TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भस्मकलक्षणमाह ॥

॥ अथ भस्मकलक्षणमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ भस्मकलक्षणमाह ॥
॥ अथ भस्मकलक्षणमाह ॥
कफे क्षीणे यदा पित्तं स्वस्थाने मारुतानुगम्‍ । तीव्रं प्रवर्तयत्यग्निं तदा तं भस्मकं वदेत्‍ ॥१॥
कट्वादिरुक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धौ । अतिप्रवृद्ध: पवनान्वितोऽग्नि: क्षणाद्रसं शोषयति प्रसह्य ॥२॥
भुक्तं क्षणाद्भस्म करोति यस्मात्तस्मादयं भस्मकसंज्ञकोऽभूत्‍ । तॄड्‍दाहमूर्छाभ्रमकासशोफविट्‍शोषमोहभ्रमकर्मकारी ॥३॥
तृड्‍दाहश्वासकासादीन्कृत्वान्यानग्निसम्भवान्‍ । पक्त्वान्नमाशु धात्वादीन्‍ स क्षिप्रं नाशयेद्‍ध्रुवम्‍ ॥४॥
==
॥ अथ चरकपाठे भस्मक: ॥
नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्‍ । सोष्मण: पाचकस्थाने बलमग्ने: प्रयच्छति ॥१॥
तदा लब्धबलो देहं रुक्षयेत्‍ सोऽनिलोऽनलम्‍ । अभिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुह: ॥२॥
पक्त्वान्नं स ततो धातूञशोणितादीन्पचत्यपि । ततो दौर्बल्यमातड्गं मृत्युं चोपनयेत्परम्‍ ॥३॥
भुक्ते न लभते शान्तिं जीर्णमात्रे प्रशाम्यति । तृड्‍दाहकासमोहा: स्युर्व्याधयोऽत्यग्निसम्भवा: ॥४॥
==
॥ अथाजीर्णनिदानम्‍ ॥
अविपक्वोऽग्निमान्द्येन यो रस: स निगद्यते । रोगाणां प्रथमो हेतु: सर्वेषामामसंज्ञया ॥१॥
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभि: । अजीर्णं केचिदिच्छन्तिचतुर्थं रसशेषत: ॥२॥
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च । वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम्‍ ॥३॥

॥ अथ तेषां कारणमाह ॥
ग्लानिगौरवविष्टम्भभ्रममारुतमूढता: । विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्णलक्षणम्‍ ॥ अजीर्णाज्जायते रोगस्तस्माद्रक्षेदजीर्णकात्‍ ॥१॥
अत्यम्बुपानद्विषमाशनाश्च सन्धारणास्त्वप्रविपर्ययाच्च । कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥२॥
ईर्ष्याभयक्रोधपरिप्लुप्तेन लुब्धेन रुग्दैन्यनिपीडितेन । प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्‍ पचते नरस्य ॥३॥
मात्रया चाभ्यवहृतं पथ्यं चान्नं न जीर्यते । चिन्ताक्रोधभयकोधदु:खशय्याप्रजागरै: ॥४॥
तत्रामे गुरुतोक्लेद: शोफो गण्डाक्षिकूटयो: । उदारश्च यथाभुक्तमविदग्ध: प्रवर्तते ॥५॥
विदग्धे भ्रमतृण्मूर्छापिताच्च विविधा रुज: । उद्गारश्च सधूमाम्ल: स्वेदो दाहश्च जायते ॥६॥
विष्टब्धे शूलमाध्मानं विविधा वातवेदना: । मलवाताप्रवृत्तिश्च मोह:स्तम्भोऽड्गपीडनम्‍ ॥७॥
==
॥ अथ रसशेषलक्षणमाह ॥
उद्गारशुद्धावपि भक्तकाड्क्षा न जायते ह्रुद्‍गुरुता च यस्य । रसावशेषेण चतुर्थमेत्क्वचित्वजीर्णं प्रवदन्ति तज्ज्ञा: ॥१॥
रसशेषेऽन्नविद्वेषो हृदयाशुद्ध्यरोचकौ । मूर्छा प्रलापो वमथु: प्रसेक: सदनं भ्रम: ॥२॥
उपद्रवा भवन्त्येते मरणं चात्यजीर्णत: । यावत्सन्तिष्ठते तस्य दुष्टोऽप्यन्नरसो हृदि ॥ तावन्मर्माणि भिद्यन्ते विषं पीतवतो यथा ॥३॥
अनात्मवन्त: पशुद्भुञ्जते येऽप्रमाणत: । रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ॥४॥
स्वल्पं यदा दोषविबद्धमामलीनं न तेज:पथामावृणोति । भवत्यजीर्णॆऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति ॥५॥
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम्‍ । तन्मूलो रोगसड्घातस्तद्विनाशाद्विनश्यति ॥६॥
==
॥ अथाजीर्णोपद्रवानाह ॥
अजीर्णमामं विष्टब्धं विदग्धं यदुदीरितम्‍ । विषूच्यलसको तस्माद्भवेच्चापि विलम्बिका ॥१॥
अथ विषूचीमाह ॥ सूचिभिरिव गात्राणि तुदन्सन्तिष्ठतेऽनिल: । यस्यामजीर्णात्सा वैद्यैर्विषूचीति निगद्यते ॥१॥
न तां परिमिताहारा लभन्ते विदितागमा: । मूढास्तामजितात्मानो लभन्तेऽशनलोलुपा: ॥२॥
मूर्छातिसारो वमुथ: पिपासा शूलभ्रमोद्वेष्टनजृम्भ्दाहा: । वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेद: ॥३॥
अथालसकमाह ॥ कुक्षिरानह्यतेऽत्यर्थं मुह्यते परिकूजति । निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ॥१॥
वातवर्चोनिरोधस्तु तस्यात्यर्थं भवेदपि । तस्यालसकमाचष्टे तृष्णोद्गारौ तु यस्य हि ॥२॥
अथ विलम्बिकामाह ॥
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य । विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविद: पुराणा: ॥१॥
अथाजीर्णजन्यामस्य कार्यान्तरमाह ॥ यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातै: । दोषेण येनावततं शरीरं तल्लक्षणैरामसुद्भवैश्च ॥१॥
विषूच्यलसयोरसाध्यत्वमाह ॥ य़: श्यावदन्तौष्ठनखोऽल्पसंज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्र: । क्षामस्वर: सर्वविमुक्तसन्धिर्यायान्नरोऽसौ पुनरागमाय ॥१॥
निद्रानाशोऽरति: कम्पो मूत्राघातो विसंज्ञिता । अमी ह्युपद्रवा घोरा विषूच्या: पञ्च दारूणा: ॥२॥
अथ जीर्णाहारलक्षणमाह ॥ उद्गारशुद्धिरुत्साहो वेगोत्सर्गोयथोचित: । लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम्‍ ॥३॥
इत्यजीर्णनिदानम्‍ ॥

॥ अथाजीर्णचिकित्सितं व्याख्यास्याम: ॥
 प्रायेणाद्वारवैषम्यादजीर्णं जायते नृणाम्‍ । तन्मूलो रोगसड्घातस्तद्विनाशाद्विनश्यति ॥१॥
तत्रामे वमनं कार्यं विदग्धे लड्घनं हितम्‍ । विष्टब्धे स्वेदनं शस्तं रसे शेषे हयति च ॥२॥
वचालवणतोयेन वान्तिरामे प्रशस्यते । धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षण: । आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम्‍ ॥३॥
अन्नम विदघ्धं तु नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति । तदास्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात्‍ ॥४॥
विष्टब्धे स्वेदनं कार्यं पेयं च लवणोदकम्‍ । रसशेषे दिवा स्वापं लड्घनं वातवर्जनम्‍ ॥५॥
एरण्डतैले प्रविपाच्य पथ्यां खादेत्तदेवानु पिबेच्च तैलम्‍ । स शूलविष्टम्भकृतान्विकारान्‍ सर्वाञजयेत्पित्तकफानिलोत्थान्‍ ॥६॥
आलिप्य जठरं प्राज्ञो हिड्गुत्र्यषणसैन्धवै: । दिवा स्वापं प्रकुर्वीत सर्वाजीर्णप्रणाशनम्‍ ॥७॥
व्यायामप्रमदाध्ववाहनरतान्‍ क्लान्तानतीसारिण: शूलश्वासवतस्तृषापरिगतान्हिक्वामरुत्पीडितान्‍ । क्षीणान्‍ क्षीणकफाञ शिशून्मदहतान्वृद्धांस्तथाजीर्णिनो रात्रौ जागरितान्नरान्निरशनान्कामं दिवा स्वापयेत्‍ ॥८॥

॥ अथ चूर्णानि ॥
पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत्‍ । मस्तुनोष्णोदकेनाथ मत्वा दोषगतिं भिषक्‍ ॥१॥
चतुर्विधमजीर्णं च मन्दानलमथारुचिम्‍ । आध्मानं वातगुल्मं च शूलं चाशु विनाशयेत्‍ ॥२॥
इति पथ्यादिचूर्णम्‍ ॥ सिन्धूत्थपथ्यमगधोद्भववह्निचूर्णमुष्णाम्बुना पिबति य: खलु: नष्टवह्नि: । तस्याभिषेण सघृतेन सहान्नपानं भस्मीभवत्यशितमात्रमपि क्षणेन ॥१॥ इति लघुवैश्वानरचूर्णम्‍ ॥
अथ हिड्ग्वादिचूर्णम्‍ ॥ त्रिकटुकमजमोदासैन्धवं जीरके द्वे समचरनकृतानामष्टमो हिड्गुभाग: । प्रथमकवलभोजी सर्पिषा चूर्णमेतज्जनयति जठराग्निं वातगुल्मं निहन्ति ॥१॥
अन्यच्च । कर्षं हिड्गु द्वकर्षं बिडमथ मरिचं सैन्धवं विश्वकृष्णादिप्याजीराजमोदासितजरणबिभीताभया वेदकर्षा: । अष्टौ मार्कण्डिधात्र्योरथ बदकपित्थोद्भवा: षोडश स्यु: सर्वं लुड्गोदकार्द्रं हरति रुचिवधाध्माविबन्धाग्रिसादान्‍ ॥१॥
इति हिड्ग्वादिचूर्णम्‍ ॥ अथ लवणभास्करचूर्णम्‍ ॥ पिप्पली पिप्पलीमूलं धान्यकं कृष्णजीरकम्‍ । सैन्धवं च बिडं चैव पत्रतालीसकेसरान्‍ ॥१॥
एषां द्विपलकान्‍ भागान्‍ पञ्च सौवर्चलस्य च । मरीचाजाजिशुण्ठीनामेकैकस्य पलं पलम्‍ ॥२॥
त्वगेला चार्धंभागा स्यात्सामुद्रं कुडवद्वयम्‍ । दाडिमं कुडवं चैव द्विपलं चाम्लवेतसम्‍ ॥३॥
एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम्‍ । लवणं भास्करं नाम भास्करेण विनिर्मितम्‍ ॥४॥
श्लेष्मवातं वातगुल्मं शूलं मन्दाग्र्यरोचकम्‍ । अन्यानपि निहन्त्याशु रोगांल्लवणभास्कर: ॥५॥

॥ अथाग्निमुखचूर्णम्‍ ॥
हिड्गुभागो भवेदेको वचा च द्विगुणा भवेत्‍ । पिप्पली त्रिगुणा ज्ञेया शृड्गबेरं चतुर्गुणं ॥१॥
यवानिका पञ्चगुणा षड्गुणा च हरीतकी । चित्रक: सप्तगुणित: कुष्टं चाष्टगुणं भवेत्‍ ॥२॥
एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया । पिबेद्दध्रा मस्तुना वा सुरया कोष्णवारिणा ॥३॥
सोदावर्तमजीर्णं च प्लीहानमुदरं तथा । अड्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम्‍ ॥४॥
अर्शोहरो दीपनश्च शूलघ्नो गुल्मनाशन: । कातं श्वासं निहन्त्याशु तथैव क्षयनाशन: ॥५॥
चूर्णो ह्यग्निमुखो नाम्ना न कश्चित्प्रतिहन्यते ॥६॥ अथ सामुद्राद्यं चूर्णम्‍ ॥
सामुद्रसौवर्चलसैन्धवानां क्षारो यवानामजमोदकं च । हरीतकीपिप्पलिशृड्गबेरं हिड्गुं विडड्गं च समानि दद्यात्‍ ॥१॥
संचूर्ण्यं चैतानि घृतप्लुतानि भुञ्जीत चादौ कवलानि पञ्च । अजीर्णवातं गुदगुल्ववातं वातप्रमेहं विषमं च वातम्‍ ॥२॥
अथ व्योषाद्यं चूर्णम्‍ ॥ व्योषैलाहिड्गुभार्गीबिडलवणयवक्षारपाठायवानीचिञ्चात्वभस्मचव्यं दहनकरिकणात्वक्‍पटुग्रन्थ्यजाजी ।
एतच्चूर्णं घृताढ्यं त्रिदिवसमशनाद्धन्यते रोगजातं विश्वं वैश्वानरोऽसौ दहति सरभसं किं पुनर्भुक्तमन्नम्‍ ॥१॥ इति चूर्णानि ॥

॥ अथ गुटिका: ॥
विड्ड्गं नागरं कृष्णा पथ्या वह्निर्बिभीतक: । वचा गुडूची भल्लातं विषं चात्र प्रयोजयेत्‍ ॥१॥
एतानि समभागानि गोमूत्रेणैव पेषयेत्‍ । गुञ्जाभा गुतिका: कार्या दद्यादार्द्रकजै: रसै: ॥२॥
एकामजीर्णयुक्तस्य द्वे विषूच्यां प्रदीपयेत्‍ । तिस्त्रो भुजड्गदष्टस्य चतस्त्र: सन्निपातिन: ॥ गुटिका जीवनी नाम्ना संजीवयति मानवम्‍ ॥३॥ इति संजीवनीगुटिका ॥
अथ धनञ्जयवटी ॥ जीरकं चित्रकं चव्यं समुगन्धं वचात्वचौ । एलाकर्चूरपुषा कारवी नागकेसरम्‍ ॥१॥
पृथक्‍ कर्षमिता ह्येते मिश्रीकर्षार्धसंमिता । यवानी पिप्पलीमूलं स्वर्जिका च हरीतकी ॥२॥
जातीफलं लवड्गं च पृथक्कर्षयुगं मतम्‍ । धान्यकं चित्रकं चापि कर्षत्रयमितं पृथक्‍ ॥३॥
कृष्णा पलप्रमाणा स्यात्पलमानं तु रौमकम्‍ । मरीचात्पिचव: सप्त त्रिवृनमूलात्पलद्वयम्‍ ॥४॥
पृथग्‍दलाशं सामुद्रं सैन्धवं नागरं तथा । शरावसंमितं चुक्रं तदर्धं तित्तिणीफलम्‍ ॥५॥
धनञ्जयवटी ह्येषा धनञ्जयविर्वधनी । अजीर्णं जरयत्याशु शूलमुन्मूलयेद्द्रुतम्‍ ॥६॥
हरेद्विबन्धसंबन्धमाघ्मानं कर्षत्यपि । ग्रहण्यां निग्रहं कुर्याद्रचयेदुचिमुत्तमाम्‍ ॥७॥
इति धनञ्जयवटी ॥ अथ शड्खवटी रसार्णावत: ॥ चिञ्चाश्वत्थस्त्रुहीक्षारादपामार्गार्कतस्तथा । लवणं पञ्च संगृह्य ततो लवणपञ्चकम्‍ ॥१॥
सैन्धवाद्यं समादाय सर्वमेतत्पलद्वयम्‍ । द्वौ द्वौ कर्षौ पृथक्कार्यौ तथा द्वौ शड्खचूर्णत: ॥२॥
कर्षं कर्षं विषं गन्धं रसं टड्कणमेव च । हिड्गुपिप्पलिशुण्ठीनां तथा मरिचजीरयो: ॥३॥
फलत्रयाच्च कर्षैकं द्विकर्षं तु लवड्गत: । एतत्सर्वं समासाद्य श्लक्ष्णचूर्णीकृतं शुभम्‍ ॥४॥
भावदेम्लयोगेन सप्तधा च प्रयत्नत: । रस: शड्खवटी नाम्ना सेवित: सर्वरोगजित्‍ ॥५॥
गुञ्जामात्रमिदं खादेद्भवेद्दीपनपाचनम्‍ । अजीर्णं वातसम्भूतं पित्तश्लेष्मभवं तथा । विषूचीं शूलमानाहं हन्यादत्र न संशय: ॥६॥
इति शड्खवटी ॥ अथ द्वितीया शड्खवटी ॥ चिञ्चाक्षारपलं पटुवज्रपलं निम्बुद्रवेकल्कितं तस्मिञ् शड्खपलं प्रतप्तमसकृन्निर्वाप्य शीर्णावधि । हिड्गुव्योषपलं रसामृतबलीन्निक्षिप्य निष्कांशकान्बद्‍ध्वा शड्खवटी ज्वरग्रहणिकारुकपक्तिशूलादिषु ॥१॥
इति गुटिका: ॥

॥ अथामृतहरीतकी ॥
तक्रे समुत्स्वेद्य शिवाशतानि तब्दीजमुद्‍धृत्य च कौशलेन । षडूषणं पञ्च पटूनि हिड्गुक्षारावजाजीमजमोदकं च ॥१॥
षडूषणादेस्त्रिवृदर्धभागा गणस्य देयाम्बरगालितस्य । विभाव्य चुक्रेण रजांस्यमीषां क्षिपेच्छिवाबीजनिवासगर्भे ॥२॥
समूह्य घर्मे च विशोष्य तासां हरीतकीमन्यतमां निषेवेत्‍ । अजीर्णमन्दानलजाठरामयान्सगुल्मशूलग्रहणीगुदाड्कुरान्‍ । विबन्धमानाहरुजो जयत्यसौ तथामवातांस्त्वमृताहरीतकी ॥३॥ इत्यमृतहरीतकी ॥

॥ अथावलेह: ॥
विड्ड्गभल्लातकचित्रकाभया: सनागरास्तुल्यगुडेन सर्पिषा । अश्रन्ति ये मन्दहुताशना नरा भवन्ति ते वाडवतुल्यवह्नय: ॥१॥
इति विडड्गाद्यवलेह: । विदह्यते यस्त तु भुक्तमात्रं दह्यन्ति हृत्कोष्ठगतामलाश्च । द्राक्षां सितामाक्षिकसंप्रयुक्तां लिड्वाभयां वा स सुखं लभेत ॥१॥

॥ अथ यवागू: ॥
चित्रकचविकानागरमागधिकोग्रैर्यवागू: स्यात्‍ । गुल्मानिलशूलहरी चित्राद्या वह्निजननी च ॥१॥ इति चित्रकादि: ॥

॥ अथ क्वाथ: ॥
लवड्गपथ्ययो: क्वाथ: सैन्धवेनावधूलित: । पीत: प्रशमयत्याशु त्वजीर्णं रेचयत्यपि ॥१॥
धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षण: । आमाजीर्णप्रशमनं शूलघ्नं वह्निदीपनम्‍ ॥२॥

॥ अथ घृतानि ॥
अथाग्निकरं घृतम्‍ । पञ्चमूल्यभयाव्योषपिप्पलीमूलसैन्धवै: । रास्त्राक्षारद्वया जाजीविड्ड्गुसटिभिर्घृतम्‍ ॥१॥
युक्तेन मातुलिड्गस्य स्वरसेनार्द्रकस्य च ॥ तक्रमस्तुसुरामण्डसौवीरकतुषोदकै: ॥२॥
काञ्जिकेन च यत्पक्वं पीतमग्निकरं स्मृतम्‍ । शूलगुल्मोदरश्वासकासानिलकफापहम्‍ ॥३॥
इत्याग्निकरं घृतम्‍ अथ मूलघृतम्‍ ॥ मरीचं पिप्पलीमूलं नागरं पिप्पली तथा । भल्लातकं यवानी च विड्ड्गं गजपिप्पलि ॥१॥
हिड्गु सौवर्चलं चैव त्वजाजी बिडधान्यकम्‍ । सामुद्रं सैन्धवं क्षारं चित्रकं वचया सह ॥२॥
एभिरर्धपलैर्भागैर्घृतं प्रस्थं विपाचयेत्‍ । दशमूलरसे सिद्धं पयसाष्ठगुणेन वा ॥३॥
मन्दाग्नेश्च हितं सिद्धं ग्रहणीदोषनाशनम्‍ । विष्टम्भमामं दौर्बल्यं प्लीहानमपकर्शयेत्‍ ॥४॥
कासं श्वासं क्षयं वापि दुर्नामसभगन्दरम्‍ । कफजाहन्ति रोगांश्च वायुजान्कृमिसम्भवान्‍ । तान्सर्वान्नशयत्याशु शुष्कं दार्वनलो तथा ॥५॥ इति दशमूलघृतम्‍ ॥ इति घृतानि ॥

॥ अथाजीर्णकुलकण्डनगण: ॥

नारीकेलफलेषु तण्डुलमथ क्षीरं रसाले हितं जम्बीरोत्थरसो घृते समुचित: सर्पिस्तु मोचाफले । गोधूमेषु च कर्कटी हिततमा मांसाशिने काञ्जिकं नारड्गे गुडभक्षणं प्रकथितं पिण्डालुकं कोद्रवे ॥१॥
पनसे कदलं कदले च घृतं घृतपाकविधावपि जम्भरस: । तदुपद्रवशान्तिकरं लवणं लवणेषु च तण्डुलवारि परम्‍ ॥२॥
गोधूमे कर्कटिका माषे तक्रं च मूलकं चणके । आमलकं किल मुद्गे दीप्यं: पक्ता तु यावनाले स्यात्‍ ॥३॥
खण्डं च खण्डयति माषभवं ह्यजीर्णं तैलं कुलत्थजमिति प्रवदन्ति केचित्‍ । द्राक्षामुकूलकनिकोचकसेवितं वा वातामवृन्तफलपाककरं लवड्गम्‍ ॥४॥
कड्गुश्यामाकनीवारकोरदूषमकुष्टका: । दग्धा जलेन जीर्यान्ति काञ्जिकं त्वाढकीं पचेत्‍ ॥५॥
पिष्टान्ने शीतलं वारि कृशरान्ने तु सैन्धवम्‍ । माषेण्डयां निम्बमूलं मुद्गयूषस्तु पायसे ॥६॥
मत्स्य आम्रफलात्कूर्मो यवक्षारद्विपच्यते । कासमूलान्निलकण्ठपारावतकपिञ्जला: ॥७॥
पटोलवंशाड्कुरकारवल्लीफलाम्बुनिम्बुक्वधितानि जग्ध्वा । क्षारोदकं ब्रम्हतरोर्निपीय भोक्तुं पुनर्वाञ्छति तावदेव ॥८॥
विपच्यते सूरणको गुडेन तथालुकं तण्डुलकोदकेन । पिण्डालुकं जीर्यति कोरदूषात्कसेरुपाक: खलु नागरेण ॥९॥
क्षीरं जीर्यति तक्रेण तद्गव्यं कोष्णमण्डत: । माहिषं माणिमन्थेन सड्खचूर्णेन तद्दधि ॥१०॥
रसाला जीर्यति व्योषात्खण्डं नागरभक्षणात्‍ । गुडो नागरमुस्ताभ्यां तथेक्षुश्चार्द्रकाशनात्‍ ॥११॥
इत्यजीर्णकुलकण्डनगण: ॥

॥ अथ रसा: ॥
दन्तीबीजमकल्मषं सदहनं शुण्ठीलवड्गं समं गन्धं पारदटड्कणं च मरिचं श्रीवृद्धदारो विषम्‍ । खल्वे यामयुगं विमर्द्य विधिना नन्तीद्रवैर्भावना देया: पञ्चदशातु निम्बुकजलैस्त्रेधा त्रिधा चित्रकै: ॥१॥
त्रेधा चार्द्रकजै रुसै: शुभधिया सप्तैव चावेदिना पश्चाच्छुष्ककलायसंमितवटी कार्या भिषकसंमता । क्षुब्धोधप्रकरी त्रिशूलशमनी जीर्णज्वरध्वंसिनी कासारोचकपाण्डुतोदरगदन्पामामरुन्नाशिनी ॥२॥
वत्स्याटोपहलीमकामयहरी मन्दाग्निसंदीपनी सिद्धेयं तु महोदधिप्रकटिता सर्वामगध्री सदा ॥३॥
इति बृहन्महोदधौ अजीर्णहरे वटी । रसेन्द्रचिन्तामणे: अग्निकुमार: । पारदं च विषं गन्धं ट्ड्कणं समभागत: । मरीचादष्टभागा: स्युर्द्वौ
द्वौ शड्खवराटयो: ॥१॥
पक्वजम्बीरजैर्गाढं रसै: सप्त विभावयेत्‍ । गुञ्जाद्वयमितो देयो रसो ह्यग्निकुमारक: ॥२॥
समीरणसमुद्भूतमजीर्णं च विषूचिकाम्‍ । क्षणेन क्षपयत्येष कफरोगनिकृन्तन: ॥३॥
इत्यग्निकुमार: ॥ अथ द्वितीयाग्निकुमार: । रसेन गन्धं सह टड्कणेन समं विषं योज्यमतस्त्रिभागम्‍ । कपर्दशड्खावपि नेत्रभागो मरीचकं चाष्टगुणं विमर्द्य ॥१॥
सुपक्वजम्बीरसेन खल्वे शुद्धो भवत्यग्निकुमारकोऽयम्‍ । अजीर्णवातं गुदगुल्मवातं विषूचिकाद्यं विनिहन्ति सद्य: ॥२॥
इति द्वितीयोऽग्निकुमार: ॥ अथ लघुक्रव्याद: ।
पारदाद्विगुणं गन्धं गन्धांशं मृतलोहकम्‍ । पिप्पली पिप्पलीमूलमग्निशुण्ठीलवड्गकम्‍ ॥१॥
लोहसाम्यं पृथक्कुर्याद्रससाम्यं सुवर्चलम्‍ । टड्कणं मरिचं चापि गन्धतुल्यं प्रदापयेत्‍ ॥२॥
एतद्विचूर्ण्य यत्नेन भावयेत्सप्तधाम्लकै: । एतद्रसायनं श्रेष्ठं माषमात्रं प्रदापयेत्‍ ॥३॥
तक्रेण केवलं वापि दद्याद्भोजनपाचने । क्षिप्रं तज्जीर्यते भुक्तं दीपनं भवति ध्रुवम्‍ ॥ सर्वाजीर्णप्रशमनं लघुक्रव्यादसंज्ञितम्‍ ॥४॥
इति लघुक्रव्याद: ॥ अथ बृहत्क्रव्याद: मन्थानभैरवात्‍ । द्विपलं गन्धकं शुद्धं द्रावयित्वा विनिक्षिपेत्‍ । पारदं पलमानं तु मृतशुल्बायसं पुन: ॥१॥
पलमानेन संमिश्र्य पञ्चाड्गुलदले क्षिपेत्‍ । ततो विचूर्ण्य़ यत्नेन लोहपात्रे विचक्षण: ॥२॥
स्थापयेच्च रसं तत्र पात्रं चोपरि निक्षिपेत्‍ । वस्त्रशुद्धं तत: कृत्वा लोहपात्रे विनिक्षिपेत्‍ ॥३॥
मृदग्निना पचेत्तत्तु दर्व्या संचालयेन्मुहु: । पात्रमात्रं रसं सम्यग्‍ दद्याज्जम्बीरकस्य तु ॥४॥
संचूर्ण्य पञ्चकोलोत्थै: कषायै: साम्लवेतसै: । भावना: किल दातव्या: पञ्चाशत्प्रमिता: पृथक्‍ ॥५॥
भृष्टटड्कणचूर्णं च तुल्येन सह मेलयेत्‍ । तदर्धं कृष्णलवणं मरीचं सर्वतुल्यकम्‍ ॥६॥
सप्तधा भावयेत्पश्चाच्चणकक्षारवारिणा । तत: संशोष्य संपिष्य कूप्याश्च जठरे क्षिपेत्‍ ॥७॥
अत्यर्थं गुरुमांसानि गुरुभोज्यान्यनेकश: । भुक्त्वा चाकण्ठपर्यंन्तं चतुर्वल्लमितो रस: ॥८॥
कट्वम्लतक्रसहित: पीतमात्रो हि पाचयेत्‍ । पुनर्भोजयति क्षिप्रं का पुनर्मन्दवह्निता ॥९॥
रस: क्रव्यादनामायं प्रोक्तो मन्थानभैरवै: । सिंहलक्षोणिपालस्य भूरिमांसप्रियस्य च ॥ पुनर्भोजनकामस्य भैरवानन्दयोगिन: ॥१०॥
कुर्याद्दीपनमूर्ध्वजत्रुगदहृत्‍ कुष्ठामसंशोधनस्तुन्दस्थौल्यनिबर्हणो मदहर: शूलार्तिमूलापह: । गुल्मप्लीहविनाशको बहुरुजां विध्वंसनो वातहा वातग्रन्थिमहोदरापहरण: क्रव्यादनामा रस: ॥११॥
इति बृहत्क्रव्याद: ॥ अथाजीर्णे योगा: ॥ द्वौ क्षारौ टड्कणं सूतं लवड्गं लवणत्रयम्‍ । पिप्पली गन्धकं शुण्ठी मरीचं पलसंमितम्‍ ॥१॥
कर्षमेकं विषं दत्वा सूक्ष्मत्तूर्णानि कारयेत्‍ । अर्कदुग्धस्य दातव्या भावना सप्तवासरम्‍ ॥२॥
अन्तर्धूमं गजपुटे स्वाड्गशीतं समुद्धरेत्‍ । ततो लवड्गमरिचस्फटिकीनां पलं पलम्‍ ॥३॥
सर्वं संमर्द्यं दृढवदृढभाण्डे निधापयेत्‍ । सायं गुञ्जाद्वयं खादेद्भुक्तं द्रावयति क्षणात्‍ ॥४॥
पुनर्भोजनवाञ्छां च जनयेत्प्रहरोपरि । आममांसं द्रावयति श्लेष्मरोगनिकृन्तनम्‍ ॥५॥
अथाग्निमुखो रस: ॥ सूतं गन्धं विषं तुल्यं मर्दयेदार्द्रकद्रवै: । अश्वत्थचिञ्चापामार्गक्षार: क्षारौ च टड्कणम्‍ ॥१॥
जातीफलं लवड्गं अ त्रिकुट त्रिफलासमम्‍ । शड्खक्षारं पञ्चपलं हिड्गुजीरं द्विभागिकम्‍ ॥२॥
मर्दयेदम्लयोगेन गुञ्जमात्रा वटी शुभा । पाचनी दीपनी सद्योऽजीर्णशूलविषूचिका: ॥३॥
हिक्वां गुल्मं चोदरं च नाशयेन्नात्र संशय: । रसेन्द्रसंहितायां च नाम्ना वह्निमुखो रस: ॥४॥
इत्यग्निमुखो रस:  । अथाजीर्णारिरस: ॥ शुद्धं सूतं गन्धकं च पलमानं पृथक्‍ पृथक्‍ । हरीतकी च द्विपला नागरं त्रिपलं स्मृतम्‍ ॥१॥
कृष्णा च मरिच्म तद्वत्सिन्धूत्थं त्रिपलं पृथक्‍ । चतुष्पला च विजया मर्दयेन्निम्बुकद्रवै: ॥२॥
पुटानि सप्त देयानि घर्ममध्ये पुन: पुन: । अजीर्णारिरयं प्रोक्तं: सद्यो दीपनपाचन: ॥ भक्षयेद्विगुणं भक्ष्यं पाचयेद्रेचयेदपि ॥३॥
इत्यजीर्णारि: ॥ अथ पाशुपतो रस: । धन्वन्तरीयमतात्‍ । कर्षं सूतं द्विधा गन्धं त्रिभागं भस्मतीक्ष्णकम्‍ । त्रिभि: समं विषं योज्यं चित्रकद्रवभावितम्‍ ॥१॥
द्विधा त्रिकटुकं योज्यं लवड्गैले तु तत्समे । जातीफलं जातिपत्रं चार्धभागमितं मतम्‍ ॥२॥
तथार्धं पञ्चलवणं स्नुह्यर्को वापि तित्तिणी । अपामार्गोऽश्वत्थ एषां लवणं च पलार्धकम्‍ ॥३॥
टड्कणं यावकक्षारं स्वर्जिकाहिड्गुजीरकम्‍ । हरीतकी सुततुल्या मर्दयेदम्लयोगत: ॥४॥
धूर्तबीजस्य वै भस्म सर्वै: सप्तभागत: । रस: पाशुपतो नाम प्रोक्त: प्रत्ययकारक: ॥५॥
गुञ्जा मात्रा वटी कार्या सर्वाजीर्णंविनाशिनी। ताममूली तक्रयोगादुदरामयनाशिनी ॥६॥
मोचरसिनातिसारं ग्रहणीतक्रसैन्धवै: । शूले नागरकं शस्तं हिड्गुसौवर्चलान्वितम्‍ ॥७॥
अर्श:सु तक्रेण हिता पिप्पली राजयक्ष्मणि । वातरोगं निहन्त्याशु शुण्ठीसौवर्चलान्विता ॥८॥
गुडूचीशर्करायोगात्पित्तरोगविनाशिनी । पिप्पलीक्षौद्रयोगेन श्लेष्मरोगान्निकृन्तति ॥ अत: परतरा नास्ति धन्वन्तरमते वटी ॥९॥
इति पाशुपतो रस: ॥
अथ रससिन्धोरादित्परस: ॥ दरदं च विषं गन्धं त्रिकटु त्रिफलासमम्‍ । जातीफलं लवड्गं च लवणानि च पञ्च वै ॥१॥
सर्वमेतत्‍ कृतं चूर्णमम्लयोगेन सप्तधा । भावयित्वा वटी कार्या गुञ्जार्धप्रमिता बुधै: ॥२॥
रसो ह्यादित्यसंज्ञोऽयमजीर्णक्षयकारक: । भुक्तमात्रं पाचयति जठरानलदीपन: ॥३॥
इत्यादित्यरस: ॥ अथ हुताशन: ॥ एकं च दिग्द्वाद्शभागमानं योज्यं विषं टड्कणमूषणं च । हुताशनो नाम हुताशनस्य करोति वृद्धिं कफवातहन्ता ॥१॥
अन्यच्च । एकांशका: पारदगन्धटड्का: कपर्दशड्खामृतगेहधूमा: । त्र्यंशा इमेऽथो मरिचं त्विभांशां संमर्दितं जम्भरसेन गाढम्‍ ॥१॥
गुल्मारोवकशूलाह्निसदनाजीर्णं विषूचीकफं जाड्यं शीर्षसमुद्भवं च कसनं मुद्गप्रमाणा वटी ॥ लीढार्द्रस्य रसेन हन्ति कथितानेतान्‍ गदान्‍ ब्रम्हणा पूर्वें निर्मित एष यत्नशतकैर्नाम्ना हुताशो रस: ॥२॥
इतिहुताशनरस: ॥ अथाजीर्णकट्ण्टको रस: ॥
शुद्धुसूतं विषं गन्धं प्रत्येकं च समं समम्‍ । मरीचं सर्वतुल्यांश कण्टकारिफलद्रवै: ॥१॥
मर्दयेद्भावयेद्यत्नादेकविंशतिवारकम्‍ । गुञ्जात्रयमिदं खादेत्सर्वाजीर्णप्रशान्तये ॥ सर्वोपद्रवसंयुक्तां विषूचीमपि नाशयेत ॥२॥

इति रसा: ॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:50:13.8600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

whet

  • पाजळणे, धार देणे, धार लावणे 
  • प्रदीप्त करणे 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.