TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ रक्तपित्तनिदानम् ॥

॥ अथ रक्तपित्तनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ रक्तपित्तनिदानम् ॥
॥ अथ रक्तपित्तनिदानम् ॥
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितै: । तीक्ष्णौष्णक्षारलवणैरम्लै: कटुभिरेव च ॥१॥
कोद्रवोद्दालकैश्चान्नैस्तुद्युक्तैरतिसेवितै: । पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणीतम्‍ ॥२॥
तत: प्रवर्तते रक्तमूर्ध्वं चाधो द्विधापि वा ॥ अमाशयाद्‍व्रजेदूर्ध्वमध: पक्वाशयाद्‍व्रजेत्‍ ॥३॥
विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते । ऊर्ध्वं कर्णाक्षिनासास्यैर्मेण्ढ्रयोनिगुदैरध: ॥४॥
कुपितं रोमकूपैस्तु समस्तैस्तत्प्रवर्तते । श्लैष्मिकमाह । केचिच्च यकृत: प्लीह्न: प्रवदन्त्यसृजो गतिम्‍ ॥५॥
सदनं शीतकामित्वं कण्ठधूमायनं वमि: । लोहगन्धिश्च नि:श्वासो भवत्यस्मिन्भविष्यति ॥६॥
वातिकमाह ॥ सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफात्मकम्‍ ॥ श्यावारूणं सफेनं च तनु रुक्षं च वातिकम्‍ ॥७॥
पैत्तिकमाह । रक्तपित्तं कषामयं कृष्णं गोमूत्रसन्निभम्‍ । मेचकागारधूमाभमञ्जनाभं च पित्तिकम्‍ ॥८॥
सान्निपातिकमाह । संसृष्टलिड्गं संसर्गात्रिलिड्गात्सान्निपातिकम्‍ । ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्‍ ॥९॥
द्विमार्गं कफवाताभ्या मुभाभ्यामनुवर्तते । ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम्‍ ॥१०॥
रुक्षाद्यभ्यासतो दुष्टो रसो रक्तं प्रदूषयेत्‍ । एकमार्गं बलवतो नातिवेगं नवोत्थितम्‍ ॥११॥
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्‍ । एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ॥१२॥
त्रिदोषजमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्‍ । व्याधिभि: क्षीणदेहस्य वृद्धस्यानश्नतश्चयत्‍ ॥१३॥
दौर्बाल्यं श्वासकासज्वरवमथुमदा: पाण्डुता दाहमूर्च्छे भुक्ते घोरो विदाहस्त्वधृतिरपि सदा त्दृद्यतुल्या च पीडा । तृष्णा कोष्ठस्य भेद:
शिरसि च तपनं पूतिनिष्ठीवनत्वं भक्तद्वेषाविपाकौ विकृतिरपि भवेद्रक्तपित्तोपसर्गा: ॥१४॥
मांसप्रक्षालनाभं क्वथितमिव च यत्कर्दमाम्भोनिभं वा मेद:पूयास्त्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्‍ । यत्कृष्णं यच्च नीलं
भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥१५॥
येन चोपहतो रक्तं रक्तपित्तेन मानव: । पश्येद्‍ दृश्यं वियच्चापि तस्यासाध्यमसंशयम्‍ ॥१६॥
लोहितं छर्दयेद्यस्तु सततं लोहितेक्षण: । लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिक: ॥१७॥
इति रक्तपित्तनिदानम्‍ ॥
==
॥ अथातो रक्तपित्तचिकित्सां व्याख्यास्याम: ॥
पित्तास्त्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनश्रुतम‍ । हृत्पाण्डुग्रहणीरोगप्लीहगुल्मोदरादिकृत्‍ ॥१॥
क्षीणमांसबलं बालं वृद्धं शोषानुबन्धिनम्‍ । अवाम्यमविरेच्यं च शमनीयैरुपाचयेत्‍ ॥२॥
अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिन: । अक्षीणबलमांसाग्रे: कर्तव्यमपतर्पणम्‍ ॥३॥
ऊर्ध्वगे रेचनं पूर्वमधोगे वमनं हितम्‍ । आरग्वधेन धात्र्या वा त्रिवृता पथ्ययाथवा ॥४॥
विरेचनं प्रयोक्तव्यं शर्करामाक्षिकोत्तरम्‍ । मुस्तेन्द्रयवयष्ट्याह्वमदनाह्वं पयो मधु ॥५॥
शिशिरं वमनं योज्यं रक्तपित्तहरं परम्‍ । वृन्दात्‍ । द्राक्षा मधुककाश्मर्यसितायुक्तं विरेचनम्‍ ॥६॥
यष्ठीमधुकसंयुक्तं सक्षौद्रं वमनं हितम्‍ । शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगमे ॥ रक्तातिसारहन्ता च योज्यो विधिरशेषत: ॥७॥
पयांसि शीतानि रसाश्च जाड्गला: सतीनयूषाश्च सशालिषष्टिका: । हितानि चैतानि च रक्तपित्ते चान्यान्यपि स्यु: किल पित्तहानि ॥८॥
शालिषष्टिकनीवारकोरदूषप्रसाधिका: । श्यामाकाश्च प्रियड्गुश्च भोजनं रक्तपित्तिनाम्‍ ॥९॥
मसूरमुद्गचणका: समकुष्ठाढकीफला: । प्रशस्ता: सूपयूषार्थे कल्पिता रक्तपित्तिनाम्‍ ॥१०॥
दाडिमामलकं बिल्वानम्लार्थं चापि दापयेत्‍ । पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवा: ॥११॥
शाकार्थं शाकसात्म्यानां तण्डुलीयादयो हिता: । पारावतकपोतांश्च लावान्‍ । रक्ताक्षवर्तकान्‍ ॥१२॥
शशान्कपिञ्जलानेणान्हरिणान्‍ कालपुच्छकान्‍ । रक्तपित्तहरान्‍ विद्याद्रसं तेषां प्रयोजयेत्‍ ॥१३॥
ईषदम्लाननम्लांश्च घृतभृष्टान्‍ ससैन्धवान्‍ । कफानुगे यूषशाकं दद्याद्वातानुगे रसम्‍ ॥१४॥
पथ्यं सतीनयूषेण सीसतैर्लाजसक्तुभि: । जलं खर्जूरमृद्विकामधुकै: सपरुषकै: ॥१५॥
शृतशीतं प्रयोक्तव्य़ं तर्पणायसशर्करम्‍ । तर्पणं सघृतं क्षौद्रं लाजचूर्णै: प्रदापयेत्‍ ॥१६॥
ऊर्ध्वगं रक्तपित्तं तत्‍ काले पीतं व्यपोहति । ह्नीबेरचन्दनोशीरमुस्तपर्पटकै: शृतम्‍ ॥ केवलं शृतशीतं वा दद्यातोयं पिपासवे ॥१७॥
पय: सिताढ्यं शृतशीतमाजं गव्यं पयो वा प्रसमीक्ष्य वह्निम्‍ । यष्टीमधूकार्जुनभावनीयं द्राक्षाबलागोक्षुरकै: शृतं वा ॥१८॥
द्राक्षया फलिनीभिर्वा बलया नागरेण वा । श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पय: ॥१९॥
शृतेनाजेन पयसा सपिष्टं कुड्कुमं पिबेत्‍ । ऊर्ध्वरक्तविनाशाय तेनैवाज्येन भोजनम्‍ ॥२०॥
यष्टीमधुसमायुक्तं क्षीरं संक्वाथ्य शीतलम्‍ । शर्करामधुसंमिश्रं रक्तपित्तापहं पिबेत्‍ ॥२१॥
क्षीरेण लाक्षामधुमिश्रितेन प्रपीय जीर्णे पयसानुमद्यम्‍ । सद्यो निहन्याद्रुधिरं क्षतोत्थं कान्तार्जुनानामथवापि कल्क:  ॥२२॥
कल्कं मधूकत्रिफलार्जुनानां निशि स्थितं लोहमये सुपात्रे । साज्यं विलिह्यात्तु पिबेत्सुशीतं सशर्करं छागपय: क्षतार्त: ॥२३॥
वृषपत्राणि निष्पीड्य रसं समधुशर्करम्‍ । अनेन प्रशमं याति रक्तपित्तं सुदारूणम्‍ ॥२४॥
मध्वाटरुषकरसौ यदि तुल्यभागौ कृत्वा नर: पिबति पुण्यतर: प्रभाते । तद्रपित्तमतिदारुणमप्यवश्यमाशु प्रशाम्यति जलैरिव वह्निपुञ्ज:
॥२५॥ इति राजमार्तण्डात्‍
आटरुषकनिर्यूह: प्रियड्गुर्मृत्तिकाञ्जने । विनीय लोध्रं सक्षौद्रं रक्तपित्तहरं पिबेत्‍ ॥२६॥
पिष्टानां वृषपत्राणां पुटपाको रसो हिम: । मधुयुक्तो जयेद्रक्तपित्तकासज्वरक्षायन्‍ ॥२७॥
इति वासापुटपाक: । वासायां विद्यमानायामाशायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥२८॥
वासाकषायोत्पलमृत्‍प्रियड्गुलोध्राञ्जनाम्भोरुहकेसराणि । पीत्वा सिताक्षौद्र्युतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु ॥२९॥
आटरुषकमृद्वीकापथ्याक्वाथ: सशर्कर: । क्षौद्राढ्य: कसनश्वासरक्तपित्तनिबर्हण: ॥३०॥
मुद्गा: सलाजा: सयवा: सकृष्णा: सोशीरमुस्ता: सह चन्दनेन । बलाजले पर्युषित: कषाय: स रक्तपित्तं शमयत्युदीर्णम्‍ ॥३१॥
ह्यीबेरं धान्यकं शुण्ठी चन्दनं मधुयष्टिका । वृषोशीरयुत: क्वाथ: शर्करामधुयोजित: ॥३२॥
रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा । उशीरं चन्दनं पाठा द्राक्षा मधुकपिप्पली ॥३३॥
सक्षौद्रं पाययेक्वाथं रक्तपित्तं हरेद्‍ध्रुवम्‍ । अमृता मधुकं चैव खर्जूरं गजपिप्पली ॥३४॥
क्वाथ: क्षौद्रयुतो ह्येष रक्तपित्तविकारनुत्‍ । चन्दनेन्द्रयवौ पाठा कटुका सदुरालभा ॥३५॥
गुडूची वालुकं लोध्रं पिप्पलीक्षौद्रसंयुतम्‍ । कफान्वितं जयेद्रक्तं तृष्णाकासज्वरापहम्‍ ॥३६॥
शतावरी बला रास्त्रा काश्मर्यं सपरुषकम्‍ । पाययेद्रक्तपित्तघ्नं सद्य: शूलहरं परम्‍ ॥३७॥
त्रिफलाकृतमालभवं क्वथनं सितया मधुना मिलितं हरति । ननु शोणितपित्तरुजं विविधां घनदाहकपित्तशॄलदरम्‍ ॥३८॥
अततीकुसुमसमड्गावटप्ररोहास्तृणाम्भसा पीता: । साधयति रक्तपित्तं यदि भुड्गे मुद्गयूषेण ॥३९॥
पक्वोदुम्बरकाश्मर्यपथ्याखर्जूरगोस्तनी । मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्‍ पृथक्‍ ॥४०॥
वासकस्वरसै: पथ्या सप्तधा परिभाविता । कृष्णा वा मधुना लीढा रक्तपित्तं दृढं जयेत्‍ ॥४१॥
द्र्वेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत्‍ । तावत्प्रमाणं निर्दिष्ट भिषग्भिर्भावनाविधौ ॥४२॥
अभया मधुसंयुक्ता पाचनी दीपनी मता । श्लेष्माणं रक्तपित्तं च हन्ति शूलातिसारजित्‍ ॥४३॥
लोहगन्धनिभ: श्वास उद्गारे रक्तगन्धिनि । मृद्वीकोषणमात्रां तु खादेद्विगुणशर्कराम्‍ ॥४४॥
उशीरकालीयकरोध्रपद्मकं प्रियड्गुका कट्‍फलशड्खगैरिका:  । पृथक्‍ पृथक्‍ चन्दनतुल्यभागिका: सशर्करास्तण्डुलधावनप्लुता : ॥४५॥
रक्तं च पित्तं तमकं पिपासां दाहं च पीता: शमयन्ति सद्य: ॥४६॥
पलाशकल्कक्काथो वा सुशीत: शर्करान्वित: । पिबेद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम्‍ ॥४७॥
सक्षौद्रं ग्रथिते रक्ते लिह्यात्पारावतं शकृत्‍ । अतिनि:सृतरक्तो वा क्षौद्रेण रुधिरं पिबेत्‍ ॥४८॥
खदिरस्य प्रियड्गूणां कोविदारस्य शाल्मले: । पुष्पचूर्णानि मधुना लिह्याद्वा रक्तपित्तनुत्‍ ॥४९॥
अश्वत्थपत्राग्ररसात्‍ षडंशो बोलोऽथ तस्माद्विगुणं मधु स्यात्‍ । रक्तप्रवाहं हृदयस्थितं वा वातो यथाभ्रं हरते तथैव ॥५०॥
मूलानि पुष्पाणि च मातुलुड्ग्या: समं पिबेत्तण्डुलधावनेन । घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकयो: पयो वा । द्राक्षरसं क्षीरघृतं पिबेद्वा सशर्करं त्विक्षुरसं हितं वा ॥५१॥
उदुम्बराणि पक्वानि गुडेन मधुनापि वा । उपयुक्तानि निघ्नन्ति नासारक्तं नृणां ध्रुवम्‍ ॥५२॥
नस्यदाडिमपुष्पोत्थो रसो दूर्वाभवोऽथवा । आम्रास्थिज: पलाण्डोर्वा नासिकस्त्रुतरक्तजित्‍ ॥५३॥
हरीतकी दाडिमपुष्पदुर्वा लाक्षारसो नस्यविधानयोगात्‍ । निवारयत्येव चिरप्रवृत्तमप्याशु नासान्तरशोणितौघम्‍ ॥५४॥
नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्ट्मामलकम्‍ । सेतुरिव रुधिरवेगं रुणद्धि मूर्ध्री प्रलेयेन ॥५५॥
प्रियड्गुमृत्तिकालोध्रमञ्जनं चेति चूर्णयेत्‍ । तच्चूर्णं योजयेत्तत्र नस्ये क्षौद्रसमन्वितम्‍ ॥५६॥
नासिकामुखपायुभ्यो योनिमेढ्राच्च वेगितम्‍ । रक्तपित्तस्त्रवं हन्ति सिद्ध एष प्रयोगराट्‍ ॥५७॥
यत्र शस्त्रक्षते चैव रक्तं तिष्ठति वेगितम्‍ । तदप्यनेन चूर्णेन तिष्ठत्येवावचूर्णितम्‍ । मेढ्रतोऽतस्त्रोऽतिप्रवृत्तेऽस्त्रे बस्तिरुत्तर इष्यते ॥५८॥
==
॥ अथ दूर्वाद्यं घृतम्‍ ॥
दूर्वामुत्पलकिञ्जल्कं मञ्जिष्ठां सैलवालुकाम्‍ । शिवालोध्रमुशीरं च मुस्ताचन्दनपद्मकै: ॥१॥
विपचेत्कार्षिकै: कल्कैर्घृतप्रस्थं सुखाग्निना । तण्डुलाम्बुत्वजाक्षीरं दत्वा चैव चतुर्गुणम्‍ ॥२॥
तत्पानाद्वमतो रक्तं नावनं नासिकागतम्‍ । कर्णाभ्यां यस्त गच्छेच्च तस्य कर्णौ प्रपूरयेत्‍ ॥३॥
चक्षु:स्त्राविणि रक्ते च पूरयेत्तेन चक्षुषी । मेन्ढ्रपायुप्रवृत्तेषु बस्तिकर्म प्रकारयेत्‍ ॥ रोमकूपप्रवृत्ते च तदभ्यड्गे प्रयोजयेत्‍ ॥४॥
इति दूर्वाद्यं घृतम्‍ ॥

॥ अथ वासादिघृतम्‍ ॥
वासां सशाखां सदलां समूलां कृत्वा कषायं कुसुमानि चास्या: । प्रदाय कल्कं विपचेद्‍घृतं सतक्षौद्रमाश्वेव निहन्ति रक्तम्‍ ॥१॥
इति वासादिघृतम्‍ ॥
घ्राणस्य कविदारस्य वृषस्य ककुभस्य च । कल्काढ्यत्वात्पुष्पकल्कं प्रस्थे पलचतुष्टयम्‍ ॥२॥
इति वृदान्त्‍ ॥
सनास्यकोविदारस्य वृषस्य कुसुमस्य च । कल्काढ्यत्वात्मशान्ति पुष्पकल्कं चतुष्पलम्‍ ॥३॥
इति योगतरड्गिण्या: ॥

॥ अथ शतावरीघृतम्‍ ॥
शतावरी दाडिमतित्तिडीकं काकोलिकन्दं मधुकं विदारी । पिष्ट्वा च मूलं फलपूरकस्त पचेद्‍घृतं क्षीरचतुर्गुणं तत्‍ । कासज्वरोन्मादविबन्धशूलं तद्रक्तपित्तं विविधं निहन्ति ॥१॥
इति शतावरीघृतम्‍ ॥

॥ अथ चन्दनादिचूर्णम्‍ ॥
चन्दनं नलदं लोध्रमुशीरं पद्मकेसरम्‍ । नागपुष्पं च बिल्वं च भद्रमुस्तं सशर्करम्‍ ॥१॥
हीबेरं चैव पाठा च कुटजोत्पलमेव च । शृड्गबेरं सातिविषा धातकी सरसाज्जनम्‍ ॥२॥
आम्रास्थिजम्बुसारास्थि तथ मोचरसोऽपि च । निलोत्पलं समड्गा च सूक्ष्मैला दाडिमत्वच: ॥३॥
चतुर्विशतिरेतानि समभागानि कारयेत्‍ । तण्डुलोदकसंयुक्तं मधुना सह योजयेत्‍ ॥४॥
योगं लोहितपित्तानामर्शसां गरिणां तथा । मूर्च्छामदोपसृष्टानां प्रदापयेत्‍ ॥५॥
अतिसारं तथा छर्दिं स्त्रीणां चापि रजोग्रहे । प्रच्युतानां च गर्भाणां स्थापनं परमिष्यते ॥ अश्विनो: सम्मतो योगो रक्तपित्तनिर्बहण: ॥६॥
इति चन्दनादिचूर्णम्‍ ॥

॥ अथैलादिगुटिका ॥
एला पत्रत्वचा द्राक्षा पिप्पल्यर्धपलं सिता । शिलामधुकखर्जूरमृद्धिकाश्च पलोन्मिता: ॥१॥
संचूर्ण्यं मधुना युक्तां गुटिकां सम्प्रकल्पयेत्‍ । अक्षमात्रां ततश्वैकां भक्षयेत्तां दिने दिने ॥२॥
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्च्छां मदं भ्रमम्‍ रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम्‍ ॥३॥
शोषं प्लीहोर्ध्ववातं च स्वरभेदं क्षतं क्षयम्‍ । गुटिका तर्पणी वृष्या रक्तपित्तं विनाशयेत्‍ ॥४॥
इत्येलादिगुटिका ॥

॥ अथ कूष्माण्डावलेह: ॥
कूष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम्‍ । पचेतप्ते घृतप्रस्थे पात्रे ताम्रमये दृढे ॥१॥
यदा मधुनिभ: पाकस्तदा खण्डशतं न्यसेत्‍ । पिप्पली शृड्गबेरं च द्वे पले जीरकस्य च ॥२॥
त्वगेला पत्रमरिचधान्यकानां पलार्धकम्‍ । न्यसेचूर्णीकृतं तत्र दर्व्या तं घट्टयेत्तत: ॥३॥
लेहीभूते सुशीते च दद्यात्‍ क्षौद्रं घृतार्धकम्‍ । क्षौद्रार्धकां सितां केचिद्द्राक्षां केचित्सितार्धकाम्‍ ॥४॥
द्राक्षार्धानि लवड्गानि कर्षं कर्पूरकं क्षिपेत्‍ । तद्यथाग्निबलं खादेद्रक्तपित्तक्षतक्षयी ॥५॥
कासश्वासतमश्छर्दितृष्णाज्वरनिपीडित: । वृष्यं पुनर्नवकरं बलवर्णप्रसाधनम्‍ ॥६॥
उरस्सन्धानकरणं बृहणं स्वरबोधनम्‍ । अश्विभ्यां निर्मितं श्रेष्ठं कूष्माण्डकरसायनम्‍ ॥७॥
इति  कूष्माण्डावलेह: ॥

॥ अथ कूष्माण्डखल: ॥
खण्डकामलकान्‍ गृह्याद्रसप्रस्थद्वयोन्मित: । खण्डकूष्माण्डके कंस: स्विन्नकूष्माण्डकद्रवात्‍ ॥१॥
अन्यत्र खण्डकूष्माण्डे सम्मत: सकलो रस: । पञ्चाशच्च पलंस्विन्नं कूष्माण्डात्‍ प्रस्थमाज्यत: ॥२॥
पक्वं पलशतं खण्डं वासाक्वाथाढके पचेत्‍ । शिवा धात्री घनं भार्गी त्रिसुगन्धैश्च कार्षिकै: ॥३॥
तालीसविश्वधान्याकारीचैश्च पलांशकै: । पिप्पलीकुडवं चैव मधुना सह दापयेत्‍ ॥४॥
कासं श्वासं ज्वरं हिक्कां रक्तपित्तं हलीमकम्‍ । हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति ॥५॥
इति कूष्माण्डखल: ॥

॥ अथ वासाखण्ड: ॥
तुलामादाय वासाया: पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक्‍ ॥१॥
चूर्णानामभयानां तु खण्डं शतपलं तथा । शीतीभूते निदध्यात्तु क्षौद्रस्यष्टौ पलानि च ॥२॥
वंशोद्भवा च चत्वारि पिप्पली द्विपलं तथा । चातुर्जातपत्वेकं चूर्णितं तत्र दापयेत्‍ ॥३॥
रक्तपित्तं निहन्त्याशु कासं श्वासं तथा क्षयम्‍ । विद्रधिं जठरं गुल्मं तृष्णाहृद्रोगपीनसान्‍ ॥ पलार्धं भोजनं चास्य यथेष्टं तत्र भोजनम्‍ ॥४॥

॥ अथ खण्डकाद्यवलेह: ॥
शतावरी मुण्डितकाबलामृताफ्लत्वच: पुष्करमूलभार्गी । वृषो बृहत्यौ खदिरस्य मूलं पृथक‍ पृथक्‍ पञ्च पलानि चात्र ॥१॥
पक्वं जलद्रोणमितेऽष्टमांशं यावद्भवेच्छेशमथैव पूतम्‍ । विमूर्च्छितस्यापि निधाय धीमान्पलानि च द्वादश माक्षिकस्य ॥२॥
तथा सुवर्णस्य च लोहजस्य विद्याद्वितं खण्डघृतस्य तुल्यम्‍ । देयं पलं षोडशकं विधिज्ञो विपाचयेल्लोहमये कटाहे ॥३॥
गुडेन तुल्यं च यदा भवेत्तदा तुगा विडड्गं मगधा च शुण्ठी । द्वे जीरके कर्कटकं फलत्रिकं धान्यं मरीचं सकणासकेसरम्‍ ॥४॥
पलेन मात्रां विदधीत तत्पृथक्‍ सुघट्टितं चूर्णमिदं घृतेन । स्निग्धे कटाहे प्रणिधाय युञ्यात्कर्षप्रमाणं विदधीत चूर्णम्‍ ॥५॥
प्रभातकाले त्वनुदुग्धपानं गुरुणि चान्नानि च भोजनानि । रक्तं सपित्तं सहसा निहन्ति रक्तप्रवाहं च सरक्तशूलम्‍ ॥६॥
रक्तातिसारं रुधिरप्रमेहं तथैव वस्तौ विहितं नराणाम्‍ । भगन्दरार्श: श्वयुथुं निहन्ति तथाम्लपित्तं किल राजरोगम्‍ ॥७॥
विशेषत: कुष्ठरुजश्च गुल्मान्बलप्रदं वृष्यतमं प्रदिष्टम्‍ ॥८॥
इति खण्डकाद्यवलेह: ॥

॥ अथ रसा : ॥
शुद्धपारदबलिप्रवालकं हेममाक्षिकभुजड्गरड्गकम्‍ । मारितं सकलमेतदुत्तमं भावयेत्पृथक्‍ द्रवैस्त्रिश: ॥१॥
चन्दनस्य कमलस्य मालतीकोरकस्य वृषपल्लवस्य च । धान्यवारणकणाशतावरीशाल्मलीवटजटामृतस्य च ॥२॥
रक्तपित्तकुलकण्डनाभिधो जायते रसवरोऽस्त्रपित्तिनाम्‍ । प्राणदो मधुवृषद्रवैरयं सेवितस्तु वसुकृष्णलैर्मित: । नास्त्यनेन सममत्र भूतले भेषजं किमपि रक्तपित्तिनाम‍ ॥३॥
इति रक्तपित्तकुलकुठारो रस: ॥

॥ अथ वासासूत: ॥
आटरुषनवपल्लवद्रवे पालिके सरसभस्मवल्लकम्‍ । कर्षसंमितमधुप्रयोजितम्‍ प्राश्य नाशयति रक्तपित्तकम्‍ ॥१॥
इति वासासूत: ॥

॥ अथ बोलपर्पटी ॥
सूतगन्धकसुकज्जलिकाया: पर्पटी समयुता समभागम्‍ । बोलचूर्णविहितं प्रतिवाप्यं स्याद्रसोऽयमसृगामयहारी ॥१॥
वल्लयुग्मयुगुलं प्रतिदेयं शर्करामधुयुत: किल दत्त: । रक्तपित्तगुदजासूतियोनिस्त्रावमाशु विनिवारयतीश: ॥२॥
इति बोलपर्पटी ॥

॥ अथ सुधानिधिरस: ॥
गन्धं सूतं माक्षिकं लोहचूर्णं सर्वं घृष्टं त्रैफलेनोदकेन । लौहे पात्रे गोपयसा च कृत्वा रात्रौ दद्याद्रक्तपित्तप्रशान्त्यै ॥१॥
इति सुधानिधिरस: ॥
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम्‍ । रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत्‍ ॥२॥
इति रक्तपित्तचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-19T20:58:55.2070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

extrusion temperature

  • दाबसारण तापमान 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.