यतिलड्घिते ॥५३॥
स्वेदो लघुत्वं शिरस: कण्डू पाको मुखस्य च । क्षवथुश्चान्नकाड्क्षा च ज्वरमुक्तस्य लक्षणम्‍ ॥५४॥
विगतक्लममोहं च त्वत्यर्थं विमलेन्दियम्‍ । युक्तं प्रकृतिसत्वैश्च तं विद्याद्विगतज्वरम्‍ ॥५५॥
ज्वरमुक्तस्य यस्यापि शिरोरुड्नैव मुच्चति । अविमुक्त: स विज्ञेयो ज्वर: पुरुपैति तम्‍ ॥५६॥
इति संक्षेपतो ज्वरनिदानम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T19:51:23.7800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

interruption

  • अडथळा, व्यत्यय, खंड 
  • पु. व्यत्यय 
  • पु. खंड 
  • बाधा,व्यवधान 
More meanings
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site