संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
फलपाकविधि पटलः

क्रियापदः - फलपाकविधि पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि फलपाकविधिं परम् ।
दूरतस्तु शिवं दृष्ट्वा नमस्कृत्वा तु यो नरः ॥१॥

मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ।
दूराध्वश्रमविक्लान्तः सुधीः कृत्वा प्रदक्षिणम् ॥२॥

मार्ग क्लेशोऽप्यथेशाय भवेत् पापानि नश्यति ।
जनैः पृष्ठानु यातोऽत्र भूलोके तु स जीवति ॥३॥

उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् ।
पदे पदेऽश्वमेऽथस्य फलं प्राप्नोति मानवः ॥४॥

यथा कृत्वा नमस्कारं तथा लोकेसु पूजितः ।
जलपुष्पं सुपुष्पं वा देवमुद्दिश्य निक्षिपेत् ॥५॥

नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते ।
आरामं देवदेवस्य यो नरः कृतवान् भुवि ॥६॥

स एव धनवान् च्छ्रीमानिहलोकेसु पूजितः ।
अयुतं योगवान् दद्यात् श्रोत्रिये वेदपारगे ॥७॥

गोशृङ्गेनाधिकं देवं क्षीरस्नानस्य तत्समम् ।
कपिलापञ्चगव्येन कुशवारियुतेन च ॥८॥

स्नापयेद् देवदेवेशं गवाङ्कोटिफलैः समम् ।
नवधा स्नपनं कुर्वन्यो नरो भक्तिसंयुतः ॥९॥

नानाभोगसमायुक्तः शिवलोके महीयते ।
नवमार्गे तु यत् कर्म भोगोऽपि नवधा भवेत् ॥१०॥

नवधा हविषं कृत्वा नवधा भोगमश्नुते ।
घण्टामणिञ्च यो दद्यात् ख्यातिर्भूतिर्विशिष्यते ॥११॥

वस्त्राण्याभरणादीनि देवदेवस्य योजयन् ।
नानावस्त्रैः सुसंपूर्णैर्नाना चा भरणैस्तथा ॥१२॥

पूजितस्त्विह देवैस्तु पृथिव्यामेकराट् भवेत् ।
दीपन्तु देवदेवस्य सकृत् काले प्रदापयन् ॥१३॥

लोके तु दीपवत् सोऽपि सर्ववित्तावृतस्मृतः ।
मनसा कर्मणा वाचा शिवमुद्दिश्य यो नरः ॥१४॥

सर्वारम्भप्रयोगे वा * * * * * भात् पुनः ।
सर्वदानतपोयज्ञैः प्राप्यते यत् फलं महत् ॥१५॥

तस्मादतिशयं स्वर्गे तत्फलं महमा?प्नुयात् ।
कर्षणे च मते लोकान् सप्तसर्वान् जयिष्यति ॥१६॥

इष्टकाशैल लोहैर्वायः कुर्याद् भवनन्नरः ।
काञ्चनेन विमानेन शिवलोकेमहीयते ॥१७॥

संसिद्धे तु विमाने तु स्थापनं विधिमार्गतः ।
शिवलोकमवाप्नोति पूज्यमानः सदामरैः ॥१८॥

शिवलिङ्गे कृते पश्चात् फलं सामीप्यमाप्नुयात् ।
यद्रूपं स्थापितं बिम्बन्तद्रूपोथ भविष्यति ॥१९॥

रूपैर्हरव पुर्भूत्वा ईशेन सहितः सुवी ।
तस्य लोके च रन्धिमान् यथा कामन्तथेशवत् ॥२०॥

शिवायनिहिता यानि पुष्पाणि च दलानि च ।
फलानि चैव बीजानि धान्यादीनि विशेषतः ॥२१॥

यजमानस्य पूर्वे तु शिवलोके व्रजन्ति हि ।
शिवयज्ञे समाप्ते तु तत् प्रयोगेन देहिनः ॥२२॥

एवं विंशदतीतानां गुरूणां तस्य वंशिनाम् ।
दशपूर्वान् समृच्छन्ति समासेनदशा परान् ॥२३॥

मातृपक्षे प्रसूतानां तल्लोके स्थानमिष्यते ।
शुश्रूषकाणां दाराणां पुत्रभ्रातृसमन्वितम् ॥२४॥

शिवलोके निवासं स्याद् यन्नलभ्यंसु देवतैः ।
भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते ॥२५॥

ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।
प्राकारमण्डपान् कुर्वन्यधेऽष्टं स्वर्गमाप्नुयात् ॥२६॥

वापी कुपतटाकांश्च देवमुद्दिश्ययत्नतः ।
यः कुर्वन्बहुधनाढ्यस्तदन्ते शिवमाप्नुयात् ॥२७॥

कार्यकर्मण्य शक्तस्तु स्मरन्नित्यं तु यः पुमान् ।
तत्रैव मृयते चैव तस्य स्वर्गं न संशयः ॥२८॥

आसनासनि सद्भावं ज्ञात्वा संपूजयेच्छिवम् ।
सा लोक्यञ्चैव सामीप्यं सा रूप्यं प्राप्नुयात् क्रमात् ॥२९॥

अग्निपूजा च सा लोक्यं बलिना वै तथा भवेत् ।
उत्सवे नैव सामीप्यं सा रूप्यं रुद्रचिन्तया ॥३०॥

शिवनिन्दाञ्च यो मूढः कुर्यादज्ञानमोहितः ।
स याति नरकं घोरं त्रिसप्तति च संयुतः ॥३१॥

तं हन्यादसमर्थश्चेत् गच्छेद् वाथ ततो बहिः ।
यस्तु प्राणपरित्यागं कुर्याच्छिवनिमित्ततः ॥३२॥

तस्यैव फलसंपत्तिं मयावक्तुन्न शक्यते ।
तावत् तु शिव सा युज्यं प्राप्नुयान्नात्र संशयः ॥३३॥

भक्तिः स्वाभाविकी चैव कृत्रिमा चेति वै द्विधा ।
स्वभाविका तु या भक्तिः पूर्वजन्मविवर्त्तिता ॥३४॥

सहजा चेति सा ज्ञेया इहामुत्र सुखप्रदा ।
कृत्त्रिमा वै कृतानाम सा परत्र सुखप्रदा ॥३५॥

सहजा वै कृता चैव या सा भक्तिर्न नश्वरी ।
स पुनः शिव एवेति चिन्तयेत् तच्छिवं नरम् ॥३६॥

लिङ्गाद्धस्तं शतं वार्धं शिवक्षेत्रं समन्ततः ।
यस्य तत्रैव वासत्वं शिवलोकस्य कारणम् ॥३७॥

यत्र तत्रैव पञ्चत्वं शिवलोकस्य कारणम् ।
यत् तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् ॥३८॥

स्वयंभूते सहस्रं स्यादार्षे चैव तदर्धकम् ।
आरामवापि सर्वाणि स्थावराणि तराणि च ॥३९॥

दिव्यं प्रयान्त्य सन्देहं प्रभावात् परमेष्ठिनः ।
तस्मादावसथं कार्यं शिवक्षेत्रसमीपतः ॥४०॥

आत्मार्थं पूजयेत् सर्वेसोपहारं शिवस्य तु ।
तस्मात् पत्रफलैः पुष्पैरम्भ सा मनसा बुधः ॥४१॥

चित्तं शिवात्मकङ्कृत्वा शिवमाराधयेत् सदा ।
शिवधर्मात्परोधर्मो न भूतो न भविष्यति ॥४२॥

अन्येषु पशुधर्मेषु स्वर्ग एव फलं हि तत् ।
एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥४३॥

सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् ।
फलपाकविधिः प्रोक्तमाचार्यलक्षणं शृणु ॥४४॥

इति फलपाकविधि पटलोविंशतिः ॥२०॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP