संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| लिङ्गलक्षणविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - लिङ्गलक्षणविधि पटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् लिङ्गलक्षणविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् ।लयङ्गच्छन्ति भूतानि संहारे निखिलं यतः ॥१॥सृष्टिकाले तथा सृष्टिः तस्माल्लिङ्गमुदाहृतम् ।त्रिविधं लिङ्गमाख्यात सकलं निष्कलं कलम् ॥२॥सकलं त्रिविधं तत्र तेषां लक्षणमुच्यते ।दिक्देशकालरहितो वाङ्मनातीतगोचरः ॥३॥स एव देवदेवेशः स्वेच्छया गृह्णिते तनुम् ।परं भावं समालंब्य सर्वज्ञत्वादिभिर्गुणैः ॥४॥योगिनां लक्षणार्थन्तु शास्त्राणामुद्भवाय च ।प्राणिनामुपकाराय गृह्णीते विग्रहं शिवः ॥५॥परात्पर तराद्यस्माच्छिवशक्तेः समुत्भवः ।द्वितीयं शक्तिमूर्तिश्च बिन्दुनादश्चतुर्थकम् ॥६॥दिक्देशकालसंबन्ध रहिता वाच्यवाचकौ ।स्थापनारहितौ शक्त्या मनोगम्ये तु निष्कलौ ॥७॥एतत् तु निष्कलं लिङ्गं शृणु सकलनिष्कलं ।निष्कलं हि कलाहीनं सकलन्तु कलान्वितम् ॥८॥सकलं निष्कलोपेतं तस्मात् सकलनिष्कलम् ।मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् ॥९॥निष्कलं लिङ्गमित्याहुः सकलं भाव्यरूपकम् ।द्विधाभावगतो योऽन्यो बिन्दुनादोद्भवं ततः ॥१०॥सकलं निष्कलं तस्मान्मुखलिङ्गं द्विरूपतः ।सकलं निष्कले लिङ्गे पूजयेत् तु सदाशिवम् ॥११॥तदर्धस्त्वीश्वरः प्रोक्तः सकलं रूपमुच्यते ।तस्य मध्ये सहस्रांशाद्रुद्रोद्भवमिहोच्यते ॥१२॥तस्य वामे तु कोट्यंशादेकांशो विष्णुरुद्भवः ।तस्य दक्षिणभागे तु कोट्यंशात् ब्रह्मणोद्भवम् ॥१३॥सकलानि तथैतानि अन्यानि तु तथैव हि ।ईश्वरः सृष्टिसंहार रक्षणे च प्रभु स्मृतम् ॥१४॥ब्रह्मणा सर्वमुत्पन्नं विष्णुना सर्वपालनम् ।जगतां सर्वसंहारं शिवस्य परमेष्ठिनः ॥१५॥यद्वच्छंभोः समुद्भूतं तद्वच्छक्तेः मुद्भवम् ।अमूर्तञ्चेदमूर्ता तु समूर्तञ्चेत्समूर्तका ॥१६॥अग्नेरुष्णत्व वच्छक्ति रविनाभाविनीविभोः ।ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः ॥१७॥सावित्री श्रीरुमादेवी ईश्वरी च मनोन्मनी ।लिङ्गे सदाशिवं प्रोक्तं पिण्डिकायं मनोन्मनी ॥१८॥एवं पञ्चममूर्तीनामुच्यन्ते पञ्चमूर्तयः ।तस्मात् तदुदयं प्राप्य शक्तिशंभुमयञ्जगत् ॥१९॥द्विधाभवस्य लिङ्गस्य लक्षणं शृणु सांप्रतम् ।लिङ्गयोनि प्रभेदानि सैकतादीनिमच्छृणु ॥२०॥क्षणिकञ्चैव मृल्लोहं रत्नजं दारुजं तथा ।शैलजञ्चैव विघ्नेश षडङ्गं लिङ्गमुच्यते ॥२१॥क्षणिका द्वादशप्रोक्ता मृन्मयं द्विविधं पुनः ।दारुजञ्चाष्टधा प्रोक्तमष्टधालोहजं स्मृतम् ॥२२॥सप्तधा रत्नजञ्चैव शैलजन्तु चतुर्विधम् ।पूजान्ते क्षणिकास्त्याज्यास्त्यजेदन्यानि तल्लये ॥२३॥रत्नजं लोहजञ्चैव बाणलिङ्गञ्चलं स्मृतम् ।शैलञ्चलाचलं प्रोक्तं मृन्मयं दारवं तथा ॥२४॥क्षणिकानां फलं वक्ष्ये सैकतं मोक्षकांक्षिणाम् ।तण्डुलं विभवार्थीनामन्नमन्नप्रदं स्मृतम् ॥२५॥नदीमृत् भूमिलाभः स्यात् गोमयं रोगनाशनम् ।नवनीतं मनोह्लादं रुद्राक्षं ज्ञानवर्धनम् ॥२६॥गन्धं सौभाग्यकांक्षिणां कूर्चं मुक्त्यर्थिनां स्मृतम् ।आयुष्यवर्धनं पुष्पं गुलमिष्टार्धसिद्धिदम् ॥२७॥पैष्टं पुष्टि प्रदं प्रोक्तं क्षणिकानां फलं भवेत् ।एतेषां चैव लिङ्गानां न प्रमाणन्न च स्थितिः ॥२८॥मृन्मयं राज्यफलदं पक्वापक्वप्रभेदकम् ।शुद्धदेशेमृदं ग्राह्य पूजाभागं सयोनिकम् ॥२९॥कृत्वा दग्धमिदं पक्वं तत्रापक्वमिहोच्यते ।यवगोधूमचूर्णैश्च घृतक्षिरकषायकैः ॥३०॥सर्जगुल्गुलुग्रीवेष्टकापित्थनिरयासकैः ।चूर्णैरालोढ्यसु मृदा मासपक्वोषितं तथा ॥३१॥रत्नबीजसमायुक्तं पक्वलिङ्गं समाचरेत् ।सुवर्णं रजतं ताम्रं कांसमारकूटं तथा ॥३२॥आयसं सीसकञ्चैव त्रपुकञ्चेति लोहजम् ।सौवर्णं श्रीप्रदं प्रोक्तं राजतं राज्यसिद्धिदम् ॥३३॥ताम्रं पुत्रप्रदञ्चैव विद्वेषं कांसमेव च ।आरकूटं तथोच्चाटे क्षयकारकमायसम् ॥३४॥सीसकं रोगहरणं त्रपुरायुष्यवर्धनम् ।एवन्तु लोहजं प्रोक्तं ततो रत्नजमुच्यते ॥३५॥मौक्तिकञ्च प्रवालञ्च वैडूर्यं स्फटिकं तथा ।पुष्यं मरतकं निलं रत्नजं संप्रकीर्तितम् ॥३६॥स्फाटिकं भुक्तिमुक्त्यर्थमिष्टसिद्धिं तु रत्नजम् ।लोहरत्नानिके लिङ्गे पूजाभागं सपीठिकम् ॥३७॥यथा लाभप्रमाणेन स्फटिकादीनि कारयेत् ।स्फटिकादिषु कर्तव्या त्रिभागैरेव पीठिका ॥३८॥तदायामसुविस्तारा पिण्डिका शुभदा स्मृता ।एकाङ्गुलं समारभ्य आचतुर्विंशदङ्गुलान् ॥३९॥लोहजं लिङ्गमित्याहुर्लक्षणोद्धारणं विना ।दारवस्यैव शैलस्य वनं गच्छेत् स्थिरो गुरुः ॥४०॥शुभे दिने तिथौ वारे सुमुहूर्ते विशेषतः ।आचार्यं शिल्पिमाहूय वस्त्रैर्हेमाङ्गुलीयकैः ॥४१॥शुक्लमाल्यानुलेपाद्यैर्भक्तियुक्तं सुपूजयेत् ।कुठारादीनि चिह्नानि पराङ्ग्राह्य विचक्षणः ॥४२॥आचार्यः शिल्पिभिश्चैव सहायैर्बलवत्तरैः ।पुण्याहजयशङ्गैश्च शंखभेर्यादिनिस्वनैः ॥४३॥यथावस्थानकाले तु निमित्तान्युपलक्षयेत् ।दिव्यान्तरिक्षभौमानि अशुभानि शुभानि च ॥४४॥सव्येत्वागमनं वामा द्वायसस्य स्वरस्तथा ।समांसश्येनकस्त्वग्रे दक्षिणाद्वाममार्गतः ॥४५॥कन्यानां दर्शनञ्चैव गवारोहणमेव च ।दधिवै पूर्णकुम्भञ्च ब्राह्मणं पुष्पसंयुतम् ॥४६॥पावकं ज्वलमानञ्च मांसभारं तथैव च ।वेश्यासं दर्शनञ्चैव वराहं हयमेव च ॥४७॥शुभान्येतानि सर्वाणि दर्शयित्वा व्रजेत् बुधः ।उल्कापातं दिशादाहं महावातप्रवर्तनम् ॥४८॥अशुभं ह्यन्तरिक्षे तु पूर्वोक्त विपरीतकम् ।तैलाभ्यङ्गञ्च तत् पात्रं मुक्तकेशस्य दर्शनम् ॥४९॥दर्शनं नवमृत् भाण्डं च्छिन्ननासिकमेव च ।एते तु भौमजा ज्ञेया परीक्षैवं शुभाशुभम् ॥५०॥शुभेषु प्रस्थितोया या दशुभे तु निवर्तयेत् ।अशुभेग्निं समास्तीर्य शिवेनैवशतं हुनेत् ॥५१॥निमित्तेशोभने गच्छेद् आचार्यः शिल्पिभिः सह ।संप्रविश्य ततो धीमान्वनान्युपवनानि च ॥५२॥महेन्द्रे मलये चैव सह्यैविन्ध्ये तथैव च ।यावच्छिलाद्रुमौ चास्ति तावद्यायाद्विचक्षणः ॥५३॥शमीमधुकरण्डूक कर्णिकारं तथैव च ।तिन्दुकार्जुनकौ चैव पिप्पलोदुंबरं तथा ॥५४॥एते वर्गास्तु चत्वारो ब्राह्मणादि यथा क्रमम् ।अन्ये च बहवो वृक्षा मध्यवाराः सुशोभनाः ॥५५॥स्निग्धपत्रा महाकायाः शुभदेशोत्थितास्तु ये ।अग्निदग्धाश्चतुष्काश्च पक्षिणान्तु निकेतनाः ॥५६॥लतावल्मीकसंस्थाश्च वर्जयेत् साधकोत्तमः ।शिलाभापि सुविज्ञेया जातिभेदपरीक्षणैः ॥५७॥श्वेतरक्ता तथा पीता कृष्णा चैव चतुर्विधा ।गोक्षीर शंखवर्णाभा ब्राह्मणानां प्रशस्यते ॥५८॥जपाबन्धूकपुष्पाभा नृपाणां प्रोच्यते क्रमात् ।रजनी स्वर्ण सदृशा वैश्यानान्तु प्रशस्यते ॥५९॥माषगुल्गुलु संकाशा शूद्राणान्तु समृद्धिदा ।सर्वेषान्तु शिलाकृष्णा सर्वसंपत्करी स्मृता ॥६०॥वसासोषरज क्लिन्ना तप्ताश्चार्कस्यरश्मिभिः ।अग्निदग्धान्य युक्ता सा वर्जयेत् तां प्रयत्नतः ॥६१॥तस्याच्छोत्तरपार्श्वे तु स्थण्डिलेग्निमुखङ्कृते ।शतं हुत्वा शिवास्त्रेण तमग्रे शयने वसेत् ॥६२॥स्वप्ने माणवकञ्जप्त्वा रात्रौ सुप्त्वा शिवं स्मरेत् ।अशुभे दर्शने स्वप्ने मूले नैव शतं हुनेत् ॥६३॥शुभे स्वप्ने तु चेद्धिमान् तदाच्छेदनमारभेत् ।अभिषिच्य शिवाद्भिस्तु प्रभाते विमलेशुभे ॥६४॥अघोरास्त्रेण मन्त्रेण छित्वामधुयुतेन च ।अधोभागमुखं तस्य पृष्ठमूर्ध्नि प्रकल्पयेत् ॥६५॥पार्श्वयोः पार्श्वमेवन्तु मूलं याम्यापरे विदुः ।पूर्वे चोत्तरपार्श्वे वा शिरः संकल्प्य बुद्धिमान् ॥६६॥लाञ्छयित्वा क्षराण्यत्रं ततस्तत् क्षणमारभेत् ।मूलं पादशिलां ग्राह्य योऽन्या चावृत पार्श्वयोः ॥६७॥बाला च यौवना वृद्धाज्ञातव्या लक्षणैस्ततः ।स्निग्धा मृदुतला चैव बालाक्षीण स्वरान्विता ॥६८॥सुस्वराकान्ति संयुक्ता सा शिला यौवना स्मृता ।अग्निदग्धा झर्झरूक्षा वृद्धासानिस्वराशिला ॥६९॥बालां वृद्धान्तु सन्त्यज्य यौवनां संग्रहेत् बुधः ।शिलागर्भान् परीक्ष्याथ कर्तव्यं विधिचोदितम् ॥७०॥लिङ्गं प्रक्षिप्यक्षिरेण पिष्टकासैः सगैरिकैः ।इति तत्त्वे करात्रन्तु लिङ्गं प्रक्षाल्य चांभसा ॥७१॥बिन्दुरेखा कलंकाश्च शिलादोषाः प्रकीर्तिताः ।दृश्यते मण्डलं यत्र गर्भं तत्र विनिर्दिशेत् ॥७२॥सिते तु मण्डले सर्पो रत्ने तु कृकलासह ।गोधा वै मण्डले पीते माञ्जिष्ठे दर्दुरोत् भवेत् ॥७३॥कापिले मूषिका प्रोक्ता चित्र वर्णे तु वृश्चिकः ।श्वेतरक्तविमिश्रे तु गण्डूकोमण्डले भवेत् ॥७४॥खद्योतं मधुवर्णे तु कापोतौ ग्रहगौलिका ।गुलवर्णे तु पाषाणं निस्त्रिंशाभेजलं भवेत् ॥७५॥वर्जिता गर्भयुक्तास्तु विमलैरन्वितास्तथा ।विमलं हेमकांसाख्यं लोहाख्यञ्च त्रिधा स्मृतम् ॥७६॥परीक्ष्यैव तु कर्तव्यं लिङ्गं गर्भादिवर्जितम् ।प्रासादगर्भविस्तारं सूत्रेण समितं तथा ॥७७॥गर्भविस्तारपञ्चांश स्त्रियं शेनोत्तमं विदुः ।गर्भन्तु नवधा कृत्वा पञ्चभागन्तु मध्यमम् ॥७८॥अधमं गर्भमानार्थं त्रिविधन्तु प्रमाणतः ।कनिष्ठ ज्येष्ठयोर्मध्ये गर्भेऽष्टांश कृते सति ॥७९॥प्रोक्तन्तु नवधा मानन्तेषु कार्यं यदृच्छया ।अथवान्य प्रकारेण गर्भन्तु नवधा पुनः ॥८०॥उत्तमं त्रिणिचोक्तानि मध्यमं त्रिणिचादिशेत् ।अधमं त्रिणिचोक्तानि नवभेदमुदाहृतम् ॥८१॥हस्तादि नवहस्तान्तं नवधा हस्तमानकम् ।त्रितालाद्रुद्रतालान्तं तथा नवविधिं पुनः ॥८२॥समं वै वर्धमानञ्च शिवाधिकमतः परम् ।चतुरश्रमधोभागमष्टाश्रं मध्यमं तथा ॥८३॥तदूर्ध्वं वृत्तमेवस्यात् त्रिभागं सर्वतः समम् ।समलिङ्गमिति प्रोक्तं वर्तमानमथ शृणु ॥८४॥चतुर्विंशति चायामे सप्ताङ्गञ्चतुरश्रकम् ।अष्टाश्रमष्टभागेन नवांशे नैव वृत्तकम् ॥८५॥वर्धमानमिदं लिङ्गं शिवाधिकमतः परम् ।आयामं दशधा कृत्वा चतुरश्र त्रिभागतः ॥८६॥अष्टाश्रञ्च त्रिभागेन चतुरंशेन वृत्तकम् ।शिवाधिकमिदं शस्तं भुक्तिमुक्तिप्रदं शुभम् ॥८७॥यस्य लिङ्गस्य चायाम चतुरश्रस्य नाहकम् ।आयामस्याष्टभागाच्च सप्तांशैर्मध्यनाहकम् ॥८८॥तत् षडंशैस्तु वृत्तं स्यात् परिणाहं प्रकीर्तितम् ।लिङ्गाया मे चतुर्विंशद्विष्कंभः पञ्चभागिकम् ॥८९॥वेदाश्रादिपरीणाहाद्विंशत् षोडश वा नव ।सर्वेषामेव लिङ्गानां प्रोक्तं वै परिणाहकम् ॥९०॥धारालिङ्गं मुखंलिङ्गं शृणुवत्ससमाहितः ।पञ्चधारा सप्तधारा नवधारा द्वादशधारकः ॥९१॥धाराः षोडशविंशच्च त्रिरष्टावाष्टविंशतिः ।अष्टाश्रं मूर्तिपर्यन्तं यवार्धं वायवोन्नतम् ॥९२॥पूर्वभागं त्रिधा कृत्वा प्यूर्ध्वभागे मुखं भवेत् ।पञ्चमूर्धा चतुर्वक्त्रं ग्रीवाचैका समायुतम् ॥९३॥श्रोत्राष्टौ च दशोष्ठञ्च सर्वलक्षणसंयुतम् ।लिङ्गाकारमधस्तस्य पिण्डिकालक्षणं शृणु ॥९४॥त्रिगुणं लिङ्गविस्तारं त्रिगुणार्धञ्चतुर्गुणम् ।त्रिविधस्त्वधमादिस्तु पीठविस्तारमुच्यते ॥९५॥विष्णुभागस्य चोत्सेधं पीठोत्सेधं विधीयते ।अथवा ब्रह्मभागस्य चाष्टांशेन समन्वितम् ॥९६॥पद्मपीठं भद्रपीठं वेदिकोपरिमण्डलम् ।पीठञ्चतुर्विधं प्रोक्तं लक्षणं शृणु सांप्रतम् ॥९७॥कृत्वा षोडश चोत्सेधं द्व्यंशेन चतुपट्टिका ।पञ्चभागन्तदूर्ध्वाब्जं दलैः षोडशभिर्युतम् ॥९८॥दलमध्याङ्गुलोत्सेधं पद्मकुण्डमिहोच्यते ।द्विभागं मध्य वृद्धन्तु समन्तात् सदृढं दृढम् ॥९९॥चतुर्भिरूर्ध्व पद्मन्तु द्विभागे नोर्ध्वपट्टिका ।तदूर्ध्वे तु ततः कुर्यादेकांशं घृतवारिणा ॥१००॥पीठतार त्रिभागैकं नालं कुर्यात् तथोत्तरे ।तत्तारस्य चतुर्थांशं तदर्धार्धमथादिकम् ॥१०१॥द्विगुणं त्रिगुणं मूलं तदमग्रञ्चार्धनाशनम् ।विस्तारस्य चतुर्धांशादर्धादर्धमथापि वा ॥१०२॥जलमार्गं त्रिभागैकं कुर्यात् तत्र विशेषतः ।एवन्तु पद्मपीठं हि भद्रपिठमथशृणु ॥१०३॥पूर्ववत् षोडशांशन्तु कृत्वोत्सेधं विधानतः ।भागेनो पानमेकेन चतुर्भिर्जगती भवेत् ॥१०४॥कुमुदन्तु त्रिभिर्भागैरेके नैव तु पट्टिका ।कण्ठं कुर्यात् त्रिभिर्भागैरेकांशेन तु पट्टिका ॥१०५॥महापट्टिकाद्व्यंशा तु एकेन घृतवारिणि ।भद्रपीठं समाख्यातं वेदिपीठमथोच्यते ॥१०६॥पीठोत्सेधे नवांशे तु द्वियंशेन तु पट्टिका ।चतुर्भिः कण्ठ तुङ्गन्तु द्व्यंशे नैवोर्ध्वपट्टिका ॥१०७॥घृतवार्येकभागन्तु समन्ताच्चतुरश्रकम् ।वेदीपीठं समाख्यातं परिमण्डलमुच्यते ॥१०८॥भद्रमेव हि वृत्तं स्यादेतद् वै परिमण्डलम् ।तेष्वेकांश समं वापि त्रिपादं वार्धमेव वा ॥१०९॥पीठाङ्गानां प्रवेशञ्च तथा निर्गमनं पुनः ।सकलानाञ्च लिङ्गानां सामान्यं पीठलक्षणम् ॥११०॥लिङ्गस्य पीठिकाचेत् तु मध्वष्टाश्र क्रमान्वितम् ।अवटं कारयेद् धीमान् विष्णुभागसमं यथा ॥१११॥ब्रह्मभाग प्रवेशार्थं तन्मानाच्चतुरश्रकम् ।घृतवारि घटान्नालं सकलेत्वासने विना ॥११२॥नन्द्यावर्त शिलांवक्ष्ये पीठाधस्ताच्चतुः शिला ।परितस्तालमात्रं वा षडङ्गुलमथापि वा ॥११३॥पीठविस्तारतोधिक्या नन्द्यावर्तशिलाः शुभाः ।समन्ताच्चतुरश्रास्तु ब्रह्मभागसमोन्नतः ॥११४॥अथवा चतुरश्रस्य चाष्टांशत् सप्तमोच्छ्रिताः ।गर्भस्य नवभागैकं पादाधारशिलाशुभा ॥११५॥तदर्धमेकमेवं वा तन्नवांशैकमुच्छृतः ।चतुरश्रस्य चाष्टांशादेकांशं मध्यनिम्नगम् ॥११६॥लिङ्गतारप्रमाणेन खातविस्तारमानकम् ।नवनिम्नन्तु तन्मध्ये रत्नन्यासार्धमुच्यते ॥११७॥ब्रह्मोपलासमोत्तुंगा तत्ताराध्यर्धविस्तृता ।एवं कूर्मशिला सिद्धा सुदृढा चतुरश्रका ॥११८॥एवमुक्तास्तु सर्वांगाः किञ्चिन्मानाधिकास्तु वै ।रथस्योपरि विन्यस्य तत् ग्रामं प्रविशेत् सुधीः ॥११९॥ग्रामं प्रदक्षिणं कृत्वा वाद्यध्वनि समायुतम् ।प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं बुधः ॥१२०॥नीत्वा तन्मध्यमे लिङ्गं प्राक्च्छिरस्कं सुबुद्धिमान् ।पट्टिकोपरिविन्न्यस्य सूक्ष्मकर्म च कारयेत् ॥१२१॥आचार्यः शिल्पिभिश्चैव लक्षणेनसहैव तु ।शिरसावर्तनं कार्यन्तच्चतुर्विधमुच्यते ॥१२२॥च्छत्राकारन्तु पूर्वञ्च द्वितीयन्त्र पुषाकृतिः ।कुक्कुटाण्डं तृतीयन्तु चतुर्थंत्वर्धचन्द्रकम् ॥१२३॥कृत्वा तारन्तु षट्भागं लिङ्गस्य च शिरस्त्वथ ।भागेन वर्तनङ्कृत्वा यावन्निम्नन्तु मध्यमम् ॥१२४॥च्छत्राकारमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ।तारं कृत्वा तु षट्भागं द्विभागार्धेन वर्तिनम् ॥१२५॥त्रपुषाकृतिरेवं स्यात् भुक्तिमुक्तिफलप्रदम् ।कुक्कुटाण्डन्तु तत्रैव विस्तारार्धेन वर्तितम् ॥१२६॥लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्तितम् ।अर्धचन्द्रमिदन्तत्र मुक्त्यर्थं प्रोच्यते क्रमात् ॥१२७॥एवं सदाशिवं प्रोक्तं सर्वसिद्धिकरं परम् ।अन्यानाव्रतदेवांश्च ध्यानमन्त्रेण पूजयेत् ॥१२८॥सकलं निष्कलं प्रोक्तं सकलं शृणु सुव्रत ।इति लिङ्गलक्षणविधिपटलस्त्रयस्त्रिंशत्तमः ॥३३॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP