संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| स्नपनविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - स्नपनविधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् स्नपनविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि स्नपनस्य विधिक्रमम् ।पञ्चम्याञ्च नवम्याञ्च चतुर्दश्यान्तु पर्वणोः ॥१॥संक्रान्तौ विषुवे चैव अयने ग्रहणे तथा ।पञ्चम्यादि ग्रहणान्तं दशवृद्ध्युत्तरं वरम् ॥२॥दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके ।यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि ॥३॥कर्तव्यं जन्मनक्षत्रे मङ्गलेमन्त्रसाधने ।राजाभिषेक समये मरणान्तेथ जन्मनि ॥४॥अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके ।भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने ॥५॥सर्वरोगसमुत्पन्ने शत्रुभिः पीडनेपि च ।प्रायश्चित्तादिकालेषु शिवं संस्नापयेत् गुरुः ॥६॥नवधा स्नपनं तत्र संक्षेपेण शृणु क्रमात् ।पञ्चभिः पञ्चभिश्चैव पञ्चविंशतिभिस्तथा ॥७॥अन्यस्य त्रितयन्त्वेषु शृणु मध्यमकत्रयम् ।पञ्चाशन्न्यूनमेकन्तु एकाशितिस्ततः परम् ॥८॥शतमष्टोत्तरं ज्ञेयं मध्यमत्रितयं त्विह ।षोडशद्विशतञ्चैव अष्टोत्तरशतत्रयम् ॥९॥अष्टाधिकसहस्रन्तु उत्तमादिशिवाधिकम् ।उत्तमं त्रीणिविख्यातं सर्वेषां स्नपनं शृणु ॥१०॥प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।विंशश्चतिथि हस्तञ्च भानुदिक्करमेव च ॥११॥नवाष्ट सप्तषट्पञ्चहस्तैर्नवविधं स्मृतम् ।अष्टसाहस्रकं पादं नवानां मण्डपा स्मृताः ॥१२॥षट्त्रिंशत् गात्रसंयुक्तमुत्तमानां विधीयते ।षोडशस्तंभसंयुक्तं मध्यमानान्तु कारयेत् ॥१३॥द्वादशस्तंभसंयुक्तमधमानां प्रकल्पयेत् ।कूटं वा मण्डपं वापि कारयेत् स्वप्रमाणतः ॥१४॥चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।वितानध्वजसंयुक्तं दर्भमालोपशोभितम् ॥१५॥वक्ष्यमाणविधानेन कर्तव्यञ्चाङ्कुरार्पणम् ।कलशानि ततो ग्राह्य साधयेद् आदिशैवकः ॥१६॥सौवर्णं रजतं वापि तथा ताम्रमयैरपि ।शङ्खैर्वा शुक्तिकैर्वापि गवां शृङ्गैरथापि वा ॥१७॥अथवा मृन्मयैर्वापि सर्वलक्षणसंयुतैः ।सुपक्वैः सुस्वरैः स्निग्धैर्बिंब प्रभसमन्वितैः ॥१८॥एतैर्ल्लक्षणसंयुक्तैः स्नापयेत् परमेश्वरः ।उत्तमं द्रोणसंपूर्णं मध्यमन्तु तदर्धकम् ॥१९॥अधमञ्चाढकं प्रोक्तं सर्वेषामाढकं तु वा ।शङ्खशुक्ति विशृङ्गाणां स्वप्रमाणेन पूरयेत् ॥२०॥सूत्रेण वेष्टयित्वा तु कालयित्वाधिवासयेत् ।गोमयालेपनङ्कृत्वा विष्टसूत्राणि पातयेत् ॥२१॥सूत्राणाञ्चाप्य धर्मादीन् गात्राणान्धर्मपूर्वकान् ।स्थण्डिलन्तत्र कुर्वित् शालिभिर्विमलैस्तथा ॥२२॥आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् ।तदर्धं तण्डुलैर्भूष्य तदर्धन्तिलसंयुतम् ॥२३॥नवधा स्नपनन्तेषु चाद्यसप्तविधिं शृणु ।मण्डपान्तश्चतुष्पत्र युक्ताब्जं कर्णिकान्वितम् ॥२४॥पञ्चकुम्भस्य विख्यातं महादिदलशोभितम् ।प्रागुदक्भ्यां चतुःसूत्रं मार्गैर्न्नवपदं विदुः ॥२५॥अष्टसूत्रं समङ्कृत्वा प्राङ्मुखोदङ्मुखं क्रमात् ।मध्ये नवपदं ग्राह्यं बहिरेका वृतिन्त्यज्येत् ॥२६॥ऐन्द्रादिषु चतुर्दिक्षु पदमेकं परिग्रहेत् ।अग्नेय्यादीशपर्यन्तन्तिसृभिस्त्रिः पदं भवेत् ॥२७॥महादिक्पदपार्श्वाभ्यां द्वारार्थं द्विपदं त्यजेत् ।पञ्चविंशत्पदङ्कृत्वा स्थापयेदधमत्रयम् ॥२८॥पादानान्तालमात्रं स्यात् सूत्रद्वादशकल्पितम् ।उदक्सूत्रं तथा कल्प्य ह्यष्टद्वाराणि योजयेत् ॥२९॥मध्यमे पञ्चविंशच्च द्विपदंत्वावृतं त्यजेत् ।पञ्चत्रिंशत्पदं कृत्वा तेष्वेकं गृह्ययत्नतः ॥३०॥इदमेकोन पञ्चाशदेकाशीति पदं शृणु ।पदमेकं समावृत्त्य द्वारादिषु पदा त्यजेत् ॥३१॥एकाशीति पदं ह्येवं मध्यमान्मध्यमं शृणु ।प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च ॥३२॥पञ्चविंशत् पदन्तेषु मध्यसङ्ग्राह्ययत्नतः ।विदिक्षुनवकङ्ग्राह्यं द्वारत्वात् द्विपदं त्यज्येत् ॥३३॥चतुर्दिक् तिथिकोष्ठेषु तृतीये सन्त्यजेत् त्रयम् ।एवङ्कृते पदा सम्यक् शिवाधिक्यं शताष्टकम् ॥३४॥विंशत् सूत्रं प्रकर्तव्यं प्राङ्मुखोदङ्मुखं क्रमात् ।तन्मध्ये पञ्चविंशच्च संग्राह्य परितोद्वयम् ॥३५॥त्यजेत् द्वाराष्टकोपेतं गोमयेन तु वारिणा ।दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् ॥३६॥मध्यमव्यूहमध्यस्थं नवन्त्यक्वाब्जमालिखेत् ।एवङ्कुर्याद् विधानज्ञः षोडशद्विशतं भवेत् ॥३७॥नवधा स्नपनं प्रोक्तं तेषां द्रव्यन्ततः शृणु ।वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम् ॥३८॥मौक्तिकं पञ्चरत्नानि शिवकुंभे तु विन्यसेत् ।रत्नाभावे ततो हेमं नवानां हेममेव च ॥३९॥पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।क्षीरं दधिघृतञ्चैव प्रथमावरणं विदुः ॥४०॥प्रस्थपादं घृतं प्रोक्तं द्विपादन्दधिरुच्यते ।त्रिपादं क्षीरमित्युक्तं प्रस्थञ्चैव तु गोमयम् ॥४१॥षट्गुणञ्चैव गोमूत्रं पञ्चगव्यमिति स्मृतम् ।मधु इक्षुरसञ्चैव पनसाम्रफलौ तथा ॥४२॥कदली नालिकेरौ च सर्षपञ्च तिलं तथा ।विल्वञ्चमातुलुङ्गञ्च नारङ्गद्वयमेव च ॥४३॥यवनी वारलाजञ्च तस्य चूर्णङ्गुलन्तथा ।चन्दनं लघुकुष्ठौ च कच्चोलं पुष्पपत्रकम् ॥४४॥कर्पूरं हिमबेरञ्च जटामांसिमुरन्त्रणम् ।शमीदूर्वा च श्वेतार्कं बिल्वपत्रञ्च चंपकम् ॥४५॥शङ्खपुष्पंत्वपामार्गं विष्णुक्रान्ति च धुर्तुरम् ।नन्द्यावर्तं श्वेतपद्मं पुन्नागञ्चातिपाटलि ॥४६॥सह देवी शतपत्री लक्ष्मीस्थलारविन्दकम् ।धातकी तुलसी चैव करवीराकृष्णमल्लिका ॥४७॥मल्लिका च शतावेरी गोक्षुराज कृताञ्जली ।महाद्रोणञ्च द्रोणञ्च भद्री च मधुमद्रिका ॥४८॥इन्द्रवल्लीरुद्रपाणी धात्री चैव हरिद्रकी ।व्याघ्र नवी च माञ्जिष्ठी सरलं भद्रकाषुकम् ॥४९॥नवनीतं द्राविलञ्च सज्जन्तक्कोलमेव च ।बला चाति बला चैव सिंही प्रियङ्गुलोद्धृता ॥५०॥नागकेसरजंबूका कपित्थाश्वत्थ गुग्गुलु ।एला च जीरकञ्चैव कृष्णजीरकमेव च ॥५१॥सुतैलं कुङ्कुमं मेघमगरुङ्कृष्णलोचना ।श्रीवेष्टकं गन्धरसं पिप्पलीहस्तपिप्पली ॥५२॥कृष्णागरुञ्चतगरं मनःशिलारक्तचन्दनम् ।लवङ्गं रजनी चूर्णं कषायं मार्जनान्तकम् ॥५३॥पिप्पलोदुंबर प्लक्ष वटत्वग्भिः कषायकम् ।द्रव्यं तिलकुशाग्राणि तथा मार्जव्यमादिशेत् ॥५४॥द्रव्याण्येतानि चोक्तानि द्विविधं स्नानमार्जनम् ।रसद्रव्याणि सर्वाणि स्नानद्रव्याणि संविदुः ॥५५॥फलचूर्णौषधीत्यादि मार्जनद्रव्यकाणिते ।रसादन्यानि सर्वाणि तोयैःसंपूरयेत् सुधीः ॥५६॥रसाश्च पञ्चगव्याक्ताः पञ्चकुम्भेषु कीर्तिताः ।आज्यान्ता नवकुम्भानां वत्वन्ताः पञ्चकुम्भके ॥५७॥गुलादिपुन्नागान्ताश्च चत्वारिंशन्नवाधिके ।द्रव्यादिजात्यलान्ताश्च एकाशीतिर्विशेषतः ॥५८॥पाद्यादिमार्जनान्तास्तु अष्टोत्तरं शतं भवेत् ।अधर्माद्यादि * * * दिग्विदिग्व्यूह संज्ञकाः ॥५९॥मध्यमस्य शिवव्यूहो नवव्यूहा प्रकीर्तिताः ।गन्धपुष्पादिनाभ्यर्च्य दर्भैश्चैव परिस्तरेत् ॥६०॥मध्यमे शिवकुम्भन्तु शिवमन्त्रेण विन्यसेत् ।द्वात्रिंशद् वा चतुर्विंशत् षोडशप्रस्थपूरितः ॥६१॥शिवकुम्भमिदं प्रोक्तं वर्धन्यास्तु तदर्धकम् ।पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् ॥६२॥शिवव्यूहस्य मध्ये तु विन्यस्य शिवकुम्भकम् ।तस्य व्यूहस्य सुम्ये तु तन्मध्ये वा शिवोत्तरे ॥६३॥सकूर्चां वस्त्रसंयुक्तां वर्धनीं हेमसंयुताम् ।मनोन्मनीन्तु संस्थाप्य बीजमन्त्रमनुस्मरन् ॥६४॥गन्धपुष्पादिभिः पूज्य हृदयेन विचक्षणः ।पाद्यारभ्य घृतान्तानामष्ट विद्येश्वराधिपाः ॥६५॥मध्वादिमार्जनान्तानां शतरुद्राधिदैवताः ।एकैकमर्चयेत् सर्वानेकैकं वस्त्रकं ददेत् ॥६६॥स्वस्वनाम चतुर्थ्यन्तैर्गन्धपुष्पादिभिर्यजेत् ।षोडश द्विशतञ्चैव पूर्ववत् स्थापयेत् क्रमात् ॥६७॥पूर्वोक्तानीहद्रव्याणि प्रधानानि सुकीर्तिताः ।उशीरागरुकर्पूर चन्दनैश्च सुपुष्पितम् ॥६८॥शुद्धतो येन सम्मिश्रमुपस्नानोदकं स्मृतम् ।उपस्नानानि तत् सङ्ख्या सप्ततीर्थानि यानि तु ॥६९॥अधमाधममारभ्य उत्तमादधमान्तकम् ।उक्तं सर्वं विशेषेण देवता द्रव्यसंयुतम् ॥७०॥उत्तमान्मध्यमञ्चैव उत्तमोत्तममेव च ।स्नपनञ्चैव द्रव्यांश्च किञ्चित् भेदं गजानन ॥७१॥षट्सूत्रं प्राङ्मुखं तत्र उदक्सूत्रकमेव च ।पञ्चतालप्रमाणेन पदवीसारविस्मृता ॥७२॥अतः परं समावृत्य पदमष्टौ परित्यजेत् ।चत्वारिवीधयः प्रोक्ता महादिक्षु चतुष्पदाः ॥७३॥द्वादशानि पदानिह चतुष्कोणेषु सङ्ग्रहेत् ।तेषु द्वादशकोष्ठेषु प्रत्येकं पञ्चविंशतिः ॥७४॥मध्यव्यूहविशेषेण कृत्वा नवपदन्ततः ।षडावरणमार्गेण स्थापयेत् स्थापकोत्तमः ॥७५॥स्थापयेन्मध्यतो व्यूहे नवकुम्भानि पूर्ववत् ।वर्धनीं तस्य वामे तु प्राग्वत्संस्कृत्य मन्त्रवित् ॥७६॥पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चमावरणान्तिकम् ।प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥७७॥तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।पञ्चमे पञ्चगव्यन्तु तिंशदष्टोत्तरं त्विदम् ॥७८॥यवनी वारमुद्गांश्च तिलं सर्षपमेव च ।श्वेतशाली महाशाली रक्तशाली तथैव च ॥७९॥सौगन्धी हेमशाली च दशबीजमिति स्मृतम् ।द्वाविंशत् कलशेपूर्य प्रथमावरणे न्यसेत् ॥८०॥उपस्नानादिनीतानि तावत् सङ्ख्यानि विन्यसेत् ।चत्वारिंशच्च चत्वारि कलशानि समन्ततः ॥८१॥अर्चयित्वा विधानेन बीजमन्त्रमनुस्मरन् ।प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥८१॥चामीकरं तथा हेमं शातकुम्भमतः परम् ।जांबूनदञ्च तप्तञ्च जाति सप्तादिमिश्रितम् ॥८२॥प्. ८२) षड्विंशत् कलशे सूत्रमुदकैः सहविन्यसेत् ।तावत् सङ्ख्या भवेत् तेषु कलशेष्वन्तणोदकम् ॥८३॥कलशानि द्विपञ्चाशच्चतुष्कोणेषु चैव हि ।द्वितीयावरणे न्यस्त्वा ब्रह्ममन्त्रैश्च देशिकः ॥८४॥द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ।पद्मरागञ्च वैडूर्यं वज्रं पुष्यन्तथैव च ॥८५॥स्फटिकं मौक्तिकं निलमिन्द्रनीलं प्रवालकम् ।एतेषु नवरत्नांबु त्रिंशत् सुकलशेषु वै ॥८६॥तावत् सङ्ख्या भवेत् तानि कलशेष्वन्तरोदकम् ।कलशानि भवेत् षष्टिश्चार्चयित्वाङ्ग विद्यया ॥८७॥तृतीयावरणं प्रोक्तञ्चतुर्थावरणं शृणु ।हरितालं तथा माञ्जिमञ्जनञ्च मनःशिला ॥८८॥रोध्रञ्च सीसकञ्चैव गैरिकन्तु ततः परम् ।चतुस्त्रींशत्सुकुम्भेषु सप्तधात्वंबुना सह ॥८९॥तावत् ग्राह्यो भवेत्तानि कलशेष्वन्तरोदकम् ।अष्टोत्तरं तथा षष्टिः कलशानां विशेषतः ॥९०॥प्रत्येकमर्चयेत्तानि विद्यांगैश्च विशेषतः ।पञ्चमावरणे पञ्चगव्याधानमतः शृणु ॥९१॥गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।गोमूत्रादिषडेतैस्तु अष्टत्रिंशत् घटे न्यसेत् ॥९२॥विन्यसेत् ब्रह्मपञ्चानामष्टत्रिंशत् कला क्रमात् ।यावत् सङ्ख्या भवेत्तानि प्रत्येकञ्चान्तरोदकम् ॥९३॥द्रव्यान् कुम्भेषु संयोज्य शतरुद्रान्विशेषतः ।शतत्रयेषु कुंभेषु विन्यसेत् तु पृथक् पृथक् ॥९४॥संस्नाप्याभ्यर्च्य विधिना स्वैस्वैर्नामभिरेव च ।त्रिशताष्टममेवोक्तमुत्तमस्योत्तमं शृणु ॥९५॥प्रागग्रं द्वादशं सूत्रं उदगग्रं तथैव च ।एकविंशच्छतं कृत्वा पदन्तत्र विनायक ॥९६॥चतुष्कोणेषु मतिमांश्चतुःसूत्राणि विन्यसेत् ।आग्नेयादिसमारभ्य पदैकान्तरितं यथा ॥९७॥षट्त्रिंशत् गात्रसंयुक्तं गात्रस्थाना वृतन्त्यजेत् ।द्वारे द्वेद्वेपदन्त्यक्त्वा चत्वारिंशत् पदं स्थितम् ॥९८॥तेषां मध्यमकोष्ठन्तु कृत्वा नवपदन्ततः ।एकैकं पदमध्ये तु पञ्चविंशति सङ्ख्यया ॥९९॥कलशानि ततोप्यष्ट सहस्रैकादशावृतौ ।विद्येशोमा शिवाख्यांश्च कुम्भान्विन्यस्य पूर्ववत् ॥१००॥विद्येशावरणन्त्यक्त्वा तच्छृणुष्वदशावृतान् ।प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥१०१॥तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदकान् ॥१०२॥गन्धाश्चौषधयः सर्वे सप्तमे च तथा भवेत् ।अष्ट मृच्चाष्टमे चैव कषाया नवमावृतौ ॥१०३॥दशमे चैव पुष्पाणि एकैकन्तु शृणु क्रमात् ।बीजानि पञ्चगव्यान्तं पूर्ववत् स्थापयेत् बुधः ॥१०४॥पञ्चमावरणं प्रोक्तं षष्ठमावरणं शृणु ।कदली बिल्वचूतांश्च मातुलुङ्गञ्च डाडिमी ॥१०५॥नालिकेरञ्च नारङ्गं लिकुचंपनसं तथा ।फलोदकानि तानीहद्वेषष्टीत्यभीधीयते ॥१०६॥प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् ।कलशानि शतानीह चतुर्विंशति चोत्तरम् ॥१०७॥प्रत्येकमर्च्चयेत् तानि प्रशान्तायेतिमन्त्रतः ।गन्धैरोषधिभिश्चैव सप्तमावरणं शृणु ॥१०८॥उशीरञ्चन्दनञ्चैव कर्पूरञ्जातिरेव च ।शङ्खपुष्पञ्च श्रीदेवी विष्णुक्रान्तीशतावरी ॥१०९॥गन्धांश्चाष्टौ च धातूंश्च षष्ट्युत्तरषडेव च ।तावत् सङ्ख्या तु विज्ञेया ह्युप स्नानविशेषतः ॥११०॥द्वात्रिंशदुत्तरं प्रोक्तं शतमेकं समासतः ।ओषधीनां लतानाञ्च वृक्षाणाञ्च समासतः ॥१११॥फलानां कुसुमानाञ्च मूलादीनां समाहरेत् ।सप्तमावरणं प्रोक्तमष्टमावरणं शृणु ॥११२॥दर्भाधोनागदन्ताग्रे वराहस्य च कर्षणे ।वल्मीके वृषशृंगाग्रे नद्यां वै पर्वतेऽपि च ॥११३॥समुद्रे चैव मेधावी मृदं ग्राह्य विशोधयेत् ।प्रत्येकं कलशेष्वेवं सप्ततिः परिसङ्ख्यया ॥११४॥उदकेन समापूर्य तत् सङ्ख्या चान्तरोदकम् ।चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् ॥११५॥अर्चयेत् पार्थिवार्णेन नवमावरणं शृणु ।आम्रोथपनसश्चैव न्यग्रोधोदुंबरस्तथा ॥११६॥अश्वत्थञ्च शिरीषञ्च मधुकोथपलाशकः ।अष्टवृक्षत्व चश्चूर्णं विन्यसेद् वारिणासह ॥११७॥प्रत्येकं पूरयित्वा तु सप्ततिश्चतुरुत्तरम् ।तावत् सङ्ख्या भवेत् तानि उपस्नानोदकानि च ॥११८॥चत्वारिंशत् तथा चाष्टौ शतैकेन समायुतम् ।अर्चयेच्छिखयाधीमान् गन्धपुष्पादिभिः क्रमात् ॥११९॥दशमावरणे प्रोक्तं पुष्पाणि च ततः शृणु ।पङ्कजांश्च पलाशांश्च नन्द्यावर्तांश्च मल्लिकाः ॥१२०॥करवीरञ्चंपकञ्च नीलोत्प्ललं तथाष्टकम् ।कलशेषु विनिक्षिप्य सप्तत्यष्टाधिक स्मृताः ॥१२१॥पुष्पाणि कलशेष्वेव निक्षिप्याद्भिः प्रपूर्य च ।तावत् सङ्ख्या भवेत् तानि उपस्नानानि विन्यसेत् ॥१२२॥एवं दशावृतान् स्थाप्य गन्धपुष्पाक्षतैर्युतम् ।प्रत्येकं कलशान् सर्वान्वस्त्रैरावेष्ट्य यत्नतः ॥१२३॥द्रव्येषु शतरुद्रांश्च अप्सुतीर्थानि कल्पयेत् ।नवधा स्थापनं प्रोक्तं तत्र मुद्रां प्रदर्शयेत् ॥१२४॥आद्यन्ते च नमस्कारां मध्ये बीजांमनोराम् ।एवन्तु स्थापयेद् विद्वानासनावाहनादिकम् ॥१२५॥कृत्वा प्रागुक्तवद्धिमानभिषेकं समाचरेत् ।पुण्याहन्तु विशेषेण कृत्वा कुम्भान् प्रपूजयेत् ॥१२६॥शैवन्तत्र विधानज्ञमादिशैव कुलोद्भवम् ।एकन्तत्र विधानज्ञमाचार्यं पूजयेत् क्रमात् ॥१२७॥वस्त्रैराभरणैः पुष्पैरङ्गुलीयकयज्ञकैः ।शिवकुम्भं समुत्थाप्य हस्तेन शिरसाथवा ॥१२८॥संवाह्य गर्भगेहन्तु उत्तराभिमुखस्थितः ।स्थापयेद् देवदेवेशं मूलमन्त्रेणमन्त्रवित् ॥१२९॥गणांबिकेन मन्त्रेण वर्धन्या स्थाप्यपिण्डिकाः ।तत् तत् स्थाने पुनस्थाप्य पूर्ववच्च यथा क्रमम् ॥१३०॥स्नाप्यद्रव्यं यथा न्यायमुत्थानञ्च तथैव च ।स्थापिते नैव मन्त्रेण स्नापयेत् तु सदाशिवम् ॥१३१॥कलशं वा महेस्ते तु विन्यस्त्वा दक्षिणेन तु ।गोशृंगाग्र प्रमाणेन संस्थाप्यच्छिन्नधारया ॥१३२॥स्थापितान्युपयुक्तानि कलशानिविसर्जयेत् ।स्नपनानाञ्च सर्वेषामन्तेहारिद्र चूर्णकैः ॥१३३॥संस्नाप्याभ्यर्चयेद् विद्वान् प्रभूतहविषं कुरु ।बीजानामप्यलाभे तु निवारं वायवन्तु वा ॥१३४॥लोहानामप्यलाभे तु निक्षिपेत् तप्तकाञ्चनम् ।रत्नानामप्यलाभे तु मौत्तिकं ग्राह्य देशिकः ॥१३५॥धातूनामप्यलाभे तु हरितालं विशेषतः ।पुष्पाणामप्यलाभे तु पद्मसङ्ग्राह्य देशिकः ॥१३६॥एवं यः कुरुते मर्त्यः भक्तियुक्तस्तथैव च ।शशिवत् क्रीडते नित्यं शिवलोकेमहीयते ॥१३७॥स्वेच्छयैव समागत्य पृथिव्यामेकराट् भवेत् ।नवधा स्नपनं प्रोक्तं शीतकुम्भविधिं शृणु ॥१३८॥इति स्नपनविधि पटलः पञ्चदशः ॥१५॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP