संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| अङ्कुरार्पणविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - अङ्कुरार्पणविधि पटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् अङ्कुरार्पणविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि अङ्गुरस्यविधिक्रमम् ।सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलांकुरम् ॥१॥स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा ।नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः ॥२॥सायादिदिनमारभ्य साये चैवाङ्कुरार्पणम् ।बीजानमधिपः सोमस्तस्माद्रात्रौ तु वापयेत् ॥३॥कृत्वा प्रदक्षिणं ग्रामं शङ्खभेर्यादिनीस्वनैः ।च्छत्रद्ध्वजवितानैश्च गजाश्वरथरोपणैः ॥४॥पिञ्चचामरसंघैश्च त्रिशूलेन समायुतम् ।माहेश्वरैर्वहित्वा तु पालिकादीन् शिरोपरि ॥५॥पालिकाघटिका चैव शरावं त्रिविधं भवेत् ।सौवर्णं रजतं वापि ताम्रजं मृन्मयन्तु वा ॥६॥पालिकामुखविस्तारं कन्यसं द्वादशाङ्गुलम् ।विस्तारं षोडशाङ्गुल्यं मध्यमं समुदाहृतम् ॥७॥विंशत्यङ्गुलकं ज्येष्ठं विस्तारोत्सेधतः समम् ।तदर्धं पादविस्तारं सवृत्तं सुदृढं समम् ॥८॥विस्तारस्य तु षट्भागमोष्ठं हि परितः त्विह ।विस्तारस्य त्रिभागैकं सुवृत्तं बिलमुच्यते ॥९॥एवं मुखं बिलञ्चैव शेषं दण्डं प्रकल्प्य वै ।विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ॥१०॥घटिकाकलशाकारा दण्डं पादन्तु पूर्ववत् ।चतुर्दिक्षु चतुर्द्वारं त्रिकोणञ्च त्रियङ्गुलम् ॥११॥पालिकार्धं शरावन्तु प्रमाणञ्च तथा भवेत् ।नदीतटाकतीरे वा केदारे पर्वते वने ॥१२॥स्थानं प्राप्य विशुद्धञ्च समृन्मृज्याथ भूतलम् ।हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिनार्चयेत् ॥१३॥कुन्दाल्या खानयेन्मन्त्री शिवं स्मृत्वा हृदा ततः ।मृदं संग्राह्य वामेन प्रविशेदालयं प्रति ॥१४॥आलयस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।पुण्याहं वाचयित्वा तु भूमिं संप्रोक्ष्य बुद्धिमान् ॥१५॥स्थण्डिलन्तत्र कर्तव्यं पालिकादीनिविन्यसेत् ।प्रत्येकं षोडशं वापि अष्टौ वा चतुरोपि वा ॥१६॥एकाशीति पदं कृत्वा चतुर्विंशपदं विना ।मध्येनवपदं पद्मं कोणेषु द्वादश स्मृताः ॥१७॥पञ्चविंशत् पदं कृत्वा मध्ये पद्मं सलक्षणम् ।अथवा षोडशं कृत्वा तन्मध्ये बञ्चतुष्पदम् ॥१८॥कुम्भं पद्मे तु संस्थाप्य सोमराजाधिदैवतम् ।सा पिधानं सकूर्चञ्च सहिरण्यं स वस्त्रकम् ॥१९॥गन्धाद्यैरर्चयेत् सोमममृतेन तु बीजतः ।कुरीयमनिलाख्यस्य प्रथमस्वरसंयुतम् ॥२०॥सानुस्वारं सदानञ्च योजयेदत्रदाक्षरम् ।दीपमादौ समुच्चार्य तदन्ते बीजमुच्चरेत् ॥२१॥सोमं शब्दञ्चतुर्थ्यन्तं नृत्यन्तं प्रोच्चरेत् गुरुः ।पायसं सोमराजायसोपदं शन्निवेदयेत् ॥२२॥पालिकाकोणभागेषु घटिकाश्च शरावकान् ।पूर्वादिषु चतुर्दिक्षु विन्यसेत् क्रमयोगतः ॥२३॥एवं संस्थापनं प्रोक्तमुत्तमं चाधमाधमौ ।दिशश्च विदिशश्चैव पालिका स्थापनं भवेत् ॥२४॥घटाश्चाभ्यन्तरे स्थाप्य शरावा मध्यमे स्मृतः ।पालिका ब्रह्मदैवत्यं घटिकाविष्णुरुच्यते ॥२५॥ईश्वरस्तु शरावाणां पात्राणामधिदेवताः ।तेषां मृद्भिः करीषैश्च वालुकैश्च सुपूरयेत् ॥२६॥तिलसर्षपमुद्गानिमाषानिष्पावकौ तथा ।शालिप्रियमपामार्ग यवशामानि वै दश ॥२७॥प्रक्षाल्यपयसाविद्वन् दशबीजेन वा पयेत् ।कुम्भस्थेन जले नैव नित्यं संप्रोक्षयेत् सुधीः ॥२८॥नित्यं संपूरयेत् गन्धतो ये नैव घटं पुनः ।विधाय च विधानेन स्वनुगुप्तं निधापयेत् ॥२९॥सितानि कोमलानीह कीर्तितानिशुभानि वै ।असितानि चतुब्जानि तथा तिर्यग्गतानि च ॥३०॥तद्दोषशमनार्थन्तु शतं हुत्वाशिवं स्मृतः ।अङ्गुराणां विधिः प्रोक्तं लिङ्गसंस्थापनं शृणु ॥३१॥इति अङ्कुरार्पणविधिपटलः पञ्चत्रिंशत्तमः॥ ३५॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP