संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| स्नान पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - स्नान पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् स्नान पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् ।पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥१॥स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् ॥२॥दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥३॥वक्ष्ये वारुणमाग्नेयं शृणु तत्वं गजानन ।नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥४॥प्. २५) कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे ।तटाकेष्वपिन स्नानं सरित्सत्यांगजानन ॥५॥कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।तस्माद् दशगुणं नद्यः समुद्रगामिकाः पराः ॥६॥प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥७॥तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥८॥शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् ।तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥९॥शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥१०॥मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् ॥११॥मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः शृणु ।मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥१२॥सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥१३॥हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥१४॥सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् ॥१५॥पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥१६॥अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥१७॥शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥१८॥जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥१९॥शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥२०॥उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥२१॥ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा ।अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे ॥२२॥तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥२३॥अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥२४॥अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥२५॥चक्रवत्युपचारेण सुगन्धामलकादिभिः ।जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥२६॥शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥२७॥अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥२८॥मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥२९॥ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥३०॥सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् ॥३१॥स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥३२॥एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥३३॥मित्रा सत्येनेमम्मेति सततं स ममंत्रितः ।एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥३४॥देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥३५॥अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥३६॥तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥३७॥सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥३८॥जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥३९॥एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥४०॥शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥४१॥धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥४२॥प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥४३॥तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥४४॥तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥४५॥अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥४६॥ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् ।जलस्नानमिदं प्रोक्तं भस्मस्नानमथो शृणु ॥४७॥इति स्नान पटलः पञ्चमः॥ ५॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP