संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| नवनैवेद्य विधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - नवनैवेद्य विधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् नवनैवेद्य विधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् ।अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् ॥१॥सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते ।वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् ॥२॥सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् ।स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः ॥३॥तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् ।शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् ॥४॥विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः ।ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ॥५॥सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ।तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् ॥६॥शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे ।उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् ॥७॥वादका गणिकाश्चैव व्रजेयुः सर्वभूषिताः ।सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः ॥८॥ततो भक्तजनाः सर्वे व्रजेयुः क्रमशः पुनः ।प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै ॥९॥आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले ।तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः ॥१०॥शालिभि स्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् ।वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् ॥११॥संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः ।नालिकेरगुलोपेतं मरीची जीरकान्वितम् ॥१२॥हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः ।अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः ॥१३॥परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् ।ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना ॥१४॥प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः ।ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् ॥१५॥प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं शृणु ।इति नवनैवेद्यविधि पटलः सप्तदशः ॥१७॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP