TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ श्वासचिकित्सा ॥

॥ अथ श्वासचिकित्सा ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ श्वासचिकित्सा ॥
॥ अथ श्वासचिकित्सा ॥
स्नेहवस्तिमृते केचिदूर्ध्वं चाधश्च शोधनम्‍ । मृदु प्रणयतां श्रेष्ठं श्वासिनामादिशन्ति हि ॥१॥
इति कुलत्थादि: । दशमूलीकृत: क्वाथ: पौष्करेणावचूर्णित: । श्वासकासप्रशमन: पार्श्वशूलनिवारण : ॥१॥
इति दशमूलादि: ॥ देवदारुवचाव्याघ्रीविश्वकट्‍फलपौष्करै: । कृत क्वाथो जयत्याशु श्वासकासाविशेषत: ॥१॥
इति देवदार्वादि: ॥ सिहिंनिशासिंहमुखीगुडूचीविश्वोकुल्याभृगुजाघनानाम्‍ । कृष्णा मरीचैर्मिलेत: कषाय: श्वासाटवीदाहपयोद एष: ॥१॥
इति वैद्यविलासात्‍ ॥
वासाहरिद्रामगधागुडूचीभार्गीघनानागररिड्गणीनाम्‍ । क्वाथेन मारीचकणान्वितेन श्वास: शमं याति न कस्य पुंस: ॥१॥
अयि प्राणप्रिये जातीफललोहितलोचने । भार्गीनागरयो: क्वाथं श्वासत्रासाय पाययेत्‍ ॥२॥
इति वैद्यजीवनात्‍ ॥ द्राक्षामृतानागरमुष्णतोयं कृष्णाविपाकं बहुरोगनिघ्नम्‍ । श्वासं च शूलं कसनं च मान्द्यं जीर्णज्वरं चैव जले च तृष्णाम्‍ ॥१॥ इति शड्खराख्यात्‍ ॥

॥ अथ चूर्णम्‍ ॥
कूष्माण्डकशिफाचूर्णं पीतं कोष्णेन वारिणा । शीघ्रं शमयति श्वासं कासं चैव मुदारूणम्‍ ॥१॥
इति योगत: । शृड्गीकटुत्रयफलत्रयकण्टकारीभार्गीसपुष्करजटालवणानि पञ्च । चूर्णं पिबेदशिशिरेण जलेन हिक्कां श्वासोर्ध्ववातकसनारुचिपीनसेषु ॥१॥
शृड्ग्यादियोगशतात्‍ । शटीभार्गीवचाव्योषपथ्यारुचककट्‍फलम्‍ । तेजोह्वा पौष्करं शृड्गी सक्षौद्रं श्वासकासनुत्‍ ॥१॥
गुडोषणनिशारास्त्राद्राक्षामागधिका: समा: । तैलेन चूर्णिता लीढास्तीव्रश्वासनुद: स्मृता: ॥२॥
वृन्दात्‍ । शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात्‍ । खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठत्दृदामयेषु ॥१॥ इति योगशतात्‍ ।
मर्कटीनां तु बीजानां चूर्णं माक्षिकसर्पिषा । प्रलिह्यात्प्रातरुत्थाय श्वासार्त: स्वास्थ्यमाप्नुयात्‍ ॥१॥
इति चिकित्सासारात्‍ ॥

॥ अथावलेह ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत्‍ । त्रि:सप्ताहप्रयोगेण श्वासो नि:शेषतां व्रजेत्‍ ॥१॥
इति गुडावलेह: । हरिद्रा मरिच द्राक्षा गुडो रास्त्रा कणा सटी । तैले नैम्बे लिहन्‍ हन्याच्छ्वासान्प्राणाहरानपि ॥१॥
इति हरिद्रादि: ॥ भार्गीनागरयोश्चूर्णं लीढमार्द्रकवारिणा । श्वासं निहन्ति दुर्धर्षं पञ्चानन इव द्विपम्‍ ॥१॥
इति भार्ग्यादि: । व्याघ्रीशतं स्यादभयाशतं च द्रोण्दे जलस्य प्रपचेत्कषायम्‍ । तुलाप्रमाणेन गुडेन युक्तं पक्त्वाभ्याभि: सह ताभिरत्र ॥१॥
शीते क्षिपेत्षण्मधुन: पलानि एतानि च त्रीणि कटुत्रयस्य । त्वकपत्रकैलाकरिकेसराणां चूर्णात्पलं चेति विदेहदक्ष: ॥२॥
क्षुद्रावलेह: कफजान्विकारान्‍ सश्वासशोषानपि पञ्च कासान्‍ । हिक्कामुरोरोगमपस्मृतिं च हत्वा विवृद्धिं कुरुतेऽनलस्य ॥३॥
इति क्षुद्रावलेह: । योगतरड्गिण्यामित्यादियोग: । भार्गीजटापलशतं सलिलार्मणस्थं युक्पञ्च मूलतुलया सहितं विपाच्य । पादस्थिते तु शतमत्र हरीतकीनां पक्तव्यमुज्जवलगुडस्य शतेन साकम्‍ ॥१॥
उत्तार्य तत्र शिशिरे मधुन: पलानि चत्वारि च द्विगुणितानि फलत्रयं च । व्योषं तृटीत्वगिभकेसरपत्रकाणामेषां पलं खलु निधेयथोयोज्यम्‍ ॥२॥
श्वासं च कासमपि शोषमथातिहिक्कामैकाहिक ज्वरमथोत्कफपीनसं च । हन्याद्रसायनमिदं हि पुरन्दरस्य प्रोक्तं सहस्त्रकरपुत्रभिषग्वराभ्याम्‍ ॥३॥
इति वीरसिंहावलोकाद्भार्गीहरीतक्यवलेह: । पक्त्वा पञ्च तुलागुडामलशिखिच्छिन्नादशाड्ग्घ्र्यम्भसा पथ्यापात्रवतीकृताशिखिशिवाव्योषं चतुर्जातकात्‍ । क्षौद्राच्च त्रिपलाज्जलीद्विकुडवै: क्षाराच्च शुण्ठ्या युता शोफार्श:क्षयकुष्ठपीनसकृमिश्वासान्त्रगुल्मान्तकृत्‍ ॥१॥
इति चित्रकहरीतक्यवलेह: । बोपदेशवतात्‍ । द्राक्षां हरीतकीं मुस्तां कर्कटाख्यां दुरालभाम्‍ । सर्पिमधुभ्यां विलिहञ्श्वासान्हन्ति सुदारुणान्‍ ॥१॥
प्रलिह्यान्मधुसर्पिभ्यां भार्गीमधुकसंयुताम्‍ । पथ्यां तिक्ताकणाव्योषयुक्तां वा श्वासनाशिनीम्‍ ॥२॥
गुडदाडिममृद्वीकापिप्पलीविश्वभेषजै: । मातुलुड्गरसं क्षौद्रं लीढं श्वासनिबर्हणम्‍ ॥३॥
इति द्राक्षाहरीतक्याद्यवलेहो वृन्दात्‍ ॥

॥ अथ रसा: ॥
रसं गन्धं विषं चैव टड्कणं च मन:शिला । एतानि टड्कमात्राणि मरिचं चाष्टड्कम्‍ ॥१॥
एकैकं मरिचं दत्वा खल्वे सूक्ष्मं विमर्दयेत्‍ । त्रिकूटं टड्कमात्रं च दत्वा पश्चाद्विचूर्णयेत्‍ ॥२॥
सर्वमेकत्र संयोज्य काचकूप्यां विनिक्षिपेत्‍ । कास्रे श्वासे च मन्दाग्नौ वातश्लेष्मामयेषु च ॥३॥
गुञ्जामात्रं प्रदातव्यं पर्णखण्डेन धीमता । सन्निपाते च मूर्छायामपस्मारे तथा पुन: ॥४॥
अतिमोहत्वमापन्ने नस्यं दत्वा विचक्षण: । रस: श्वासकुठारोऽयं सर्वश्वासविकारहा ॥५॥
इति श्वासकुठार: ॥

॥ अथ पथ्यापथ्यम्‍ ॥
विरेचनस्वेदनधूमपानप्रच्छर्दनानि स्वपनं दिवा च । पुरातना: षष्ठिकरक्तशालिकुलत्थगोधूमयवा: प्रशस्ता: ॥१॥
शशाहिभुकतित्तिरलावदक्षशुकादयो धन्वमृगाद्विजाश्च । पुरातनं सर्पिरजातप्रभूतं पयो घृतं चापि सुरा मधूनि ॥२॥
पटोलवार्ता करसोनबिम्बीजम्बीरतण्डूलियवास्तुकं च । द्राक्षा तृटि: पौष्करमुष्णवारि निदिग्धिका श्वासिनि पथ्यवर्ग: ॥३॥
रस्त्रस्त्राव: पूर्ववातान्नपानं मेषीसर्पिर्दुग्धमम्भोऽपि दुष्टम्‍ । मत्स्या: कन्दा: सर्षपाश्चान्नपानं रुक्षं शीतं गुर्वपि श्वासिवर्ज्यम्‍ ॥४॥
इत पथ्यापथ्यम्‍ । इति श्वासरोगचिकित्सा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-20T18:43:04.8570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपलो भेस सुण्याक दिवन सुटण्याचो भेस आपणें घेतल्यार जाता?

  • (गो.) आपला पोषाख कुत्र्याला घालून कुत्र्याचा आपण घातला तर तो हास्यास्पद होणार नाही का? स्वतःचा दर्जा सोडून हलक्या लोकांप्रमाणे वागूं नये. 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site