संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ घृतगुणाः ॥

॥ अथ घृतगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


धीकान्तिस्मृतिकारकं बलकरं मेधाकरं शुद्धिकृद्वातघ्नं श्रमनाशनं स्वरकरं पित्तापहं पुष्टिदम्‌ ।
वह्नेर्वृद्धिकरं विपाकमधुरं वृष्यं वपुःस्थैर्यदं सेव्यं गव्यघृतोत्तमं बहुगुणं सद्यः समावर्तितम्‌ ॥१॥
सर्पिर्गवां चामृतकं विषघ्नं चक्षुष्यमारोग्यकरं च वृष्यम्‌ ।
रसायनं मन्दमतीवमेध्यं स्नेहोत्तमं चेति बुधाः स्तुवन्ति ॥२॥
इति गव्यम्‌ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP