TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रसा: ॥

॥ अथ रसा: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रसा: ॥
अथ नवज्वरेभाड्कुशो रसराजल्क्ष्या: ॥ सनग्धटड्कं रसभूषणम च विमर्दितं भावयमीनपित्तै: । दिनत्रयं वल्लयुगं प्रदद्याद्‍वृन्ताकतक्रौदनपथ्यमत्र ॥१॥
नवज्वरेभाड्कुशनामधेय: क्षणेन धर्मोद्गममातनोति ॥२॥
अथ पञ्चामृत रस: । स्वर्णरौप्यविपन्नगलोहं चन्द्रहक्‍शिखिचतु:शरभागम्‍ । मर्दितं तनुतरं दिनमेकं भावितं मकरपित्तरसेन ॥१॥
वल्लयुग्ममखिलज्वरशान्त्यै शर्करार्द्रकरसेन ददीत ॥२॥ इति पञ्चामृतरस: । अथ जीर्णज्वराड्कुश: । मृतं सूताश्र्त्रनागार्ककान्तवैक्रान्तमेव च । हिड्गुलं टड्कणं गन्धं विषं कुष्ठं समांशकम्‍ ॥१॥
त्रिकटुत्रिफलामुस्ताभृड्गनिर्गुण्डिकाद्रवै: भावयेत्रिदिनं चैव माषमात्रानुपानत: ॥४॥
जीर्णज्वरे क्षये कासे दोषे मन्दानलेषु च । पाण्डु हलीमकं गुल्ममुदरं चार्दितं जयेत्‍ ॥५॥
ग्रहणीमूलरोगांश्च त्वरोचकमनेकधा । कान्तिं तेजो बलं पुष्टिं वीर्यवृद्धिं विवर्धयेत्‍ ॥ साध्यासाध्यं निहन्त्याशु रसो जीर्णज्वराड्कुश: ॥६॥ इति जीर्णज्वराड्कुश: ॥

॥ अथ मुक्तापञ्चामृतरस: ॥
मुक्ताप्रवालखुरवड्गककम्बुशुक्तिभूतिं वसूदधिदृगिन्दुसुधांशुभागम्‍ । इक्षो रसेन सुरभे: पयसा विदारीकन्यावरीषु रसहंसपदीरसैश्च ॥१॥
संमर्द्य यामयुगलं च वनोपलाभिर्दद्यात्पुटानि मृदुलानि च पञ्च पञ्च । पञ्चामृतं रसविभुं भिषजा प्रयुज्य गुञ्जाचसुष्टयमितं चपलारजश्च ॥२॥
पात्रे निधाय चिरसूतपयस्विनीनां दुग्धेन च प्रपिबत: खलु चाल्पभोक्तु: । जीर्णज्वर: क्षयमियादथ सर्वरोगा: स्वीयानुपानकलिताश्च शमं प्रयान्ति ॥३॥ इति मुक्तापञ्चामृतरस: ॥

॥ अथ पञ्चामृतरस: ॥
रसेन्द्रसिन्दूरसुवर्णकान्तसिन्दूरमभ्रं ससितं च तारम्‍ । पञ्चामृताख्यं क्षयपाण्डुरोगगुदाड्कुरार्शोग्रहणीर्निहन्ति ॥१॥
इति पञ्चामृतरस: ॥

॥ अथ त्रिभुवनकीर्तिरस: ॥
हिड्गुलं च विषं व्योषं टड्कणं मागधीं शिफाम्‍ । संचूर्ण्य भावयेत्रेधा सुरसार्द्रकहेमभि: ॥१॥
रसस्त्रिभुवनकीर्तिर्गुञ्जैकार्द्रद्रवेण वै । विनाशयेज्ज्वरान्‍ सन्निपातांस्त्रयोदश ॥ इति त्रिभुवनकीर्तिरस: ॥

॥ अथ महाज्वराड्कुश: ॥
शुद्धसूतं विषं गन्धं धूर्तबीजं त्रिभि: समम्‍ । चतुर्णां द्विगुणं व्योषं हेमक्षीरविभावितम्‍ ॥१॥
चतुर्वारं घर्मशुष्कं चूर्णं गुञ्जाद्वयोन्मितम्‍ पक्वजम्बीरकद्रावैर्युक्तार्द्रस्य द्रवैर्युतम्‍ ॥२॥
महाज्वराड्कुशो नाम ज्वराणामन्तको भवेत्‍ । ऐकाहिकं द्याहिकं वा त्र्याहिकं वा चतुर्थकम्‍ । विषमं वा त्रिदोषोत्थं नाशयेद्याममात्रत: ॥३॥ इति महाज्वराड्कुश: ।

॥ अथ शीताड्कुश: ॥
तुत्थं टड्कणसूतखर्परविषं स्याद्‍गन्धकं तालकं सर्वं खल्वतले विमर्द्य घटिकां तत्कारवल्लीरसै: । गुञ्जैका गुटिका सुशर्करयुता सज्जीरकेणाथवा एकद्वित्रिचतुर्थशीत हरण: शीताड्कुशो नामत: ॥१॥ इति शीताड्कुश: ॥

॥ अथ सन्निपातभैरवरस: ॥
रसो गन्धस्त्रित्रिकर्षै: कुर्यात्कज्जलिकां द्वयो: । ताराताम्रड्गाहिसाराश्वैकैककार्षिका: ॥१॥
शिग्रुज्वालामुखीशुण्ठीबिल्वेभ्यस्तण्डुलीयकात्‍ । प्रत्येकं स्वरसै: कुर्याद्यामैकैकं विमर्दनम्‍ ॥२॥
कृत्वा गोलं वृतं वस्त्रैर्लवणापूरिते न्यसेत्‍ । काचभाण्डे तत: स्थाल्यां काचकुपीं निवेशयेत्‍ ॥३॥
वालुकाभि: प्रपूर्याथ वह्निर्यामद्वयं भवेत्‍ । तत उद्दृत्य तं गोलं चूर्णयित्वा विमिश्रयेत्‍ ॥४॥
प्रवालचूर्णकर्षेण शाणमात्रविषेण च । कृष्णसर्पस्य गरलैर्द्विवारं भावयेत्तथा ॥५॥
तगरं मुसली मांसी हेमाह्वा वेतस: कणा । नलिनीपत्रकं चैला चित्रकश्च कुठेरक: ॥६॥
शतपुष्पा देवदाली धत्तूरागस्त्यमुण्डिका: । मधूकजातिमदनरसैरेषां विमर्दयेत्‍ ॥७॥
प्रत्येकमेकवेलं च तत: संशोष्य धारयेत्‍ । बीजपूरार्द्रकद्रावैर्मरीचै: षोडशोनितै: पातस्य भैरव: ॥९॥
अन्यच्च । सूतं गन्धं लोहकिट्टं विमर्द्य सर्वस्तुल्यं वत्सनाभं नियुजञ्ज्यात्‍ । आर्द्रं भृड्गं बीजपूरं जयन्त्या निर्गुण्डीकाव्यस्तराजद्रवैश्च । युक्त्या वैद्यैर्भावयित्वा विधेय: शाणार्धार्धं सन्निपातस्य नूनम्‍ । शीतैर्वातैर्निर्मलं स्नानपानं पथ्यं दुग्धं शर्कराभिर्युतं च ॥२॥ इति सन्निपातभैरवरस: ।

॥ अथ त्रैलोक्यतापहर: ॥
सूतशुल्बत्रिवृताबलितिदन्तिबीजचपला विषतिन्दु: । पथ्यया सह विचूर्ण्य समांशं हेमवारिसहितं दिनमेकम्‍ ॥१॥
वल्लयुग्मगुटिकार्द्रकवारा नाशयेदभिनवज्वरमाशु । विश्वतापहरणोऽत्र च पथ्यं मुद्गयूषसहितं लघु युक्तम्‍ ॥२॥
इति त्रैलोक्यतापहर: ॥

॥ अथामृतकलानिधिरस: ॥
अमृतवराटकमरिचैर्द्विपञ्चनमांशै: । मुद्गप्रमाणवटको ज्वरपित्तकफाग्निमान्द्यहारी स्यात्‍ ॥१॥

॥ अथ ज्वरमुरारि: ॥
रसबलिफणिलोहव्योमताम्राणि तुल्यान्यथ रसदलभागो नाग एतप्रघृष्टम्‍ । भवति गदमुरारिश्चास्य गुञ्जार्द्रवारा क्षपयति दिवसेन प्रौढमामज्वराख्यम्‍ ॥१॥
अथच । त्रि:सप्तजम्भजलभावितखर्परस्य चूर्णं त्रिसप्तनवनीतविमर्दितं स्यात्‍ । वल्लद्वयं हरति शर्करयानुपानं सद्यो ज्वरं ज्वरमुरारिरसश्च पुंसाम्‍ ॥१॥ इति ज्वरमुरारि: ॥

॥ अथ चन्द्रशेखररस: ॥
शुद्धसूतसमं गन्धं मरिचं टड्कणं तथा । चतुस्तुल्या सिता योज्या मत्स्यपित्तेन भावयेत्‍ ॥१॥
द्विगुञ्जामार्द्रकद्रावैर्देयं शीतोदकं पुन: । तक्रभक्तं च वृन्ताकं पथ्यं तत्र विधापयेत्‍ ॥२॥
त्रिदिनाच्छ्लेष्मपित्तोत्थमत्युष्णं नाशयेज्ज्वरम्‍ ॥३॥ इति चन्द्रशेखरस: ।

॥अथ स्वर्णमालिनीवसन्त: ॥
स्वर्ण मुक्तादरदमरिचं भागवृन्ध्या प्रदेयं खर्पर्यष्ठौ प्रथमनवनीते निम्बुनीरेण तावत्‍ । यावत्स्नेहो व्रजति विलयं मर्दयेद्दीयतेऽसौ गुञ्जाद्वन्द्वं मधुचपलया सर्वरोगे वसन्त: ॥१॥

॥ अथ लघुमालिनीवसन्त: ॥
रसकयुगुलभागं वल्लिजम्भागमेकं द्वितयमथ मुखल्वे मर्दयेन्वृक्षणेन । भवति घृतविमुक्तो निम्बुनीरेण यावज्ज्वरहरमधुकुल्या मालिनीप्राग्वसन्त: ॥१॥
जीर्णज्वरे धातुगतेऽतिसारे रक्तान्विते रक्तभवे विकारे । घोरव्यथे पित्तभवे च दोषे वल्लद्वयं दुग्धयुतं च पथ्यम्‍ ॥२॥
प्रदरं नाशयत्याशु तथा दुर्नामशोणितम्‍ । विषमं नेत्ररोगं च गजेन्द्रमिव केसरी ॥३॥
वसन्तो मालिनीपूर्व: सर्वरोगहर: शिशो: । गर्भिण्यै तत्र देयो वै जयन्त्या: पुष्पकै सह । सर्वज्वरहर: श्रेष्ठो गर्भपोषण उत्तम: ॥४॥
इति लघुमालिनीवसन्त: ।
अन्यच्च । नराम्बुमध्ये रसकस्य चूर्ण दिनानि सप्त त्रिगुणानि पूर्वम्‍ । धृत्वातपे शोषितमेतदेव नृवारि जीर्णं भवतीति यावत्‍ ॥१॥
पलप्रमाणं मरिचं च निस्तुषं पलद्वयं स्याद्रसकस्य तस्य । एकत्र संचूर्ण्य कृतं तदेव पलार्धकं गोनवनीतकं च ॥२॥
निम्बूत्थतोयेन विमर्दनीयं शतैकमानं भिषजा वरिष्ठम्‍ । वल्लद्वयं चास्य कणामधुभ्यां प्रदापयेद्याधिगजस्य केसरी ॥३॥
नाम्ना प्रसिद्धो रसराज एष सद्यो ग्रहण्यामतिसारके च । ज्वरे क्षयेऽर्शस्सु तथैव तापे शूलाग्निमान्द्यानिलजे विकारे ॥४॥
अन्यच्च । खर्परे मानुषेमूत्रे स्थितं घस्त्रत्रिसप्तकम्‍ । निस्त्वक्‍ तदर्धमरिचं नवनीतेन मर्दयेत्‍ ॥१॥
शतधा भावयेन्निम्बुरसै: स्याद्रसकेश्वर: । पिप्पलीमधुयुग्दत्त: ससितो वास्य भेषजम्‍ ॥२॥
ज्वरं धातुगतं पित्तं भ्रमं पित्तास्त्रजान्‍ गदान्‍ । रक्तातिसारं ग्रहणीं दुर्नामास्त्रं निवारयेत्‍ ॥ अनम्लं दधि वा दुग्धं पथ्यं चास्मिन्प्रयोजयेत्‍ ॥३॥

॥ अथापूर्वमालिनीवसन्त: ॥
वैक्रान्तमभ्रं रवितापरौप्यं वड्गं प्रवालं रसभस्म लोहम्‍ । सुटड्कणम कम्बुकभस्म सर्वं समांशकं सेच्यवरी हरिद्रा ॥१॥
द्रय्वैर्विभाव्यं मुनिसंख्यया च मृगाड्कजाशीतकरेण पश्चात्‍ । वल्लप्रमाणो मधुपिप्पलीभिर्जिर्णज्वरे धातुगते नियोज्य: गुडूचिकासत्वसितायुतश्च सर्वप्रमेहेषु निमोजनीय: ॥२॥
कृच्छ्राश्मरी निहन्त्याशु मातुलुड्गाड्घ्रिजैर्द्रवै: । रसो वसन्तनामायमपूर्वो मालिनीपद: ॥३॥
इत्यपूर्वमालिनीवसन्त: ॥

॥ अथ पञ्चवक्क्र: ॥
शुद्धसूतं विषं गन्धं मरीचं टड्कुणं कणाम्‍ । मर्दयेद्धूर्तजद्रावैर्दिनमेकं च शोषयेत्‍ ॥१॥
पञ्चवक्क्ररसो नम द्विगुञ्ज: सन्निपातजित्‍ । अर्कमूलं कषायं तु त्र्यूषणं चानुपानयेत्‍ ॥२॥
युक्तं दध्योदनं पथ्यं जलयोगं च कारयेत्‍ । रसेनानेन शाम्यन्ति सक्षौद्रेण कफादय: ॥३॥
मधु त्वर्करसं चानुपिबेदग्निविवृद्धये । यथेष्टं घूतमत्याशु दीप्तो भवति पावक: ॥४॥
इति पञ्चवक्क्र: ।

॥ अथ चन्द्रकलारस: ॥
गगनदरदयुक्तं शुद्धसूतं च गन्धं प्रहरमथ सुपिष्टं वल्लयुग्मं नरोऽद्यात्‍ । ज्वरहरगजसिंह: शृड्गबेरोदकेन प्रथमजनितदाहे तक्रभक्तं च भोज्यम्‍ ॥१॥
मुस्तादाडिमदूर्वात्थै: केतकीस्तनजद्रवै: । सह देव्या: कुमार्याश्च पर्पटस्यापि वारिणा ॥२॥
रामशीतलिकातोयै: शतावर्या रसेन च । भावयित्वा प्रयत्नेन दिवसे दिवसे पृथक्‍ ॥३॥
तिक्ता गुडूचिकासत्वं पर्पटोशीरमाधवी । श्रीगन्ध सारिवा चैषां समानं सूक्ष्मचूर्णितम्‍ ॥४॥
द्राक्षाफलकषायेण सप्तधा परिभावयेत्‍ । तत: पोताश्रयं कृत्वा वट्य: कार्याश्चणोपमा: ॥५॥
अयं चन्द्रकलानाम्ना रसेन्द्र: परिकीर्तित: । सर्वपित्तगद्ध्वंसी वातपित्तगदापह: ॥६॥
अन्तर्बाह्यमहादाहविद्ध्वंसनमहाघन: । ग्रीष्मकाले शरत्काले विशेषेण प्रशस्यते ॥७॥
कुरुते नाग्निमान्द्यं च महातापज्वरं हरेत्‍ । भ्रममूर्च्छाहरं चाशु स्त्रीणां रक्तं महास्त्रवम्‍ ॥८॥
ऊर्ध्वाधो रक्तपित्तं च रक्तं वान्तिं विशेषत: । मूत्रकृच्छ्राणि सर्वाणि नाशयेन्नात्र संशय: ॥९॥
इति चन्द्रकलारस: ॥ इति रसा: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T21:15:03.4670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

advertise the posts locally

  • स्थानीय रुप से पदोंका विज्ञापन दिया जाए 
RANDOM WORD

Did you know?

वास्तुशास्त्र पाहणे कितपत विश्वासार्ह आहे? त्याचे परिणाम जाणवतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.