TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम् ॥

॥ तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम् ॥
॥ तत्र क्रमप्राप्तं प्रथमं ज्वरलक्षणम्‍ ॥
दक्षापमानसंक्रुद्धरुद्रनिश्वाससम्भव: । ज्वरोऽष्टधा पृथरद्वन्द्वसंघातागन्तुज: स्मृत: ॥१॥
ज्वरस्य सम्प्राप्तिमाह । मिथ्याहारविहारभ्यां दोषा ह्यामाशयाश्रया: । अकाले चातिमात्रं च ह्यसात्म्यं दुष्टभोजनम्‍ ॥२॥
विषमात्रं च अद्भुक्तं मिथ्याहार: स उच्यते । आहारस्य रस: सारो यो न पक्कोऽग्निलाघवात्‍ ॥३॥
आमसंज्ञां स लभते बहुव्याधिसमाश्रय: । अशक्त: कुरुते कर्म शक्तो नैतत्‍ करोति हि ॥४॥
मिथ्याविहार इत्युक्त: सदा चैनं विवर्जयेत्‍ । बहिर्निरस्य कोष्ठाग्निं ज्वरदा: स्यू रसानुगा: ॥५॥
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लव: । इच्छाद्वेइषौ मुहुश्चापि शीतवातातपादिषु ॥६॥
जृम्भाड्गमर्दो गुरुता रोमहर्षोऽरुचिस्तम: । अप्रहर्षश्च शीतं च भवन्त्युत्पित्सति ज्वरे ॥७॥
सामान्यतो विशेषेण जृम्भात्यर्थं समीरणात्‍ । पित्तान्नययोर्दाह: कफान्नन्नाभिनन्दनम्‍ ॥८॥
सर्वलिड्गसमावाय: सर्वदोषप्रकोपजे । रूपैरन्यतराभ्यां तु संसूष्टैर्द्वन्द्वजं विदु: ॥९॥
स्वेदावरोध: सन्ताप: सर्वाड्गग्रहणं क्लम: । युगपद्यत्र रोगे तु स ज्वरो व्यपदिश्यते ॥१०॥
इति सामान्यज्वर: ॥

॥ अथ वातज्वरलक्षणम्‍ ॥
वेपथुर्विषमओ वेग: कण्ठोष्ठ्परिशोषणम्‍ । निद्रानाश: क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ॥१॥
शिरोहृद्गात्ररुग्वक्रवैरस्यं बद्धविट्‍कता । शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ॥२॥

॥ अथ पित्तज्वरलक्षणम्‍ ॥
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता । शुक्लमूत्रपुरीष्त्वं स्तम्भस्तृप्तिरथापि च ॥१॥
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता । स्त्रोतोरोधस्त्वगल्पत्वं प्रसेको बहुमूत्रता ॥२॥
नात्युष्णगात्रता छर्दिराग्निसादोऽविपाकता । प्रतिश्यायोऽरुचि: कास: कफजेऽक्षोश्च शुक्लता ॥३॥

॥ अथ वातपित्तज्वरलक्षणम्‍ ॥
तृष्णा मूर्छा श्रमो दाह: स्वप्ननाश: शिरोरुजा । कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तम: ॥ पर्वतभेदश्च जृम्भा च वातपित्तज्वराकृति: ॥१।

॥ अथ वातश्लेष्मज्वरलक्षणम्‍ ॥
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च । शिरोग्रह: प्रतिश्याय: कास: स्वेदाप्रवर्तनम्‍ ॥ संतापो मध्यवेश्च वातश्लेष्मज्वराकृति: ॥१॥

॥ अथ पित्तश्लेष्मज्वरलक्षणम्‍ ॥
लिप्ततिक्तास्यता तन्द्रा मोह: कासोऽरुचिस्तृषा । मुहुर्दाहो मुहु: शीतं पित्तश्लेष्मज्वराकृति: ॥१॥
 
॥ अथ सन्निपातज्वरलक्षणम्‍ ॥
विरोधिकैरन्नपानैरजीर्णाभ्यसनेन च । व्यामिश्रसेवनाच्चापि सन्निपात: प्रकृप्यति ॥१॥
क्षणे दाह: क्षणे शीतमस्थिसन्धिशिरोरुजा । सस्त्रावे कलुषे रक्ते निर्भुग्रेचापि लोचने ॥२॥
सस्वनौ सरुजौ कर्णौ कण्ठ: शूकैरिवावृत्त: । तन्द्रा मोह: प्रलापश्च कास: श्वासोऽरुचिर्श्रम: ॥३॥
तद्वच्छीतं महानिद्रा दि मोह:निशि । सदा वा नैव वा निद्रा महास्वेदोऽथ नैव वा ॥४॥
गीतनतनहास्यादि विकृतेहाप्रवर्तनम्‍ । परिदग्धा खरस्पर्शो जिह्वा स्त्रस्ताड्गता परम्‍ ॥५॥
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च । शिरसो लोटनं तृष्णा निद्रानाशो हृदिव्यथा ॥६॥
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पश: । कृशत्वं चापि गात्राणां सततं कण्ठकूजनम्‍ ॥७॥
कोष्ठानां श्यावरक्तानां मण्डलानां च दर्शनम्‍ । मूकत्वं स्त्रोतसां पाको गुरुत्वमुदरस्य च ॥ चिरात्पाकश्च दोषाणां सन्निपातज्वराकृति: ॥८॥ इति सन्निपातज्वरलक्षणम्‍ ॥
॥ अथ सन्निपातभेदा: ॥
अम्लस्निग्धोष्णतीक्ष्णै: कटुमधुरसुरातापसेवाकषायै: स्वादुक्रोधातिरुक्षैर्गुरुतरपिशिताहारसौहित्यशीतै: । शोकव्यायामचिन्ताग्रहणगवनितात्पन्तसड्गप्रराड्गै: प्राय: कश्चान्तकश्चैव रुग्दाहश्चित्तविभ्रम: । शीताड्गस्तन्द्रिकश्चैव कण्ठकुब्जश्च कर्णक: ॥२॥
विख्यातो भग्ननेत्रश्च रक्तष्ठीवी प्रलापक: । जिह्वकश्चेत्यभिन्यास: सन्निपातास्त्रयोदश ॥३॥
तेषां दिनमर्यादामाह । सन्धिके वासरा: सप्त चान्तके दश वासरा: रुग्दाहे विंशतिर्ज्ञेया तेथाष्टौ चित्तविभ्रमे ॥४॥
पक्षमेकं तु शीताड्गे तन्द्रिके पञ्चविंशति: । विज्ञेया वासराश्वैव कण्ठकुब्जे त्रयोदश ॥५॥
कर्णके च त्रयोमासा भग्ननेत्रे दिनाष्टकम्‍ । रक्तष्ठीविनि दिग्घस्त्रा: प्रलापे स्युश्चतुर्दश ॥६॥
जिह्वके षोडशाहानि पक्षोऽभिन्यासलक्षणे । परमायुरिदं पोक्तं म्रियते तत्क्षणादपि ॥७॥
तयोदशानां पृथगूलक्षणान्याह । पूर्वरुपकृतशूलसंभवं शोषवातबहुवेदनान्वितम्‍ । श्लेष्मतापबलहाजिजागरं सन्निपातमिती सन्धिकं वदेत्‍ ॥८॥
दाहं करोति परितापनमातनोति मोहं ददाति रुदतीति शिर:प्रकम्पम्‍ । हिक्कां तनोति कसनं सततं विधत्ते जानीहि तं विधुधवर्जितमन्तकाख्यम्‍ ॥९॥
इत्यन्तकस्यासाध्यत्वादौषधं नास्ति । प्रलापपरितापनप्रबलमोहमान्द्यश्रम: परिभ्रमणवेदनाव्यथितकण्ठमन्याहनु: । निरन्तरतृषाकर: श्वसनकासहिक्काकुल: स कष्ठतरसाधनो भवति हन्त रुग्दाहक: ॥१०॥
यदि कथमपि पुंसो जायते कायपीडा श्र्त्रममदपरितापो मोहवैकल्यभाव: । विकलनयनहासो गीतनृत्यप्रलापऽभिदधति तमसाध्यं केऽपि चित्तभ्रमाख्यम्‍ ॥११॥
हिमसदृशशरीरो विपथुश्वासहिक्काशिथिलितसकलाड्गो खिन्न्नादोऽस्तताप: । क्लमथुदवथुकासच्छर्द्यतीसारयुक्तस्त्वरितमरणहेतु: शीतगात्रप्रभावात्‍ ॥१२॥
इति शीताड्गुसन्निपातोऽसाध्य: । प्रभूता तन्द्रार्तिर्ज्वरकफपिपासाकुलतरो भवेच्छ्यामा जिह्वा पृथुलकठ्ना कण्टकवृता । अतीसारश्वासक्लमथुपरितापश्रुतिरुजो भृशं कण्ठे जाड्यं शयनमिशं तन्दिकगदे ॥१३॥
शिरोर्तिकण्ठग्रहदाहमोहकम्पज्वरो रक्तसमीरणार्त्ति: । हनुग्रहस्तापविलापमूर्छा: स्यात्कण्ठकुब्ज: किल कष्ट्साध्य: ॥१४॥
प्रलापश्रुतिहासकण्ठहाड्गव्यथास्वास्कासप्रसेकप्रभावम्‍ । ज्वरोत्तापकर्णान्तिकग्रन्थिशोथं बुधा: कर्णकं कष्ठसाध्यं वदन्ति ॥१५॥
ज्वरे प्रथममुत्पन्ने चक्षुर्भ्यां नैव पश्यति । तन्द्रिक: सन्निपातो ऽयं कष्टसाध्यो भवेत्तत: ॥१६॥
ज्वरबलोपचिति: स्मृतिशून्यताश्वसनभग्रविलोचनमोहित: । प्रलपनश्रमकम्पनशूलवांस्त्यजति जीवितमाशु स भग्नदृक्‍ ॥१७॥
रक्तष्ठीवी ज्वरवमितृषामोहशुलातिसारा हिक्काध्मानभ्रमणवमथुश्वाससंज्ञाप्रणाशा: । श्यामा रक्ताधिकतरतनुर्मण्डलोत्थानरुपा रक्तष्ठीवी निगदित इह प्राणहन्ता प्रसिद्ध: ॥१८॥
प्रलापकलक्षणम्‍ । कम्पप्रलापपरितापनगात्रपीडाप्रौढप्रभावपवमानपरोऽन्यचित्त: ॥ प्रज्ञाप्रणाशविकल: प्रचुरप्रवाद: क्षिप्रं प्रयाति पितृपालपदं प्रलापी ॥१९॥
जिह्वकलक्षणम्‍ । श्वसनकासपरितापविह्वल: कठिनकण्टकवृतातिजिह्वक: । बधिरमूकबलहानिलक्षणौ भवति कष्ठतरसाध्यजिह्वक: ॥२०॥
दोषत्रये स्निग्धमुखत्वनिद्रावैकल्यनिश्चेतनकष्टवाग्मी । बलप्राणाश: । श्वसनादिनिग्रहोऽभिन्यास उग्रो ननु मृत्युकल्प: ॥२१॥
इति त्रयोदश सन्निपाता: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T19:50:33.4470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ढबळ्याजवळ बांधला पोवळा, वाण नाहीं पण गुण लागला

  • ढवळा पहा. तु०-संगतिम संगदोषेण. 
RANDOM WORD

Did you know?

समुद्रस्नान केव्हा करावे व केव्हा करू नये ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site