संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| तन्त्रसंकरविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - तन्त्रसंकरविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् तन्त्रसंकरविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि तन्त्राणां संकरं परम् ।शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ॥१॥तेषां भेदोपभेदैश्च तत्तच्छास्त्रे समाचरेत् ।चतुर्विधेषु तन्त्रेषु यथेष्टं तेन बुद्धिमान् ॥२॥कर्षणादि प्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।कर्षणादि प्रतिष्ठान्तमेक तन्त्रेण कारयेत् ॥३॥भुक्तिमुक्तिप्रदं मुख्यं सर्वसिद्धिमवाप्नुयात् ।पूर्वमेकेन कृत्वा तत् पश्चादन्येन वै कृतम् ॥४॥एतत् तु संकरं तेन राज्ञोराष्ट्रस्य दोषकृत् ।आचार्यश्चैव कर्ता च नाशनन्त्वखिलं तथा ॥५॥यच्छास्त्रेण यदा रब्धं तच्छास्त्रेणैव तत् कुरु ।कृतञ्चेदन्यशास्त्रेण तन्त्रदोषाय कल्पयेत् ॥६॥सौम्यं रौद्रं द्विधावत्स शैवं सौम्यमिति स्मृतम् ।तदन्यं त्रिविधं तत्र रौद्रमेवेति कीर्तितम् ॥७॥रौद्रेण पूजितश्चाहं तथा रौद्रफलप्रदम् ।सौम्येन पूजितश्चाहं वत्ससौम्यफलप्रदम् ॥८॥रौद्रं सौम्येन यष्टव्यं सौम्यं रौद्रेण नार्चितम् ।वैदिकाचार संबन्धात् सौम्यं श्रेष्ठमिति स्मृतम् ॥९॥श्रुत्युक्ताचारबाह्यत्वादपरं रौद्रमुच्यते ।सौम्येन स्थापयेत् ग्रामे रौद्रेण तु न कारयेत् ॥१०॥रौद्रेण स्थापितं मोहात् ग्रामनाशं भवेद्धृवम् ।सौम्यरौद्रमयं सर्वं जगत्येवं चराचरम् ॥११॥तस्मात् सर्वप्रयत्नेन रौद्रं सौम्येन पूजयेत् ।सर्वसिद्धिकरञ्चैतत् एतदुक्तं शिवात्मना ॥१२॥पूर्वं सौम्येन संस्थाप्य पश्चाद्रौद्रेण पूजयेत् ।मोहेन चेत् कृतं तेन राजराष्ट्रं विनश्यति ॥१३॥किमत्र बहुनोक्तेन सौम्ये नैव तु पूजयेत् ।कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् ॥१४॥तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु ।तदन्यं रौद्रमाख्यातं तत्रं पाशुपतादिकम् ॥१५॥शैवसिद्धान्त तन्त्रेषु तन्त्रैकेन तु कारयेत् ।अनुक्तेऽस्मिन् तथान्येन संकरन्तु न दोषषभाक् ॥१६॥तथा वै चान्य तन्त्राणां तेषु तेषु न दोषकः ।तन्त्राणां संकरञ्चैव समासात् परिकीर्तितम् ॥१७॥षष्ठपञ्चाशत् पटलैः क्रियापादं सुकीर्तितम् ।क्रियापादमिदं वत्स चर्यापादमथ शृणु ॥१८॥तन्त्राणामवतारणादि सकलं संक्षेपतो भाषितेतेषां संकरमन्त्यमेव तु मया शैवेषु सिद्धान्तकम् ।पञ्चाशत् पटलश्चषष्ठमधिकं तत्संख्यया विद्यतेतत्पादन्त्वखिलादि शैव सहितन्नोपूजितं दुर्जनैः॥इति तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः ॥५६॥इति सुप्रभेदे क्रियापादः समाप्तः N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP