संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शूकदोषनिदानम् ॥

॥ अथ शूकदोषनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ शूकदोषनिदानम्‍ ॥
अथ तस्य सम्प्राप्तिमाह अंकमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधी: ॥१॥
तस्य सड्ख्यामाह ॥ व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजा: ॥१॥
अथ सर्षपिकामाह ॥ गौरवसर्षपसंस्थाना शूकदुर्भुग्नहेतुका । पिटिका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ॥१॥
अथाष्ठीलिकामाह ॥ कठिना विषमैर्भुग्रैर्वायुनाष्ठीलिका भवेत्‍ ॥१॥
अथ ग्रन्थिकमाह ॥ शूकेर्यत्पूरीतं शश्वद्धथितं नाम तत्कफात्‍ ॥१॥
अथ कुम्भिकामाह ॥ कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभा शुभा ॥१॥
अथालजीमाह ॥ तुल्यजां त्वलजीं विद्याद्यक्तां च विचक्षणै: ॥१॥
अथ मृदितमाह ॥ मृदितं पीडितं यत्तु संरब्धं वातकोपत: ॥१॥
अथ सम्मूढपीडिकामाह ॥ पाणिभ्यां भृशसंरुढे सम्मूढपिडिका भवेत्‍ ॥१॥
अथावमन्थमाह ॥ दीर्घा बह्वश्च पिटिका दीर्यन्ते मध्यतस्तु या: । सोऽवमन्थ: कफासृग्भ्यां वेदना रोमहर्षकृत्‍ ॥१॥
अथ पुष्करिकामाह ॥ पिटिकाभिश्चिता या तु पित्तशोणितसम्भवा । पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिका च सा ॥१॥
अथ स्पर्शहानिकमाह ॥ स्पर्शहानिं तु जनयेच्छोणितं शूकदुषितम्‍ । वातपित्तकृतो ज्ञेयस्त्वपाको ज्वरदाहकृत्‍ ॥१॥
अथोत्तमामाह ॥ मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च सा । व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तज: ॥१॥
अथ शतपोनकमाह ॥ छिद्रैरणुमुखैर्लिड्गं चितं यस्य समन्तत: । वातशोणितजो व्याधि: स ज्ञेय: शतपोनक: ॥१॥
अथ त्वक्पाकमाह ॥ वातपित्तकृतो ज्ञेयस्त्वक्याको ज्वरदाहकृत्‍ ॥१॥
अथ शोणितार्बुदमाह ॥ कृष्णै: स्फोटै: सरक्ताभि: पिटिकाभिर्निपीडितम्‍ । यस्य वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणीतार्बुदम्‍ ॥१॥
अथ मांसार्बुदमाह ॥ मांसदोषेण जानीयादर्बुदं मांससंभवम्‍ ॥१॥
अथ मांसपाकमाह ॥ शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदना: । विद्यान्तं मांसपाकं तु सर्वदोषकृतं भिषक्‍ ॥१॥
अथ विद्रधिमाह ॥ विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत्‍ ॥१॥
अथ तिलकालकानाह ॥ कृष्णानि चित्राण्यथवा शूकानि सविषाणि तु । पातितानि पचन्त्याशु मेन्ढ्रं निरवशेषत: ॥१॥
कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिन: । सन्निपातसमुत्थांश्च तान्विद्यात्तिलकालकान्‍ ॥२॥
अथ शूकदोषेऽसाध्यत्वमाह ॥ तत्र मांसार्बुदं यत्तु मांसपाकश्च य: स्मृत: । विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालका: ॥१॥
इति शूकदोषनिदानम्‍ ॥

॥ अथ तच्चिकित्सा ॥
हितं च सर्पिष: पानं पथ्यं चापि विरेचनम्‍ । हित: शोणितमोक्षश्च शूकरोगषु देहिनाम्‍ ॥१॥
उल्लिख्य सार्षपीं तालपत्रेणाथ प्रलेपयेत्‍ । त्रिकटुत्रिफलालोध्रैर्गोमूत्रपरिपेषितै: ॥२॥
क्रियेयमवमन्थेऽपि रक्तं शोध्यं तथोभयो: । अष्टीलायां हृते रक्ते श्लेष्मग्रन्थिक्रियां चरेत्‍ ॥३॥
कुम्भिकायां हरेद्रक्तं पक्कायां शोधिते व्रणे । तिन्दुकत्रिफलालोध्रैर्लेपस्तैलं च रोपणम्‍ ॥४॥
अलज्यां हृतरक्तायां पूर्व एव क्रियाक्रम: । स्वेदयेद्‍ ग्रथितं पश्चान्नाडीस्वेदेन बुद्धिमान्‍ ॥५॥
सुखोष्णैरुपनाहैश्च व्रणोक्तैरुपनाहयेत्‍ । उत्तमाख्यां तु पिटिकां संस्वेद्य बडिशोद्‍धृताम्‍ ॥६॥
कल्कचूर्णै: कषायाणां क्षौद्रयुक्तैरुपाचरेत्‍ । क्रम: पित्तविसर्पोक्त: पुष्करीमूढयोर्हित: ॥७॥
त्वकपाके स्पर्शहानौ च सेचयेन्मृदितं पुन: । बलातैलेन कोष्णेन मधुरैश्चोपनाहयेत्‍ ॥८॥
रसक्रिया विधातव्या लिखिते शतपोनके । पृथक्‍पर्ण्यादिभि: सिद्धं तैलं देयमनन्तरम्‍ ॥९॥
रक्तविद्रधिवच्चापि क्रिया शोणितजेऽर्बुदे । मांसार्बुदे प्रकुर्वीत क्रियां सद्योव्रणोदिताम्‍ ॥१०॥
त्रिफलागुग्गुलं चापि विशेषेणावचारयेत्‍ । मांसपाके वटाद्यस्य गणस्य विधिवत्कृतै: ॥११॥
कषायचूर्णकल्कैश्च सेकोद्‍धूलनलेपनम्‍ । विद्रधौ विधिवत्कार्यं रक्तविद्रधिभेषजम्‍ ॥१२॥
वरुणादिकषायस्य पानप्रक्षालने हिते । तिलकालं समुल्लिख्य क्षुरेण लघुपाणिना ॥१३॥
भिषजाथात्र कर्तव्य: सद्योव्रणविधिर्मत: । मांसार्बुदं मांसपाकं विद्रधिं तिलकालकम्‍ ॥ प्रत्याख्याय प्रकुर्वीत भिषक्‍ तेषां प्रतिक्रियाम्‍ ॥१४॥
इति शूकदोषचिकित्सा ॥

N/A

References : N/A
Last Updated : March 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP