संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| स्कन्दस्थापनविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - स्कन्दस्थापनविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् स्कन्दस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि स्कन्दस्य स्थापनं परम् ।तस्योद्भवं समासेन शृणु पूर्वं गजानन ॥१॥देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् ।सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा ॥२॥गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् ।आवयोः संगमं तत्र देवैः संप्रार्थितोयतः ॥३॥रेतोवह्निस्तु संग्राह्य क्षिप्त्वाशरवणे च तु ।तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः ॥४॥षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते ।तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् ॥५॥आदिशक्तेः सहस्रांशात् कुमारस्योदयस्तथा ।पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं शृणु ॥६॥प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् ।शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् ॥७॥द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा ।द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे ॥८॥अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् ।खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् ॥९॥आसनं स्थानकं वापि यानं वै त्रिविधं तथा ।आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् ॥१०॥यानमष्टभूजे कुर्यात् स्थापनं परिवारके ।स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् ॥११॥डाडिमीपुष्पसंकाशं सर्वाभरणभूषितम् ।सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः ॥१२॥विद्यामेधा च सहिते शुक्लश्यामनिभे तथा ।सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके ॥१३॥स प्रतीकारमेवं हि प्रतिष्ठां शृणु तत्वतः ।प्रासादस्य पूरस्तात् तु मण्डपे समलङ्कृते ॥१४॥रत्नन्यासन्तु कर्तव्यं जले नैवाधिवासनम् ।कर्तव्यमक्षिमोक्षञ्च शयनंत्वधिवासनम् ॥१५॥कुंभं विन्यस्य तत्रैव कलशान्नावृतान् पुनः ।प्राग्वत्संस्कृत्य कुंभानि स्कन्दमध्ये तु मूलतः ॥१६॥विन्यसेत् परितोमंत्री लोकेशान् स्वस्वबीजतः ।नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् ॥१७॥नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः ।शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः ॥१८॥त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता ।मूलब्रह्मषडंगैश्च गायत्र्यागव्यवर्तकैः ॥१९॥हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः ।स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् ॥२०॥स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः ।पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः ॥२१॥उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् ।आचार्योमूर्तिपांश्चैव संपूज्यविधिवत् ततः ॥२२॥स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं शृणु ।इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः ॥४४॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP