संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| शक्तिप्रतिष्ठाविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - शक्तिप्रतिष्ठाविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् शक्तिप्रतिष्ठाविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शक्तिसंस्थापनं परम् ।वह्नेरुष्णत्ववच्छक्तिरविनाभाविनीविभोः ॥१॥अमूर्तिच्छेदमूर्ताख्या समूर्तञ्चेत् समूर्तकम् ।सदाशिव शिवौ रुद्रो विष्णुब्रह्मेति भेदिताः ॥२॥मनोन्मनीश्वरीचोमा श्रीसावित्री प्रभेदिताः ।परापरमिदं भेदं लोकानुग्रहकारिणम् ॥३॥मनोन्मनीश्वरी चैव सहैवस्थापनं विदुः ।त्रिभेदमन्यच्छक्तीनामेक युक्तं सहेति च ॥४॥शक्तिस्तु केवलं यत्र स्थापने त्वघमुच्यते ।पूर्वं शंभुं प्रतिष्ठाप्य शक्तेस्तु स्थापनं तथा ॥५॥कृतो युक्तोविधानेन युक्तं तत् परिकीर्तितम् ।शक्तिंशंभुमथैकत्र स्थापनं तत्सहैव तु ॥६॥त्रिप्रकारेषु सामान्यं मूलमन्त्रादिकं शृणु ।मायाबीजञ्च व्योमेन सहबिन्दुं सनादिकम् ॥७॥आदिशक्तेस्तु मूलं स्याद्वियद्वापि सबिन्दुका ।षडंगास्तु समाख्यातं स्वरेव द्वितयं तथा ॥८॥चतुर्त्थमष्टमञ्चैव द्वादशं स्वरमेव च ।चतुर्दशस्वरञ्चैव षोडशं स्वरमेव च ॥९॥संयोज्य हृच्छिराचूडा वर्मनेत्रास्त्र संज्ञिका ।शिरोमन्त्रे विशेषोस्ति सलिलार्णेन संयुतम् ॥१०॥सविसर्गमथास्त्र स्यात् विन्दुनादविवर्जितम् ।आद्यास्वर तृतीयञ्च पञ्चमं दशमान्तकम् ॥११॥द्वादशान्तञ्च पञ्चैते सद्यादि ब्रह्मपञ्चका ।उच्यते गौरिगायत्री गणांबिकायै विद्महे ॥१२॥इत्युच्चार्य तदन्ते तु महातपायैधीमही ।एवमुक्त्वा तदन्ते तु तन्नोगौरी प्रचोदयेत् ॥१३॥गौरिगायत्रि संज्ञाख्या चतुर्विंशतिकाक्षरा ।मृण्मयं शैलजञ्चैकं शेषं लोहजमुच्यते ॥१४॥मृण्मये तु तथा नोक्तमधिवासञ्जलेन तु ।समानमन्यत् सर्वेषां यथा शक्तिविधीयते ॥१५॥पूर्वोक्तेन विधानेन कृत्वा तत्प्रतिमं बुधः ।प्रतिष्ठादि वसात् पूर्वे कर्तव्यञ्चाङ्कुरार्पणम् ॥१६॥पूर्ववद्रत्नविन्यासं कृत्वा तदनुबिंबकम् ।सुस्निग्धं कारयित्वा तु नेत्रमोक्षणमारभेत् ॥१७॥हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण चारभेत् ।हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण देशिकः ॥१८॥भ्रूरेखा प्रथमं लिख्य पक्ष्मरेखाद्वितीयकम् ।श्वेतमण्डलमालिख्य ततो वै कृष्णमण्डलम् ॥१९॥ज्योतिर्मण्डलमध्ये तु कर्तव्यं शिल्पिनाबुधः ।शिल्पिमुद्वास्य गुरुणा कर्तव्यं कर्मचोत्तरम् ॥२०॥हिरण्य नखसंप्रोक्तौ तर्जनीमध्यमाङ्गुली ।तासां नेत्रेप्यसौधीमां छक्तिमन्त्रेण संस्पृशेत् ॥२१॥कांस्ये मधुघृताभ्यान्तु सौवर्णेन तु दूर्वया ।हृन्मन्त्रेण तु संसिच्य सवत्साङ्गां पयस्विनीम् ॥२२॥गौर्धेनुहव्य मन्त्रेण देशिकोगां प्रदर्शयेत् ।ब्राह्मणादिञ्जनान् सर्वान्वीक्षयित्वाक्षमन्त्रतः ॥२३॥बिंबशुद्धिं ततः कृत्वा शुद्धतोयैर्विचक्षणः ।सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ॥२४॥जलाधिवासनं पश्चात् त्रिरात्रं वैकरात्रकम् ।चतुरश्रां प्रपां कृत्वा दर्भमालाविभूषिताम् ॥२५॥वस्त्रैरावेष्टयित्वा तु पुष्पैर्दर्भैर्विशेषतः ।कण्ठमात्रे जलेशुद्धे शक्तिं तत्राधिवासयेत् ॥२६॥दिक्पालाधिपकुंभानि विन्यसेत् परितोजले ।प्रतिष्ठामण्डपं कृत्वा सर्वालङ्कारसंयुतम् ॥२७॥षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।चतुस्तोरणसंयुक्तं दर्भमालाभिशोभितम् ॥२८॥तन्मध्ये वेदिकां कृत्वा तत्त्रिभागैकविस्तृताम् ।हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥२९॥तालमात्रसमुत्सेधामुपवेदीं प्रकल्प्य वै ।तस्योत्तरसमीपे तु तद्वद् वै स्नानमण्डपम् ॥३०॥तन्मध्ये स्नानवेदीञ्च तिस्रोवाद्व्येकमेखलाम् ।स्थण्डिले वेदिकोर्ध्वे तु अष्टद्रोणैश्च शालिभिः ॥३१॥तिलतण्डुलसंयुक्तं पद्ममष्टदलं लिखेत् ।अण्डजाद्यैर्विशेषण संकल्प्यशयनं तथा ॥३२॥अलाभे त्वण्डजादीनां वस्त्रः संकल्प्य पञ्चभिः ।प्रागुक्तलक्षणोपेतस्त्वादिशैव कुलोद्भवः ॥३३॥सुस्नात्वा चन्म्यविधिवत् सर्वालङ्कारसंयुतम् ।नीत्वा जलोषितं बिंबं स्नापयेत् पञ्चगव्यकैः ॥३४॥स्नानवेद्युपरिस्थाप्य सुस्नाप्य विधिपूर्वकम् ।गणांबिकेतिमन्त्रेण अष्टमृत्सलिलेन तु ॥३५॥तदा म्लेलेपनाद्यैश्च बिंबशुद्धिं यथोचितम् ।गन्धपुष्पादिनाभ्यर्च्य बीजमुख्येन देशिकः ॥३६॥ततः सुवर्णसूत्रेण बध्वा प्रतिसरं बुधः ।घृतः शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥३७॥शयने शाययेच्छक्तिं शिरः पूर्वमुखोर्ध्वतः ।वस्त्रैराच्छादयित्वा तु पुण्याम्बुनितु देशिकः ॥३८॥स्थण्डिले तूपवेद्यान्तु निष्कलंकाञ्छुभां दृढान् ।वस्त्रहेमसमायुक्तान् सूत्राक्षतसपल्लवान् ॥३९॥लोकपालाधिपानष्ट कुंभान् पूर्वादितः क्रमात् ।आवृतान् कलशांश्चैव हैमसूत्राष्टसंयुतान् ॥४०॥सकूर्चान् सा पिधानांश्च वस्त्रयुग्मेन वेष्टितान् ।वामादिशक्ति संयुक्ता नष्टौ संस्थापयेद्धृदा ॥४१॥गन्धपुष्पादिनाभ्यर्च्य हृदयेन विचक्षणः ।वर्धनी सूत्रसंयुक्तान् वस्त्रयुग्मसमावृतान् ॥४२॥सकूर्चां सा पिधानांश्च आदिशक्त्यधिदैवतान् ।हेमपंकजनिक्षिप्तां नवरतसमायुतान् ॥४३॥बिंबस्य शिरसश्चैव भावे संस्थाप्यबीजतः ।गन्धपुष्पाक्षताद्यैश्च संपूज्याग्निमथारभेत् ॥४४॥नवपञ्चाग्निकं वापि त्रयं वा चैकमेव वा ।योन्याकाराणि विधिवत् ततः कुण्डं प्रकल्पयेत् ॥४५॥अग्न्याधानान्ततः कृत्वा पूर्ववत् षोडशक्रियाम् ।आहूयाग्नौ तु तच्छक्तिं बीजमुख्येन मन्त्रवित् ॥४६॥पूर्ववत् समिधाज्यैस्तु होमं कृत्वा स्वमन्त्रतः ।स्पर्शाहुतिं ततः कृत्वा तत्तन्मन्त्रेण मन्त्रवित् ॥४७॥प्रभाते सुमुहूर्ते तु सर्वातोद्यसमायुतम् ।आचार्यमूर्तिपांश्चैव दैवज्ञं संप्रपूजयेत् ॥४८॥पूर्णाहुतिं ततो दत्वा बीजमुख्येन मन्त्रतः ।शक्तिबिंबन्ततोत्थाप्य स्नानवेद्युपरिन्यसेत् ॥४९॥वर्द्धनीन्तु ततोत्थाप्य देशिकश्चोत्तराननः ।बिंबस्य हृदये मूर्ध्नि नाभौ मूले तु विन्यसेत् ॥५०॥न्यस्त्वा ब्रह्माङ्गमन्त्राणि विन्यसेत् सर्वमात्रकाः ।वर्धकुंभस्थ शक्तीश्च बिंबे संयोज्यमूलतः ॥५१॥बीजमुख्येन मन्त्रेण तज्जले नाभिषिच्य वै ।वामादि शक्तिकुंभाद्भिः संस्थाप्य स्वस्वमन्त्रकैः ॥५२॥स्नान लेपादिभिरद्भि स्वस्वमन्त्रैर्विशेषतः ।पाद्यमाचमनञ्चार्घ्यं दद्याद् देव्यै हृदादिभिः ॥५३॥अभ्यर्च्य गन्धपुष्पाद्यैः सर्वालङ्कारसंयुतम् ।पायसं हविषं तत्र हृदयेन प्रदापयेत् ॥५४॥एव मेवं समाख्यातं युक्तं तत्र वदामिते ।मण्डपं विधिना कृत्वा तन्मध्ये वेदिकां क्रमात् ॥५५॥सर्वालङ्कारसंयुक्तां वितानध्वजभूषिताम् ।तन्मध्ये स्थण्डिलं कृत्वा वह्निं तत्रैव संयजेत् ॥५६॥तत्र मानुषनाहे तु उमारुद्रौ तु वारुणे ।वामभागे ह्युमां न्यस्त्वा सर्वालङ्कारसंयुताम् ॥५७॥नववस्त्रैरुमारुद्रौ प्रशान्तायेति भूषयेत् ।आचार्यो ब्रह्मवद्ध्यात्वा विवाहे सर्वकर्मणि ॥५८॥पूर्वोक्तेन विधानेन अग्न्याधानादिकं तथा ।विष्णुं तत्रैव चाहूय देवीमुदकपूर्वकम् ॥५९॥रुद्रस्य दक्षिणे हस्ते बीजमुख्येन दापयेत् ।वामे श्मानन्तु संस्थाप्य गौरीगायत्रिमंत्रतः ॥६०॥देव्याः पादञ्च रुद्रेण स्पर्शयित्वाश्मनि न्यसेत् ।शिवमन्त्रेण मन्त्रज्ञो लाजं हुत्वात्रयंबुधः ॥६१॥शक्तियुक्तं ततः सर्वं प्रभूतहविषं ददेत् ।युक्तमेवमिदं प्रोक्तं सहैव स्थापनं शृणु ॥६२॥आरंभस्थापनान्तं यत्सर्वकर्मसहैव तु ।सहैव इति विख्यातं चोत्सवोविधिचोदितः ॥६३॥एवमेवं तथा प्रोक्तं लक्षः सावित्रयस्तथा ।शक्तिसंस्थापनं प्रोक्तं परिवारमथ शृणु ॥६४॥इति शक्तिप्रतिष्ठाविधिपटलः अष्टत्रिंशत्तमः ॥३८॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP