TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रसादीनां पाकलक्षणमाह ॥

॥ अथ रसादीनां पाकलक्षणमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रसादीनां पाकलक्षणमाह ॥
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।
लघुता क्षुत्‌ पिपासा च जीर्णाहारस्य लक्षणम्‌ ॥१॥
आहारं तु रहः कुर्यान्निर्हारमपि सर्वदा ।
उभाभ्यां लक्ष्म्युपेतः स्यात्‌ प्रकाशे हीयते श्रिया ॥२॥
ज्वरितं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ।
श्लेष्मक्शये प्रवृद्धोष्मा बलवाननलस्तदा ॥३॥
आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः ।
हीनदीनक्षुधार्तानां पापपाखण्डरोगिणाम्‌ ।
कुक्कुटादिशुनां दृष्टिर्भोजने नैव शोभना ॥४॥
पितृमातृसुहृद्वैद्यपाककृद्धंसबर्हिणाम्‌ ।
सारसस्य चकोरस्य भोजने दॄष्टिरुत्तमा ॥५॥
दोषहृद्‌ दृष्टिदं पथ्यं हैमं भोजनभाजनम्‌ ।
रौप्यं भवति चक्षुष्यं पित्तहृत्‌ कफवातकृत्‌ ॥६॥
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम्‌ ।
पैत्तलं वातकृद्रूक्षमुश्णं कृमिकफप्रणुत्‌ ॥७॥
आयसे कान्तपात्रे च भोजनं सिद्धिकारकम्‌ ।
शोथपाण्डुहरं बल्यं कामलापहमुत्तमम्‌ ॥८॥
शैलजे मृण्मये पात्रे भोजनं श्रीनिवारणम्‌ ।
दारूद्भवे विशेषेण रुचिदं श्लेष्मकृत्तथा ॥९॥
पात्रं पत्रमयं रुच्यं दीपनं पिषपापनुत्‌ ।
जलपात्रं तु ताम्रस्य तदभावे मृदो हितम्‌ ॥१०॥
पात्रं पवित्रं शीतं च घटितं स्फटिकेन यत्‌ ।
काचेन रचितं तद्वत्तथा वैदूरयसंभवम्‌ ॥११॥
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम्‌ ।
अग्निसंदीपकं रुच्यं जिह्वाकण्ठविशोधनम्‌ ॥१२॥
अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः ।
इति संचिन्त्य यो भुङ्क्ते दृष्टिदोषो न बाधते ॥१३॥
अञ्जनीगर्भसंभूतं कुमारं ब्रह्मचारिणम्‌ ।
दृष्टिदोषविनाशाय हनुमन्तं स्मराम्यहम्‌ ॥१४॥
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्‌ ।
मध्येऽम्ललवणौ पश्चात्‌ कटुतिक्तकषायकान्‌ ॥१५॥
फलान्यादौ समश्नीयाद्दाडिमादीनि बुद्धिमान्‌ ।
विना मोचफलं तद्वद्वर्जनीया च कर्कटी ॥१६॥
मृणालबिसशालूककन्देक्षुप्रभृतीन्यपि ।
पूर्वमेव हि भोज्यानि न तु भुक्त्वा कदाचन ॥१७॥
प्रियालजम्बूबदरीफलानि गाङ्गेरिकोदुम्बरतित्तिदिकम्‌ ।
तालीफलानागरनारिकेलसारं च भक्ष्यं तिलमिश्रमाम्रम्‌ ।
अङ्कोलरभ्भाफलसावलानां फलानि वर्ज्यानि सदा प्रभाते ॥१८॥
गुरु पिष्टमयं द्रव्यं लड्डूकान्‌ पृथुकानपि ।
न जातु भुक्तवान्स्वादेन्मात्रां स्वादेद्बुभुक्षितः ॥१९॥
घृतपूर्वं समश्नीयात्कठिनं प्राक्‌ ततो मृदु ।
अन्ते पुनर्द्रवाशी नु बलारोग्ये न मुञ्चति ॥२०॥
यद्यत्स्वादुतरं तद्धि विदध्यादुत्तरोत्तरम्‌ ।
भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादुभोजनम्‌ ॥२१॥
सौमनस्यं बलं पुष्टिमुत्साहं रसनासुखम्‌ ।
स्वादु संजनयत्यन्नमस्वादु च विपर्ययम्‌ ॥२२॥
अत्युश्णान्नं बलं हन्ति शीतं शुष्कं च दुर्जरम्‌ ।
अतिक्लिन्नं म्लानिकरं युक्तियुक्तं हि भोजनम्‌ ॥२३॥
मधुराद्वर्धते रक्तमम्लान्मज्जाप्रवर्धनम्‌ ।
लवणाद्वर्धते त्वस्थि तिक्तान्मेदः प्रवर्धते ॥२४॥
कटुकाद्वर्धते मांसं मषायाद्वर्धते रसः ।
अन्नाच्च वर्धते शुक्रं षड्रसा धातुवर्धनाः ॥२५॥
अतिद्रुताशिताहारो गुणान्दोषान्न विन्दति ।
भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः ॥२६॥
मन्दानलो नरो द्रव्यमात्रां गुर्वीं विवर्जयेत्‌ ।
स्वभावतश्च गुरु यत्‌ तथा संस्कारतो गुरु ॥२७॥
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः ।
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम्‌ ॥२८॥
आहारं षड्विधं चोष्यं पेयं लेह्यं तथैव च ।
भोज्यं भक्ष्यं तथा चर्व्यं गुरुं विद्याद्यथोत्तरम्‌ ॥२९॥
गुरूणामर्धसौहित्यं लघूनां नातितृप्तता ।
द्रवो द्रवोत्तरश्चापि न मात्रागुरुरिष्यते ॥३०॥
द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपद्यते ।
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥३१॥
पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।
शुश्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत्‌ ॥३२॥
न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहोन्‌ ।
न जलान्तरितान्न द्विः सक्तूनद्यान्न केवलान्‌ ॥३३॥
पुनर्दानं पृथक्‌ पानं सामिषं पयसा निशि ।
दन्तच्छेदनमुष्णं च सप्त सक्तुषु वर्जयेत्‌ ॥३४॥
बहु स्तोकमकाले वा ज्ञेयं तद्विषमाशनम्‌ ।
आलस्यगौरवाटोपशब्दांश्च कुरुते गदान्‌ ।
हीनमात्रं तनोः कार्श्यं करोति च बलक्षयम्‌ ॥३५॥
अप्राप्तकालेभुञ्जानो ह्यसमर्थतनुर्नरः ।
तांस्तान्‌ व्याधीनवाप्नोति मरणं चाधिगच्छति ॥३६॥
कालेऽ‍तीते‍श्नतो जन्तोर्वायुनापहतेऽनले ।
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा ॥३७॥
कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत्‌ ।
वायोः संचरणार्थाय चतुर्थमवशेषयेत्‌ ॥३८॥
रसेनान्नस्य रसना प्रथमेनोपतर्पिता ।
न तथा स्वादुतामेति ततः सेव्याम्बुनान्तरा ॥३९॥
अत्यम्बुपानान्न विपच्यते‍न्नं निरम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभूरि ॥४०॥
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत्‌ ।
मध्येऽ‍ग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम्‌ ।
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः ॥४१॥
तृषितस्तु न चाश्नीयात्क्षुधितो न पिबेज्जलम्‌ ।
तृषितस्तु भवेद्रुल्मी क्षुधितस्तु जलोदरी ॥४२॥
अश्नीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्‌ ।
मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्‌ ॥४३॥
एवं भुक्त्वा समाचामेद्रूक्षं ग्रहणपूर्वकम्‌ ।
भोजने दन्तलग्नानि निर्हृत्याचमनं चरेत्‌ ॥४४॥
दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः ।
कुर्यादनिर्हृतं तद्धि मुखस्यानिष्टगन्धताम्‌ ॥४५॥
दन्तलग्नमनिर्हार्यं लेपमन्ये तु दन्तवत्‌ ।
न तत्र बहुशः कुर्याद्यत्नं निर्हरणं प्रति ॥४६॥
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषी स्पृशेत्‌ ।
भुक्त्वा पाणितले घृष्ट्वा चक्षुषोर्यदि दीयते ।
भुक्त्वा च संस्मरेन्नित्यमगस्त्यादीन्सुखावहान्‌ ॥४७॥
आदौ सूपाज्यभक्तं सकथिकमुदितं पायसं वाथ रम्यं पक्कान्नं मध्यमध्ये बहुविधपललं व्यञ्जनान्यत्र भोज्ये ।
अन्ते दुग्धं सिताढ्यं शृतमतुलरसं सान्नमत्यन्तमिष्टं दध्यन्नं वा यथेच्छापरिकलितमिदं देशरीत्या विदध्यात्‌ ॥४८॥
आदिमध्यावसानेषु भोजने पयसा युते ।
कार्श्यं साम्यं तथा स्थौल्यमिति स्युः क्रमशो गुणाः ॥४९॥
आदौ द्रवं समश्नीयात्तत्राम्बु न पिबेद्बहु ।
मध्ये तु कठिने भक्ष्ये यथेष्टं शस्यते जलम्‌ ॥५०॥
तथा च भोजनस्यान्ते पीतमम्बु बलप्रदम्‌ ।
द्रवप्रधानभुक्तान्ते किन्तु तन्मात्रया पिबेत्‌ ॥५१॥
विष्णुरन्नं तथैवान्नपरिणामश्च वै यथा ।
सत्येन तेन मद्भुक्तं जीर्यत्वन्नमिदं तथा ॥५२॥
अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयन्त्वशेषम्‌ ।
सुखं ममैतत्परिणामसंभवं यच्छत्वरोगं मम चारुदेहम्‌ ॥५३॥
अङ्गारकर्मगस्तिं च पावकं सूर्यमश्विनौ ।
यश्चैतान्संस्मरेनित्यमन्नं तस्याशु जीर्यति ॥५४॥
अगस्तिं कुम्भकर्णं च शनिं च वडवानलम्‌ ।
आहारपरिपाकार्थे स्मरामि च वृकोदरम्‌ ॥५५॥
इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम्‌ ।
अनायासप्रदायीनि कुर्यात्कर्माण्यतन्द्रितः ॥५६॥
जीर्णेऽन्ने वर्धते वायुर्विदग्धे पित्तमेधते ।
भुक्तमात्रे कफश्चापि क्रमोऽयं भोजनोपरि ॥५७॥
धूमे वापोह्य हृद्यैर्वा कटुतिक्तकषायकैः ।
पूगकर्पूरकस्तूरीलवङ्गसुमनःपलैः ॥५८॥
फलैः कटुकषायैर्वा मुखवैशद्यकारिभिः ।
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥५९॥
रतौ सुप्तोत्थिते स्नाते भुक्ते वान्ते च संगरे ।
सभायां विदुषां राज्ञां कुर्यात्ताम्बूलचर्वणम्‌ ॥६०॥
प्रत्युषसि भुक्तसमये युवतीनां च संगमे विरमे ।
विद्वद्राजसभायां ताम्बूलं यो न खादयेत्स पशुः ॥६१॥
ताम्बूलं कटुतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कृमिनाशनं कफहरं दुर्गन्धिनिर्नाशनम्‌ ।
वक्त्रस्याभरणं विशुद्धिकरणं कामाग्निसंदीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥६२॥
ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनं तुवरं सरम्‌ ।
तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु ॥६३॥
वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्‌ ।
मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्‌ ॥६४॥
तत्तु दन्तमलध्वंसि जिह्वेन्द्रियविशोधनम्‌ ।
मुखप्रसेकशमनं गलामयविनाशनम्‌ ॥६५॥
नवं तदेव मधुरं कषायानुरसं गुरु ।
बलासजननं प्रायः पत्रशाकगुणं स्मृतम्‌ ॥६६॥
वङ्गदेशोद्भवं पर्णं परं कटुरसं सरम्‌ ।
पाचनं पित्तजनकमुष्णं कफहरं मतम्‌ ॥६७॥
पर्णं पुराणमकटु क्षुल्लकं तनु पाण्डुरम्‌ ।
विशेषाद्गुनवद्वेद्यमन्यद्धीनगुणं मतम्‌ ॥६८॥
पूगं गुरु हिमं रूक्षं कषायं कफपित्तनुत्‌ ।
मोहनं दीपनं रुच्यमास्यवैरस्यनाशनम्‌ ॥६९॥
पूगं स्याद्‌ दृढमध्यं यत्‌ स्विन्नं चापि त्रिदोषनुत्‌ ।
सरसं गुर्व्गभिष्यन्दि तद्भृशं वह्निनाशनम्‌ ॥७०॥
खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत्‌ ।
संयोगतस्त्रिदोषघ्नं सौमनस्यं करोति च ॥७१॥
पूगाधिकं प्रभाते स्यान्मध्याह्ने खादिराधिकम्‌ ।
चूर्णाधिकं निशायां तु ताम्बूलं भक्षयेत्सदा ॥७२॥
तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत्‌ ।
पर्णमूले भवेव्द्याधिः पर्णाग्रे पापसंभवः ॥७३॥
चूर्णपत्रं हरत्यायुः शिरा बुद्धिविनाशिनी ।
आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता ॥७४॥
आद्यं विषोपमं पीतं द्वितीयं मेहि दुर्जरम्‌ ।
तृतीयादि तु पातव्यं सुधातुल्यं रसायनम्‌ ॥७५॥
आलस्यविद्रध्युपजिह्विकानां सतालुदन्तार्बुदरोगिणां च ।
गलास्यगण्डापचितालुशोषश्लेष्मामयानं तदतिप्रशस्तम्‌ ॥७६॥
न नेत्रकोपे न च रक्तपित्ते क्षते न दाहे न विषे न शोषे ।
मदात्यये नापि न मोहमूर्छाश्वासेषु ताम्बूलमुशन्ति वैद्याः ॥७७॥
ताम्बूलं नातिसेवेत विरिक्तो न बुभुक्षितः ।
देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः ॥७८॥
शोषपित्तानिलास्रं स्यादतिताम्बूलभक्षणात्‌ ।
ताम्बूलं न हितं दन्तदुर्बलेक्षणरोगिणाम्‌ ।
विषमूर्छामदार्तानां क्षतिनां रक्तपित्तिनाम्‌ ॥७९॥
भुक्त्वा शतपदं गच्छेच्छनैस्तेन तु जायते ।
अन्नसंघातशैथिल्यं ग्रीवाजानुकटिसुखम्‌ ॥८०॥
भुक्त्वोपविशतस्तुन्दं शयानस्य तु पुष्यति ।
आयुश्च्क्रममाणस्य मत्धावति धावतः ॥८१॥
श्वासानष्टौ समुतानस्तान्‌ द्विः पार्श्वे तु दक्षिणे ।
ततस्तद्द्विगुणान्‌ वामे पश्चात्स्वप्याद्यथासुखम्‌ ॥८२॥
वामदिशायामनलो नाभेरूर्ध्वोऽस्ति जन्तूनाम्‌ ।
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम्‌ ॥८३॥
त्रिदोशशमनी खट्वा तूली वातकफापहा ।
भूशय्या बृहणी वृष्या काष्ठपट्टी तु वातला ॥८४॥
भूशय्या वातलातीवरुक्षा पित्तास्रनाशिनी ।
सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम्‌ ॥८५॥
श्रमानिलहरं वृष्यं विपरीतमतोऽन्यथा ।
संवाहनं मांसरक्तत्वक्प्रसादकरं परम्‌ ॥८६॥
प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम्‌ ।
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत्‌ ॥८७॥
स्वेदमूर्छापिपासाघ्नमप्रवातमतोऽन्यथा ।
सुखं प्रवातं सेवेत ग्रीष्मे शरदि चोत्तरम्‌ ॥८८॥
निर्वातमायुषे सेव्यमारोग्यं यत्र सर्वदा ।
पूर्वोऽनिलो गुरुः सोष्णःस्निग्धः पित्तास्रदूषकः ॥८९॥
विदाही वातलः श्रान्तिकफशोषवतां हितः ।
स्वादुपटुरभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन्‌ ॥९०॥
सन्निपातज्वरश्वासमामवतं प्रकोपयेत्‌ ।
दक्षिणः पवनः स्वादुः पित्तरक्तहरो लघुः ॥९१॥
वीर्येण शीतलो बल्यश्चक्षुष्यो न च वातलः ।
पश्चिमः पवनस्तीक्ष्णः शोषणो बलहृल्लघुः ॥९२॥
मेदपित्तकफध्वंसी प्रभञ्जनविवर्धनः ।
उत्तरो मारुतः शीतः स्निग्धो दोशप्रकोपकृत्‌ ॥९३॥
क्लेदनः प्रकृतिस्थानबलदो मधुरो लघुः ।
आग्नेयो दाहकृद्रूक्षो नैरृतो न विदाहकृत्‌ ॥९४॥
वायव्यस्तु भवेत्तिक्त ऐशानः कटुकः स्मृतः ।
वग्वायुरनायुष्यः प्राणिनां बहुरोगकृत्‌ ॥९५॥
अतस्तं नैव सेवेत सेवितः स्यान्न शर्मणे ।
व्यजनस्यानिलो दाहस्वेदमूर्छाश्रमापहः ॥९६॥
तालवृन्तभवोवातस्त्रिदोषशमको मतः ।
वंशव्यजनजस्तूष्णो रक्तपित्तप्रकोपनः ॥९७॥
चामरो वस्त्रसंभूतो मायूरो वेत्रजस्तथा ।
एते दोषजितो वाताः स्निग्धा हृद्याः सुपूजिताः ॥९८॥
दिवा स्वापं न कुर्वीत यतोऽसौ स्यात्‌ कफावहः ।
ग्रीष्मवर्जेषु कालेशु दिवा स्वापो निषिध्यते ॥९९॥
उचितो हि दिवा स्वापो नित्यं चैषां शरीरिणाम्‌ ।
वातादयः प्रकुप्यन्ति तेषामस्वपतां दिवा ॥१००॥
भोजनात्‌ प्राग्दिवा स्वापः पाषाणमपि जीर्यति ।
भोजनान्ते दिवपाद्वातपित्तकफोद्भ ॥१०१॥
व्यायामप्रमदाध्ववाहनरतान्‌ क्लान्तानतीसारिणः शूलश्वासवतस्तृषापरिगतान्‌ हिक्कामरुत्पीडितान्‌ ।
क्षीणान्‌ क्षीणकफान्‌ शिशून्मदहतान्वृद्धान्‌ रसाजीर्णिनो रात्रौ जागरितान्नरान्‌ निरशनान्‌ कामं दिवा स्वापयेत्‌ ॥१०२॥
दिवा वा यदि वा रात्रौ निद्रा सात्मीकृता तु यैः ।
न तेषां स्वपतां दोषो जाग्रतां चोपजायते ॥१०३॥
भोजनानन्तरं निद्रा वातं हरति पित्तहृत्‌ ।
कफं करोति वपुषः पुष्टिं सौख्यं तनोति हि ॥१०४॥
शयनं पित्तनाशाय वातनाशाय मर्दनम्‌ ।
वमनं कफनाशाय ज्वरनाशाय लङ्घनम्‌ ॥१०५॥
शब्दान्स्पर्शाश्च रूपाणि रसान्‌ गन्धान्‌ मनःप्रियान्‌ ।
भुक्तवानपि सेवेत तेनान्नं साधु तिष्ठति ॥१०६॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धो जगुप्सितः ।
भुक्तमप्रयतं चान्नमतिहास्यं च वामयेत्‌ ॥१०७॥
शयनं चाशनं चाति न भजेन्न द्रवाधिकम्‌ ।
नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम्‌ ॥१०८॥
व्यायामं च व्यवायं च धावनं पानमेव च ।
युद्धं गीतं च पाठ च मुहूर्तं भुक्तवांस्त्यजेत्‌ ॥१०९॥
अत्यम्बुपानाद्विषमाशनाच्च सधारणात्स्वप्नविपर्ययाच्च ।
कालेऽपि सत्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरम्यं ॥११०॥
अजीर्णे भुभ्यत्ते यत्तु तद्ध्यशनमुच्यते ।
प्राग्‌ भुक्ते त्वनले मन्दे द्विरह्नो न समाहरेत्‌ ।
पूर्वभुक्तेऽविदग्धेऽन्ने भुञ्जानो हन्ति पावकम्‌ ॥१११॥
भवेद्यदि प्रातरजीर्णशङ्का तदाभयानागरसैन्धवाअनाम्‌
विचूर्णितं शीतजलेन भुत्क्का मुक्तामशङ्को मितमन्नमद्यात्‌ ॥११२॥
अध्वा वर्णकफस्त्थौल्यसौकुमार्यविनाशनः ।
यत्तुं चङ्क्रमणं नाति देहपीडाकरं भवेत्‌ ॥११३॥
तदायुर्बलमेधाग्निप्रदमिन्द्र्रियबोधनम्‌ ।
उष्णीषं कान्तिकृत्‌ केश्यं रजोवातकफापहम्‌ ॥११४॥
पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्‌ ।
अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिदम्‌ ॥११५॥
छत्रस्य धारणं वर्षातपवात्तरजोपहम्‌ ।
हिमघ्नं हितमक्ष्णॊश्च माङ्गल्यमपि कीर्तितम्‌ ॥११६॥
सत्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम्‌ ।
अवष्टम्भकरं चापि भयग्घ्नं दण्डधारणम्‌ ॥११७॥
ऊर्ध्व्वाछादनसंयुक्ता शिबिका सर्ववल्लभा ।
तस्यामारोहणं नॄणां त्रिदोषशमकं मतम्‌ ॥११८॥
वातश्लेष्मगदार्तानामहिता भ्रमकृत्तरिः ।
पित्तानिलकरो हस्ती लक्ष्म्यायुःपुष्ठिवर्धनः ॥११९॥
घोटकारोहणं वातपित्ताग्निश्रमकृन्मतम्‌ ।
मेदोवर्णकफघ्नं च हितं तब्दलिनां परम्‌ ॥१२०॥
आतपः स्वेदमूर्छास्रपित्ततृष्णाक्लमभमान्‌ ।
दाहं विवर्णतां कुर्यादेतांश्छाया व्यपोहति ॥१२१॥
वृष्टिर्वृष्या हिमा बल्या निद्रालस्यविवर्धनी ।
भयावहा मोहकरी कुहतिः कफवातला ॥१२२॥
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः ।
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपनः ॥१२३॥
सद्यः श्लेष्मकरो धूमो नेत्रयोरहितो भृशम्‌ ।
शिरोगौरवकृच्चापि वातपित्तं च कोपयेत्‌ ॥१२४॥
मैत्रीं सद्भिरसद्भिश्च कुर्यात्सत्सुतु सर्वथा ।
संसर्गः साधुभिः कुर्यादसत्त्संगं परित्यजेत्‌ ॥१२५॥
सेवेत देवभूदेववृद्धवैद्यनृपातिथीन्‌ ।
विमुखान्नार्थिनः कुर्यान्नावमन्येत कानपि ॥१२६॥
गुरूणां सन्निधौ तिष्ठेत्‌ सदैव विनयान्वितः ।
पादप्रसारणादीनि त्तत्र नैव समाचरेत्‌ ॥१२७॥
अपकार्रपरोऽपि स्यादुपकारपरः पुमान्‌ ।
आत्मवत्सकलान्पश्येद्वैरिणो दूरतो वसेत्‌ ॥१२८॥
न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्‌ ।
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः ॥१२९॥
नात्मानमुदके पश्येन्न नग्नः प्र्रविशेज्जलम्‌ ।
तथा नाज्ञातगाम्भीर्यं न हिंस्रप्राणिसेवितम्‌ ॥१३०॥
काले हितं मितं सत्यं संवादे मधुरं वदेत्‌ ।
भुञ्जीत मधुरं प्रायः स्निग्धं काले हितं मित्तम्‌ ॥१३१॥
न रात्रौ दधि भुञ्जीत न च निर्लवणं तथा ।
नामुद्गसूपं नाक्षौद्रं न चाप्यघृतशर्करम्‌ ॥१३२॥
जनस्याशयमालक्ष्य यो तथा परितुष्यति ।
तं तथैवानुवर्तेत पराराधनपण्डितः ॥१३३॥
नैकः सुखी न सर्वत्र विश्वस्तो न च शङ्कितः ।
नोद्यमाद्विरमेत्क्कापि हेतावीर्ष्येत्फले न तु ॥१३४॥
वेगान्न धारयेत्किञ्चिन्मनोवेगान्विधारयेत्‌ ।
न पीडयेदिन्द्रियाणी न चैतान्यत्तिलालयेत्‌ ॥१३५॥
वर्षातपादिषुच्छत्री दण्डि रात्र्यटवीषु ।
सोपानत्कस्तनुं रक्षन्विचरेद्युगमात्रदृक्‌ ॥१३६॥
नदीं तरेन्न बाहुभ्यां नाग्निस्कन्धमभिव्रजेत्‌ ।
संदिग्धनावं वृक्षं च नारोहेदृष्टयानवत्‌ ॥१३७॥
नासंवृतमुखः कुर्यात्सभायां सुविचक्षणः ।
कासं हासं तथोद्गारं जृभणं क्षवथुं तथा ॥१३८॥
नासिकां न विकुष्णीयान्नासीतोत्कटकः क्कचित्‌ ।
नोर्ध्वजानुश्चिरं तिष्ठेन्न नखैर्विलिखेद्भुवम्‌ ॥१३९॥
संमार्जनीरजो नैव देहे दध्यात्कदाचन ।
न नखेन तृणं छिन्द्यान्नोच्छिष्टो ब्राह्मणं स्पृशेत्‌ ॥१४०॥
नोपरक्त्तं न चोद्यन्तं नास्तं यान्त्तं दिवाकरम्‌ ।
सर्वथा तु समीक्षेत न जले प्रतिबिम्बितम्‌ ॥१४१॥
नेक्षेत प्रततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ।
पौरन्दरं धनुर्नैव दर्शयेत्कमपि क्कचित्‌ ॥१४२॥
रिपोरन्नं न भुञ्जीत गणिकान्नमपि क्कचित्‌ ।
प्रतिभूर्न भवेत्क्कापि न च साक्षी वृथा वदेत्‌ ॥१४३॥
स्थगीन्न धारयेज्जातु द्यूतं दूरात्पर्रित्यजेत्‌ ।
विश्वासं नाचरेत्स्त्रीणां ताःस्वतन्त्राश्च नाचरेत्‌ ॥१४४॥
रक्षणीया सदा पत्नी यौवने तु विशेषतः ।
न भिन्नशयने स्वप्यान्न चैको विवरे बिले ।
नैको देवालये नैव रात्रौ तरुतले न च ॥१४५॥
एवं दिनानि गमयेत्सदाचारपरः सदा ।
ततो रात्रिप्रयुक्तानि कुर्यात्कर्माणि मानवः ॥१४६॥
इत्याचारं समासेन भाषितं यः समाचरेत्‌ ।
स विन्दत्यायुरारोग्यं प्रीतिं धर्मं धनं यशः ॥१४७॥
एतानि पञ्च कर्माणि सन्ध्यायां वर्जयेद्बुधः ।
आहारं मैथुनं निद्रां संपाठं गतिमध्वनि ॥१४८॥
ब होजनाज्जायते व्याधिर्मैर्थुनाद्गर्भवैकृतम्‌ ।
निद्राया निःस्वता पाठादायुर्हानिर्गतेर्भयम्‌ ॥१४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-12T18:40:56.5130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

incompatible response

  • विजोड अनुक्रिया 
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site