संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
दुर्गास्थापनविधिपटलः

सुप्रभेदागमः - दुर्गास्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि दुर्गायाः स्थापनं परम् ।
आदिशक्तेः समुत्भूता विष्णुप्राणानुजा शुभा ॥१॥

शंखचक्रधरा देवी धनुः सायकधारिणी ।
खट्गखेटकसंयुक्ता शूलपाशसमायुता ॥२॥

चतुर्भुजं वा कुर्वीत सर्वाभरणभूषितम् ।
श्यामवर्णांसुवदनां महिषस्यशिरस्थिताम् ॥३॥

सिंहारूढाञ्च वा कुर्यात् पद्मासनसमागताम् ।
आलयस्य पुरोभागे प्रपां कृत्वा सलक्षणाम् ॥४॥

रत्नन्यासन्तु तत्रैव जले चैवाधीवासयेत् ।
मन्त्रपक्ष्माक्षिमोक्षन्तु कृत्वा प्रतिसरंबुधः ॥५॥

संकल्पशयनादीनां शाययेत् प्रतिमन्त्रतः ।
कुंभमन्त्रैश्च विन्यस्य ध्यात्वा तद्रूपमात्मनि ॥६॥

आवृतान् कलशान् स्थाप्य लोकपालांश्च विन्यसेत् ।
होमं पञ्चत्रयैकं वा प्रागुक्तद्रव्यसंयुतम् ॥७॥

वह्निमध्ये तु देवेशिमाहूयाज्यादिभिर्बुधः ।
आज्यञ्चरुं तथा लाजानौदुंबरसमित्तथा ॥८॥

दुर्गायामूलमन्त्रेण होमयेद्देशिकोत्तमः ।
देविमुत्थाप्य शयनात् स्नानवेद्युपरिन्यसेत् ॥९॥

कुम्भन्दत्वा तथा बीजं मूलमन्त्रेण योजयेत् ।
संस्नाप्य कलशैः पश्चात् प्रभूतहविषं तथा ॥१०॥

दुर्गास्थापनमेवोक्तं चण्डेशस्थापनं शृणु ।

इति दुर्गास्थापनविधिपटलः षट्चत्वारिंशत्तमः ॥४६॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP