संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| तरुणालयलक्षण पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - तरुणालयलक्षण पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् तरुणालयलक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि तरुणालयलक्षणम् ।आद्यं द्वितीयमेवन्तु द्विविधन्तरुणालयम् ॥१॥मूलस्थानस्य यत् पूर्वन्तदाद्यन्तरुणालयम् ।पूनः प्रासादकरणे भिन्नेच्छिन्नेन वीकृते ॥२॥यत् कृतन्तत् द्वितीयाख्यन्तरुणालयमुत्तमम् ।अन्यानि सर्वकर्माणि समानमिति भाषितम् ॥३॥मूलस्थानं विनिश्चित्य बालस्थानन्तु कारयेत् ।बाललिङ्गं प्रतिष्ठाप्य पश्चान्मूलं प्रतिष्ठयेत् ॥४॥बालस्थानं विनापूर्वं मूलस्थानं न कारयेत् ।बालस्थानं विना यत्र पुत्रपौत्र विनाशनम् ॥५॥तस्मात् सर्वप्रयत्नेन बालस्थानन्तु कारयेत् ।यस्मिन् काले यदा क्षेत्रे कृते भूमिपरिग्रहे ॥६॥तस्याग्रे चोत्तरेवापि अग्रे वामेग्रदक्षिणे ।ईशाने वापि शेषेण कारयेत् तरुणालयम् ॥७॥पञ्चसप्त नवाहे वा रात्रौ कृत्वाङ्कुरार्पणम् ।लोहजं शैलजं लिङ्गं दारुजं मृन्मयन्तु वा ॥८॥कारयेत् तु विशेषेण लक्षणोक्तेन देशिकः ।शमीबिल्वमधूकैश्च अश्वत्थोदुंबरैस्तहा ॥९॥बाललिङ्गं प्रकर्तव्यं मृन्मयञ्चेत् सुपक्वकम् ।द्वादशाङ्गुलमुत्सेधमुत्तमं परिकीर्तितम् ॥१०॥सप्ताङ्गुलमधोत्सेधमधमामधमेव हि ।तस्मात् द्व्यङ्गुल वृध्या तु बाललिङ्गा नवस्मृताः ॥११॥स्वधामकुण्डली भूतं सर्ववृत्तमिहोच्यते ।छत्राकारं शिरः कुर्याल्लक्षणोद्धारणं विना ॥१२॥स्वयोनिं कारयेत् पीठमथवा चेष्टकामयम् ।सप्तपञ्च त्रिहस्तं वा कर्तव्यन्तरुणालयम् ॥१३॥एवमाद्यं समाख्यातं द्वितीये तरुणालये ।पूजाभागसमायामं त्रिपादं वार्द्धमेव वा ॥१४॥आयाम सदृशन्नाहं लक्षणोधारणं विना ।नतौ विष्णु विरिञ्चांशौ तश्चिरोन्मूललिङ्गवत् ॥१५॥लिङ्गमेवं समापाद्य मूलगर्भार्धमानतः ।त्रियंशं वा चतुर्थाशं प्रोक्तं बालग्रहं त्विह ॥१६॥बालगेहान्तरे पिठं बाललिङ्गसमोन्नतम् ।उच्छ्रायसमविस्तारं सावटं सप्रणालकम् ॥१७॥लिङ्गायामं त्रिधा कृत्वा भागं पीठे निवेशयेत् ।वृत्तं वा चतुरश्रं वा षोडशांशेन योजितम् ॥१८॥रत्नन्यासं न कर्तव्यं पादशैलानिकानि च ।प्रतिलिङ्गं न कर्तव्यं सूत्रञ्चैव तथा भवेत् ॥१९॥तद्विमानाग्र भागे तु मण्डपं सुविशेषतः ।दशाष्ट नवहस्तं वा सप्तहस्तमथापि वा ॥२०॥षोडशस्तंभसंयुक्तं सर्वालङ्कारसंयुतम् ।तन्मध्ये वेदिकां कुर्यात् नवभागैक भागतः ॥२१॥हस्तमात्रसमुत्सेधां दर्पणोदरवत् समाम् ।गोमयालेपनङ्कृत्वा ब्राह्मणान् भोजयेत् ततः ॥२२॥पुण्याहन्तत्र कर्तव्यं वास्तुहोमं विशेषतः ।तद्धोमं विधिवत् कृत्वा पर्यग्निकरणं तथा ॥२३॥वस्त्रैः सशालिभिर्युक्तं सदर्भैः पुष्पसंयुतम् ।पीठस्य मध्यमे न्यस्त्वा कण्ठमात्रे जले तथा ॥२४॥उषितं लिङ्गमुत्थाप्य स्नानवेद्यु परिन्यसेत् ।सौवर्णं राजतं वापि क्षौमङ्कार्पासमेव वा ॥२५॥कौतुकं हृदये नैव कृत्वा घृतशिरोर्पणम् ।शयने शाययेल्लिङ्गं प्राक् शिरस्कं सयोनिकम् ॥२६॥गन्धपुष्पाक्षतैश्चैव संपूज्यशयनो परि ।वस्त्रेणाच्छादनङ्कृत्वा हृदिना पुष्पदर्भकैः ॥२७॥सर्वलक्षणसंयुक्तं शयनं संप्रकल्पयेत् ।त्रिरात्रमेक रात्रं वा जले चैवाधिवास्य च ॥२८॥वस्त्रेण वेष्टयित्वा तु कुम्भं सूत्रेण वेष्टितम् ।पञ्चरत्नसमायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥२९॥व्योमवद् व्यापिनं देवं ध्यात्वारूपं सदाशिवम् ।विन्यसेत् कुम्भमध्ये तु शिवमन्त्रं समुच्चरन् ॥३०॥संपूज्यगन्धपुष्पाद्यैर्हृदयेन तु मन्त्रतः ।तस्य वामे तु वर्धन्यां गौरीं विन्यस्य मन्त्रतः ॥३१॥हैमवस्त्रसमायुक्तां वर्धनीं पूर्ववद्यजेत् ।मूललिङ्गे तु देवेशं द्वितीयश्चेत् समावहेत् ॥३२॥विज्ञाप्य देवदेवेशं क्षणकालं विचक्षणः ।एकाब्दात् द्वादशाब्दान्तं बालस्थाने स्थिरो भव ॥३३॥एत योरब्दयोर्मध्ये कुर्यान्मूलप्रवेशनम् ।विज्ञापयेत् द्वितीये तु चाद्ये विज्ञापनं विना ॥३४॥विद्येशोमा शिवाख्येषु कलशेषु पृथक् पृथक् ।तत्तद्रूपमनुस्मृत्य स्वस्वमन्त्रेण विन्यसेत् ॥३५॥सकूर्चान् वस्त्रसंयुक्तान् सर्वलक्षणसंयुतान् ।गन्धपुष्पादिना पूज्य हृदयेन विचक्षणः ॥३६॥दिशा स्वध्ययनं कुर्या दृग्यजुः सामाधर्वकैः ।नवपञ्च तथा त्रीणि एकहोममथापि वा ॥३७॥कृत्वाग्निमुखसंस्कारं पूर्वोक्तविधिना ततः ।खदिरं वटबिल्वौ च प्लक्षाश्वत्थावुदुंबरम् ॥३८॥शमीवैकं ततञ्चैव समित् पूर्वादितः क्रमात् ।पलाशस्तु प्रधानस्य होमयेद्धृदयेन तु ॥३९॥औदुंबरसमिद्भिर्वा सर्वेषाञ्चैव कारयेत् ।समिदाज्यान्नकैर्मन्त्रैर्होमङ्कृत्वा पृथक् पृथक् ॥४०॥समिधं हृदये नैव मूले नैव घृतं हुनेत् ।शिवगायत्रि मन्त्रेण चरुंहुत्वा विशेषतः ॥४१॥स्पर्शा हुतिं शिवाङ्गेन हुत्वाङ्गानि च संस्पृशेत् ।प्रभाते विमले होमङ्कृत्वा पूर्णां शिवेन तु ॥४२॥आचार्यं पूजयित्वा तु मूर्तिपानथ पूजयेत् ।दैवज्ञं पूजयित्वा तु अध्ये तॄन् परिचारकान् ॥४३॥उत्थाप्यशयनाल्लिङ्गन्तरुणालय मध्यमे ।संस्थाप्य लिङ्गं सुस्निग्धं पीठस्या वटमध्यमे ॥४४॥कुम्भस्थ देवदेवेशं शिवमन्त्रेण विन्यसेत् ।शिवाङ्गानि न्यसेत् पश्चात् पिण्डिकायां मनोन्मनीम् ॥४५॥अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् ।विद्येशोमा शिवाख्यैस्तु कुम्भैरस्त्राभिषेचनम् ॥४६॥अर्चनोक्तमथाभ्यर्च्य नैवेद्यं दापयेत् क्रमात् ।द्वारादिपीठपर्यन्तं विन्यसेत् तु यथा विधि ॥४७॥स्नपनन्तत्र कुर्वीत यथा शक्त्या विशेषतः ।उत्सवन्तु यथा शक्ति द्वितीये तरुणालये ॥४८॥बल्यन्तः पूजयेन्नित्यमुत्सवन्न समाचरेत् ।बालस्थान विधिः प्रोक्ता शृणुष्वालयवास्तुकम् ॥४९॥इति तरुणालयलक्षण पटलः सड्विंशतितमः ॥२६॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP