संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| जीर्णोद्धारविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - जीर्णोद्धारविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् जीर्णोद्धारविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि जीर्णोद्धारविधिक्रमम् ।जीर्णदेही यथा देहं त्यक्त्वान्यं प्रतिपद्यते ॥१॥तथा जीर्णञ्च चलितं बेरन्मुञ्चति देवता ।एवमादीनि सर्वाणि राक्षसाद्याविशन्ति हि ॥२॥राक्षसाश्चासुराश्चापि पिशाचा ब्रह्मराक्षसाः ।तस्मात् सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥३॥प्रासादं प्रथमं लिङ्गं पीठं प्राकारमण्डपम् ।गोपुरं परिवारञ्च जीर्णकाले ततोद्धरेत् ॥४॥स्थूपीनासि च शाला च कपोतं कूटपञ्जरम् ।पादाधिष्ठानसंयुक्तं यद्धिनन्तद्विवर्जयेत् ॥५॥विमानं पूर्ववत् कृत्वा प्रोक्षणं विधिवत् कुरु ।तेष्वैकाङ्गविहीनश्चेत् तत् कुर्यात् पूर्ववत् बुधः ॥६॥आलयानामिदं प्रोक्तं प्रतिमानां ततः शृणु ।भ्रूरेखा च क्षुरेखा च नासिका चापिनाक्षयेत् ॥७॥ससूत्राणाञ्च लिङ्गे तु रेखाश्राणां तु पीठके ।अन्याङ्गानां क्षयं दृष्ट्वा पीठे लिङ्गविशेषतः ॥८॥उत्तरे जीर्णलिङ्गन्तु तस्योद्धारक्रमं शृणु ।मण्डलं वर्तयेद्धीमान् शिवलिङ्गस्य दक्षिणे ॥९॥संकल्प्यासनमाराध्य बाह्यपूजां समारभेत् ।मन्त्रपूतं हविर्दद्यात् तदग्रेऽग्न्यानने कृते ॥१०॥दूर्वाभुक्ति घृतैर्वापि क्षीरेण तिलतण्डुलैः ।दशात्मनाशिवाङ्गैश्च पञ्चब्रह्मषडङ्गकैः ॥११॥प्रत्येकं शतमर्द्धं वा होमयेत् पञ्चविंशतिः ।लिङ्गस्या चलनार्थाय मूलेनैव शताहुतिः ॥१२॥दद्यात् पूर्णाहुतिं तत्र सहस्राक्षरमन्त्रतः ।तद्वल्कलेन सम्मिश्रं गोवालकृतरज्जुना ॥१३॥कर्तुर्वर्णानुरूपञ्च वृषभं लक्षणान्वितम् ।तरुणं बलवन्तञ्च भूषयेत् भूषणार्हकैः ॥१४॥रज्जुनाबध्यतल्लिङ्गं ककुदग्रे वृषस्य तु ।तद्रज्जुनासुबध्वा तु बहुरूपमनुस्मरन् ॥१५॥तल्लिङ्गमुद्धरेन्मंत्री वृषभेण शिवेन च ।देशिकं पूजयेत् तत्र वस्त्रैः सौवर्णभूषणैः ॥१६॥आरोप्यजीर्णलिङ्गन्तु शिबिकायां रथेपि वा ।शङ्खकाहलवाद्यैश्च कुर्याच्छब्दं महारवैः ॥१७॥आवृतं शिवभक्तैस्तु स्तुतिस्तोत्रसमन्वितम् ।समुन्द्र प्रक्षिपेल्लिङ्गं नमस्कारान्तमन्त्रकैः ॥१८॥तटाकादिष्वशोष्येषु खात्वोर्व्यां वाथनिक्षिपेत् ।दारुजञ्चेदथाग्नौ तु जले लिङ्गं व्यपोह्य च ॥१९॥प्रतिलिङ्गञ्च पीठञ्च कृत्वा पूर्वोक्तलक्षणैः ।स्थापयेद्विधिनाधीमां नृपराष्ट्रहिताय वै ॥२०॥जीर्णोद्धारे कृतं सर्वं मण्डलस्थाय शंभवे ।विज्ञापयेत् प्रणम्यादौ शिवमस्त्विति चोच्चरेत् ॥२१॥शिवं प्राग्वत् समभ्यर्च्य शिवास्त्रन्तु विसर्जयेत् ।तस्याच्छिद्रापनोदार्त्थमघोरास्त्रेण मन्त्रवित् ॥२२॥आज्येनाष्टशतं हुत्वा व्याहृत्याहुतिमाचरेत् ।अग्निस्थं शिवमुद्वास्य होमशेषं समापयेत् ॥२३॥सकलानि च जीर्णानि उद्धरे देवमेव तु ।वृषं विना चलानान्तु क्रमादेवं समुद्धरेत् ॥२४॥मृद्दारुरूपबिंबानि उद्धृत्याशुविनिक्षिपेत् ।उद्धृते लोहबिंबे तु तद्रव्येण पुनर्नवम् ॥२५॥कुर्यात् सामान्यमेवन्तु विशेषमधुना शृणु ।द्रव्योत् कृष्टेन कर्तव्यं तत्प्रमाणाधिकं तथा ॥२६॥इतरन्तु न कर्तव्यं कृतञ्चेत् कर्तृनाशनम् ।प्राकारमण्डपादीनां यज्जीर्णन्तत्र तद्विना ॥२७॥कृत्वा तत् पूर्ववद् धीमान् सुदृढं हि मनोरमम् ।अन्यथा यदि कुर्याच्चेत् दोषावहं नृणां भवेत् ॥२८॥सर्वनाशं भवेदत्र सर्वं निष्फलमेव हि ।यदा मासा तदर्धेषु अशुभानिशुभानि च ॥२९॥अपरीक्ष्य तदा कुर्यादुद्धारं स्थापनं पुनः ।जीर्णोद्धारमिदं प्रोक्तं प्रायश्चित्तमथ शृणु ॥३०॥इति जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः ॥५४॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP