TransLiteral Foundation
संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ चूर्णानि ॥

॥ अथ चूर्णानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ चूर्णानि ॥
धान्यं लवड्गं च शुण्ठी कोष्णाम्बु पीतं तरुणज्वरापहम्‍ । तेम्य: शृतं वारि तथाग्रिमान्द्यं श्वासाद्यजीर्णं विषमं च वातम्‍ ॥१॥
गोरोचनं च मरिचं रास्त्रा कुष्ठं च पिप्पली । उष्णोदकेन पीतं च सर्वज्वरविनाशनम्‍ ॥२॥
भार्ड्ग्री कर्कटशॄड्गी च चव्यं तालीसपत्रकम्‍ । मरीचं मागधीमूलं प्रत्येकं द्विपलं भवेत्‍ ॥३॥
षटपलं शृड्गबेरं च द्विपलं पिप्पलीद्वयम्‍ । चातुर्जातमुशीरं च पलमेकं पृथक्‍ पृथक्‍ ॥४॥
चातुर्जातसमा शुभ्रा शर्करा समयोजिता । ज्वरमष्टविधं हन्ति कासं श्वासं च दारूणम्‍ ॥५॥
शोफशूलोदराध्मानदोषत्रयहरं परम्‍ । अनन्ता वालकं मुस्ता नागरं कटुरोहिणी ॥६॥
सुखाम्भुना प्रागुदयात्पिबेदक्षसमं रवे: । एतत्सद्यो ज्वरान्‍ हन्ति दीपयत्याशु चानलम्‍ ॥७॥
द्राक्षामृता सटी शृड्गी मुस्तकं रक्तचन्दनम्‍ नागरं कटुका पाठा भूनिम्ब: सदुरालभ: ॥८॥
उशीरं पद्मकं धान्यं वालकं कण्टकारिका । पुष्करं पित्तुमन्दं च दशाष्टाड्गमिदं स्मृतम्‍ ॥ जीर्णज्वरारुविश्वासकासश्चयथुनाशनम्‍ ॥९॥
इति द्रक्षादि ॥
धात्रीशिवासैन्धवचित्रकाणां कणायुतानां समभागचूर्णम्‍ । जीर्णज्वरारोचकवह्यिमान्द्ये दिड्विग्रहे शस्तमिति प्रतिज्ञा ॥१॥         
तालीसं मरिचं शुण्ठी पिप्पली वंशरोचना । एकद्वित्रिचतु:पञ्चकर्षैभोगान्प्रकल्पयेत्‍ ॥१॥
एलात्वचोस्तुकर्षार्धं प्रत्येकं भागमावहेत्‍ । द्वात्रिंशत्कर्षतुलिता प्रदेया शर्करा बुधै: ॥२॥
तालीसाद्यमिदं चूर्णं रोचनं पाचनं स्मृतम्‍ । कासश्वासज्वरहरं छर्द्यतीसारनाशनम्‍ ॥३॥
शोफाध्मानहरं प्लीहग्रहणीपाण्डुरोगजित्‍ । पक्त्वा वा शर्करा चूर्णं क्षिपेत्सा गुटिका भवेत्‍ ॥४॥
इति तालीसाद्यं चूर्णम्‍ । सितोपलाषोडश: स्पादष्टौ स्याद्वंशरोचना । पिप्पली स्याच्चतु:कर्ता एला च स्याद्विकर्षिका ॥१॥
एककर्षस्त्वच: कार्यश्वुर्णयेत्सर्वमेकत: ॥ सितोपलादिकं चूर्णं मधुसर्पिर्युतं लिहेत्‍ ॥२॥
श्वासकासक्षयहरं हस्तपादाड्गदाहजित्‍ । मन्दाग्निं सप्तजिह्वं च पार्श्वशूलमरोचकम्‍ । ज्वरमूर्ध्वगतं रक्तपित्तमाशु व्यपोहति ॥३॥
इति सितोपलादिचूर्णम्‍ ।
कासश्वासज्वराहरा पिप्पली त्रिफलायुता । चूर्णिता मधुना लीढा भेदनी चाग्निबोधिनी ॥१॥
इति त्रिफलापिप्पली ॥ कटूफलं मुस्तकं तिक्ता सटी शृड्गी च पौष्करम्‍ । चूर्णमेषां च मधुना शृड्गबेररसेन वा ॥१॥
लिहेज्जरहरं कण्ठ्यं कासश्वासारुचीर्जयेत्‍ । वायुं शूलं तथा छार्दि क्षयं चैव व्यपोहति ॥२॥
इति कट्‍फलादिचूर्णम्‍ ॥

॥ अथ योगरत्नसमुच्चये लघुसुदर्शनचूर्णम्‍ ॥
गुडूची पिप्पलीमूलं कणा तिक्ता हरीतकी । नागरं देवकुसुमं निम्बतक्‍ चन्दनं तथा ॥१॥
सर्वचूर्णस्य चार्धांश कैरातं प्रक्षिपेत्सुधी: एतत्सुदर्शनं नाम्ना लघु दोषत्रयापहम्‍ ॥ ज्वरांश्च निखिलान्हन्यान्नान्न कार्या विचारणा ॥२॥
इति लघुसुदर्शनम्‍ ॥

॥ अथ श्रेडादिप्रणीतं सुदर्शनचूर्णम्‍ ॥
तालीसत्रिफलातृटीकटुकं त्वक्‍त्रायमाणात्रिवृन्मूर्वाग्रन्थिनिशायुगं शटिबलारुक्कण्टकारीयुगम्‍ । मुस्तापर्पटनिम्बपुष्करजटाभार्गीयवानीहिमं चव्यं चित्रकपुण्डरीकतगरं सेव्यं विड्गं वचा ॥१॥
यासो वत्सककुण्डलीन्द्रयवकं देवद्रुमं वालकं बीजं शिग्रुभवं पटोलकटुकापद्माह्वपत्रं विषा । काकोली मधु कुड्कुमं च सतवक्षीरीलवड्गं पृथक्‍पर्णीशैलजशालिपर्णिसहितं शामन्तंकीपुष्पकम्‍ ॥२॥ सर्वं समं चूर्णतदर्धभागं कैरातकं श्रेष्ठतमं हि चूर्णम्‍ । सुदर्शनं नाम मरुद्वलासामयोद्बवान्हन्ति पृथक्‍ कृताञ्ज्वरान्‍ ॥३॥
संसर्गजान्‍सकलजान्विषमान्‍निहन्याद्धातूद्भवान्विषकृतानभिघातजांश्च । सामान्समानसकृतानतिदाहयुक्तांश्छीतांस्तृतीयचतुर्थविपर्ययांश्च ॥४॥
ऐकाहिकान्द्याहिकसन्निपातनानाविधान्पाक्षिकमासजातान्‍ तृडदाहमोहश्रमदैन्यतन्द्रासश्वासकासारुचिपाण्डुरोगान्‍ ॥५॥
हलीमकं काम्लपार्श्वशूलं पृष्टोद्भवं जानुभवं तथैव । त्रिकग्रहं वातविकारजातं विनाशयत्येव शिरोग्रहं च ॥६॥
नाना प्रवेशोद्भववारिदोषान्दूषीविषादिप्रभवान्विकारान्‍ । स्त्रीणां रजोदोषसमुद्भवांश्च विनाशयेदुष्णजलेन पीतम्‍ ॥७॥
शीताम्बुना पित्तभवान्विकाराननानामुनीन्द्रैर्गदितं जगद्धितम्‍ । सुदर्शनं चूर्णम्‍ । अथ शार्ड्गधरात्‍ । त्रिफला रजनीयुग्मं कण्टकारीयुगं सटी । त्रिकटुग्रन्थिकं मूर्वा गुडूची धन्वयासक: ॥१॥
कटुका पर्पटी मुस्ता त्रायमाणा च वालकम्‍ । निम्ब: पुष्करमूलं च मधुयष्टी च वत्सक: ॥२॥
यवानीन्द्रयवा भार्गी शिग्रुबीजं सुराष्ट्रजा । वचात्वक्‍ पद्मकोशीरचन्दनातिविषा बला ॥३॥
शालिपर्णी पृश्रीपर्णी विड्ड्गं तगरं तथा । चित्रको देवदारुश्च चव्यं पत्रं पटोलजम्‍ ॥४॥
जीवकर्षभकौ चैव लवड्गं वंशलोचना । पुण्डरीकं च काकोली पत्रजं जातिपत्रकम्‍ ॥५॥
तालीसपत्रं च तथा समभागानि चूर्णयेत्‍ । सर्वचूर्णस्य चार्धांशं कैरातं प्रक्षिपेत्सुधी: ॥६॥
एतत्सुदर्शनं नाम चूर्णं दोषत्रयापहम्‍ । ज्वरांश्च निखिलाहन्यान्नात्र कार्या विचारणा ॥७॥
पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान्विषमज्वरान्‍ । संनिपातोद्भवांश्चापि मानसानपि नाशयेत्‍ ॥८॥
जीर्णज्वरैकाहिकादीन्मोहं तन्द्रां भ्रमं तृषाम्‍ । श्वासं कासं च पाण्डुं च हृद्रोगं हन्ति कामलाम्‍ ॥९॥
त्रिकपृष्ठकटीजानुपार्श्वशूलनिवारणम्‍ । शीताम्बुना पिबेद्धीमानसर्वज्वरनिवृत्तये ॥१०॥
सुदर्शनं यथा चक्रं दानवानां विनाशनम्‍ । तद्वज्जवराणां सर्वेषमिदं चूर्णम्प्रणाशनम्‍ ॥११॥

॥ अथ लवड्गादिचूर्णम्‍ ॥
लवड्गजातीफलपिप्पलीनां भागं प्रकल्याक्षसमानमेषाम्‍ । पलार्धमेकं मरिचस्य दद्यात्पलानि चत्वारि महौषधस्य ॥१॥
सितासमं चूर्णमिदं प्रगृह्य रोगांश्च वातप्रभवान्निहन्ति । कासज्वरारोचकमेहगुल्मश्वासाग्निमान्द्यग्रहणीप्रदोषान्‍ ॥२॥
इति लवड्गादिचूर्णम्‍ ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-12-17T20:02:13.3830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शेंदव

  • न. १ सैंधव ; शेंदेलोण . २ खारटपणा ; लोणा ( जमीनीचा ); खारट पाझर . खाडीच्या पाण्याचा एथपर्यंत शेदव मारतो म्हणून एथच्या विहिरीचे पाणी खारे . ३ मीठ , गूळ वगैरेस सुटणारा पाझर . 
  • m  Rock-salt; saltness; ooze from salt &c. 
RANDOM WORD

Did you know?

जीवाच्या बारा दशा कोणत्या?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.