संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| शिवार्चनविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - शिवार्चनविधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् शिवार्चनविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शिवार्चनविधिक्रमम् ।सर्वपापहरं दिव्यं सर्वलोकसुखावहम् ॥१॥श्रीप्रदं सर्वविघ्नघ्नं राज्ञो राष्ट्रविवर्धनम् ।तदपि द्विविधं प्रोक्तमात्मार्थञ्च परार्थकम् ॥२॥क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च ।कौतुके भक्तिचित्रे वा आत्मार्थेऽर्चनमारभेत् ॥३॥ग्रामे दृष्ट्वाधवान्येषु शिवधामनिनिर्मिते ।तेषु स्थावरलिङ्गेषु परार्थं यजनं स्मृतम् ॥४॥सिकतं तण्डुलञ्चान्नं नदीमृद्गोमयं तथा ।नवनीतञ्च रुद्राक्षं पिष्टं चन्दनकूर्चकम् ॥५॥पुष्पमालांगुलञ्चेष्टं क्षणिका द्वादश स्मृताः ।पूजान्ते क्षणिका त्याज्याः तत्त्वं हृदि समानयेत् ॥६॥स्फटिकं रत्नजं शैलं बाणलिङ्गञ्च लोहजम् ।चललिङ्गं समाख्यातं स्थण्डिलं शालितण्डुलैः ॥७॥सिकतैर्वा समाख्यातं मण्डलं करमानतः ।गोमयालेपिते तत्र संलिख्ख्याब्जदलाष्टयुक् ॥८॥मण्डलं त्विति विख्यातं द्वादशप्रतिमार्चनम् ।कौतुकं त्विति ख्यातं भित्तिचित्रं तथैव च ॥९॥आत्मार्थ यजनेख्याता यथा युक्त्यासमर्चयेत् ।दीपान्तं वाहविष्यन्तमात्मर्थे तु परार्थके ॥१०॥सामान्यमिदमाख्यातं परार्थस्तु विशेषतः ।नित्योत्सवन्तु नित्याग्नियजनं पादुकार्चनम् ॥११॥नीराजनं रजन्याञ्च गीतं नृत्तञ्च वाद्यकम् ।तेषु कुर्याद् यथा शक्यं लिङ्गेस्थावर संज्ञके ॥१२॥उक्तेषु तेषु सर्वेषु विना नित्योत्सवं ततः ।पादुकाभ्यर्चनं त्यक्त्वा शेषाण्यात्मार्थमाचरेत् ॥१३॥दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् ।परार्थमादिशैवानामात्मार्थं वा समर्चयेत् ॥१४॥वह्निमण्डलमध्यस्थ ज्वालाभिर्वह्निबीजतः ।पादाङ्गुष्ठाच्छिखायावन् निर्दहेच्छुष्ककाष्ठवत् ॥१५॥विचिन्त्य भस्मीभूतं तु पिण्डीकृत्वा निलेन तु ।तस्मिन् प्रागुक्तममृतं स्रवन्तं भस्मनि स्मरेत् ॥१६॥आत्मानमानयेत् तत्र सर्वात्महृदयेन तु ।दिव्यदेहो भवे देवमङ्गन्यासं अथ शृणु ॥१७॥मूर्धादिसृष्टिरेवं स्यात् पादादिः संहृतिर्भवेत् ।नासादि हृदयान्तन्तु स्थिति न्यासं प्रकीर्तितम् ॥१८॥पञ्चमेन शिरः पञ्चपञ्चभिः कल्पयेत् ततः ।चत्वारिवदनां यत्र वक्त्रमन्त्रेण भावयेत् ॥१९॥पञ्चमं वदनं तत्र सर्वात्म हृदयेन तु ।अन्यथा (-धा) कल्पयेत् घोरं हृत्ग्रीवांसेष्वधोरसि ॥२०॥तन्नाभ्युदरपृष्ठेषु न्यसेद् वा मन्त्रयेद् दश ।गुह्यं पायुस्तथा चोरु जानुनी जंघकाद्वयम् ॥२१॥स्फिचौ द्वौ तु कटिः पार्श्वौ न्यसेत् सद्यं ततोऽष्टधा ।पाणिपादौ तथा नासाशिरोबाह्ये न्यसेत् बुधः ॥२२॥दक्षिणे कटिपार्श्वे तु क्षुरिकास्त्रं प्रकल्पयेत् ।मूर्धानने च हृदये गुह्यो वै पादयोः क्रमात् ॥२३॥ब्रह्माणि सृष्टिमार्गेण ईशानादीनि विन्यसेत् ।पादादारभ्य सद्यादि संहरं न्यासकर्मणि ॥२४॥नाभ्यादि हृदयान्तन्तु स्थितिन्न्यासं प्रकीर्तितम् ।सर्वात्मानन्तु हृदये सशिवं शिरसि न्यसेत् ॥२५॥शिखायां ज्वालिनीं न्यस्त्वा वर्मणादेहमध्यतः ।अस्त्रं हस्तप्रदेशेषु पञ्चाङ्गान्योमाचरेत् ॥२६॥विद्याङ्गं पूर्ववन्न्यस्त्वा नेत्रं नेत्रेषु योजयेत् ।द्वात्रिंशत् सन्धिदेशेषु बीजमुख्यन्तु विन्न्यसेत् ॥२७॥हृत्पद्मे तु न्यसे देवमष्ट त्रिंशत् कलान्वितम् ।अङ्गुष्ठमात्रमचलं ध्यायेत् प्रणवमीश्वरम् ॥२८॥मानसैः कुसुमैर्गन्धैर्धूपदीपोपचारकैः ।पूजयेद् धृदये नैव आत्मशुद्धिस्तु कीर्तिताः ॥२९॥द्वारदेवान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।वाग्देवीं द्वारशाखोर्ध्वे सव्ये वामे श्रियं यजेत् ॥३०॥विघ्नेशं मध्यमे पूज्यनन्दिवर्गांश्च दक्षिणे ।यमुनाञ्च महाकालं वामे भ्यर्च्यस्वनामभिः ॥३१॥स्थानं संमृज्यसंप्रोक्ष्य दिग्बन्धञ्चास्त्रमन्त्रतः ।भौमदिव्यन्तरिक्षस्थान् विघ्नान् प्रोत्सारयेद्धृदा ॥३२॥भूमीष्ठान् प्राणदृष्ट्या तु तत्वदृष्ट्यान्तरिक्षगान् ।ज्ञानदृष्ट्या तु दिक् स्थांस्तां स्तन्नामाख्यायमुद्रया ॥३३॥ब्रह्मस्थाने तु ब्रह्माणं पुष्पगन्धादिभिर्हृदा ।स्थानशुद्धिर्भवे देवं द्रव्यशुचिन्ततः शृणु ॥३४॥गोमयेनोपलिप्याथ द्रव्यपात्राणि विन्यसेत् ।अर्घ्यपात्रं शरावञ्च पाद्याचमनपात्रकौ ॥३५॥वर्धनीजलभाण्डञ्च अस्त्रमन्त्रेण क्षालयेत् ।हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ॥३६॥अर्घ्यपात्रं समादाय सन्दाह्यभ्यन्तरं हृदा ।संस्पृश्य तस्मिं श्वेताब्जं ध्यात्वा वै मण्डलत्रयम् ॥३७॥तेषु तत्वत्रयं स्मृत्वा आत्मविद्या शिवात्मकम् ।शिवांबुना शिवे नैव अपूर्वब्रह्मपञ्चकैः ॥३८॥कलावर्णात्मकैः पिण्डैरभिमन्त्र्य यथा क्रमम् ।सुगन्धिकुसुमान् गन्धान् प्रक्षिप्याबुनिमन्त्रवित् ॥३९॥तत्तोयं सर्वपात्रेषु द्रव्यपात्रेषु सर्वतः ।विन्दौ बिन्दुं विनिक्षिप्य कुशेनैव हृदाणुना ॥४०॥द्रव्यशुद्धिर्भवेदेषां मन्त्रशुद्धिरतः परम् ।ओंकारादि युतामन्त्रा नमस्कारान्तयोजिताः ॥४१॥पूर्वं शिवं समुच्चार्य ततो ब्रह्माङ्गकाद्युभौ ।विद्याङ्गं बीजमुख्यञ्च क्षुरिकाञ्च समुच्चरन् ॥४२॥तत् तद्रूपान्वितान्ध्यात्वा पूर्ववन्मन्त्रशुद्धये ।क्रियाकाले प्रयोक्तव्या स्वाहान्तं हवने स्मृताः ॥४३॥मालाद्यैश्वर्यजातानि मन्त्राणि ह्यानितानि च ।मन्त्रशुद्धिरियं प्रोक्ता लिङ्गशुद्धिरतः परम् ॥४४॥हुंफट्कारेण मन्त्रेण महाघण्टां प्रदापयेत् ।प्रच्छादनपटन्त्यक्त्वा लिङ्गशुद्धिं समारभेत् ॥४५॥निर्माल्योद्वासनारंभे स्नानारंभे तदन्तके ।धूपकाले हविष्यादौ हविष्यन्ते तथैव च ॥४६॥नित्योत्सवान्ते नृत्तान्ते महाघण्टां प्रदापयेत् ।निर्माल्योद्वासने काले स्नानान्ते तु विशेषतः ॥४७॥हविष्यादौ च नृत्तान्ते कुर्याद्यवनिवान्ततः ।स्नानारंभे तथा धूपे हविष्यान्ते तथैव च ॥४८॥नित्योत्सवादिकाले च पटं प्रच्छादनन्त्यजेत् ।शिवे समर्चितं पूर्वं हृदयार्घ्यं विसर्जयेत् ॥४९॥अङ्गुष्ठतर्जनीभ्यान्तु पुष्पं ग्राह्यविचक्षणः ।कनिष्ठानामिकामध्ये त्यजेत् पर्यूषितङ्गुरुः ॥५०॥विसर्जने च काले तु पुष्पं मूर्ध्निदापयेत् ।न पुष्परहितं तुर्याच्छिवमौलिं गुरूत्तम ॥५१॥पिण्डिकेशस्थ निर्माल्यञ्चण्डेशाय निवेदयेत् ।लिङ्गशुद्धिः सपिण्डान्ता क्रमेणैव समापयेत् ॥५२॥लिङ्गं प्रक्षाल्य चास्त्रेण पीठं पाशुपतेन तु ।त्यजेदुषितगन्धादि जलैर्दक्षिणहस्ततः ॥५३॥सङ्ख्याय शुद्धयः पञ्च ततस्त्वासनकल्पनम् ।आसने मूर्तिमावाह्य त्वेतद्वितयमध्वनि ॥५४॥व्याप्यव्यापकभावेन ज्ञात्वायजनमारभेत् ।इच्छाशक्त्युत्थितं पद्मं पृथिव्यादिशिवान्तकम् ॥५५॥पार्थिवाण्डमयं स्कन्दमाप्यान्तं नालमेव च ।प्रधान तत्व पर्यन्तं तन्नालं कण्टकैर्युतम् ॥५६॥अकारादिक्षकारान्तं शंबरं कण्टकं स्मृतम् ।श्यामाभन्नालमित्युक्तं नालसूत्रं त्विदं स्मृतम् ॥५७॥पुंस्तत्वादि कलान्तञ्च पीठन्दलाष्टकान्वितम् ।धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पादमेव हि ॥५८॥आग्नेयादिक्रमेणैव सिंहरूपोग्रदंष्ट्रकाः ।सितरक्तपीतकृष्णा स्त्रिणेत्रा वज्रपीठकाः ॥५९॥अन्योन्याभिमुखाः सर्वे सिंहकोटिसमायुताः ।न्यस्तव्या भार्द्रमन्त्रेण भीमाभीम पराक्रमाः ॥६०॥अधर्मज्ञानवैराग्या नैश्वर्यान्वै क्रमेण तु ।प्रागाद्युत्तरपर्यन्तान्नियतांश्च सितप्रभान् ॥६१॥न्यस्त्वागुणत्रये नैव ऊर्ध्वच्छदमथच्छदम् ।पीठस्योर्ध्वे महामाया ग्रन्थिस्तत्वङ्गजानन ॥६२॥विद्यातत्वमयिन्तस्य कर्णिकां परिचिन्तयेत् ।इच्छाशक्त्यादिबीजानि विद्येशांश्च दलानि वै ॥६३॥मन्त्रास्तत् केसरेप्रोक्तास्ते विद्यायां प्रतिष्ठिताः ।केसरे बीजमुख्येन शक्तिन्तत्र प्रकल्पयेत् ॥६४॥सितरक्तासितांश्चैव मूलमध्याग्रकान् क्रमात् ।दलंश्वेतं विजानीयात् कर्णिकाकनकप्रभा ॥६५॥पञ्चविंशतिकानीह बीजानिहरितानि वै ।तप्तचामीकरप्रख्यं शक्तिव्यूहं न्यसेत् ततः ॥६६॥केसरेषु च मध्ये तु वामादीन् पूर्वतः क्रमात् ।वामाज्येष्ठा च रौद्री च कालीकलविकरणी तथा ॥६७॥बलविकरणी बलप्रमधनी सर्वभूतदमनात्मिका ।मध्येमनोन्मनीं देवीं कर्णिकायां निवेशयेत् ॥६८॥सूर्याख्यमण्डलं पात्रे केसरे सोममण्डलम् ।कर्णिकोपरिचाग्नेयं मण्डलस्थां मनोन्मनीम् ॥६९॥इच्छाशक्त्यादिनालान्त (इश्चा-) मनन्तासनमीरितम् ।गुणान्तं धर्मज्ञानादि सिंहाख्यमासनं विदुः ॥७०॥योगासनन्तु तत् ख्यातं परमेशस्य सुव्रत ।पद्मग्रन्धिं समारभ्य केसरान्ताब्जमासनम् ॥७१॥शक्त्यन्तं केसरादूर्ध्वं कर्णिका विमलासनम् ।एव मब्जासनं कल्प्यपूजयेत् स्वस्वनामभिः ॥७२॥मुकुलीं प्रथमं बध्वा पद्ममुद्रामतः परम् ।शशकर्णिं शिवं विप्रः कर्णिकान्तं निदर्शयेत् ॥७३॥आसनोपरिमूर्तिन्तु सदाशिवमनुत्तमम् ।पञ्चवक्त्रशिरोपेतं पञ्चाधिकदशेक्षणम् ॥७४॥दशदोर्दण्डसंयुक्तं अष्टायुधसमज्वलम् ।अभयं शूलपरशुं वज्रं खट्गञ्च दक्षिणे ॥७५॥वरदञ्चाङ्कुशं पाशं घण्टां वह्निञ्च वामतः ।अच्छ स्फटिकसंकाशमष्टत्रिंशत् कलात्मकः ॥७६॥पञ्चब्रह्माङ्ग विद्याङ्ग दशबीजात्मकं परम् ।दिव्यांबरधरञ्चार्थ वज्राङ्कितजटाधरम् ॥७७॥बद्धपद्मासनासीनं कंबुग्रीवं सुयौवनम् ।इच्छाज्ञानक्रियाचेति नेत्रत्रयसमन्वितम् ॥७८॥शुक्लयज्ञोपवीतञ्च देवं ज्ञात्वा परापरम् ।सर्वाभरणसंयुक्तं ध्यात्वा ह्यावाहयेत् ततः ॥७९॥लिङ्गंमूलपरीणाहे कल्पयेत् तु मनोन्मनीम् ।तदे?स्या परिस्थिते लिङ्गे चलेचैव सदाशिवम् ॥८०॥एवं सङ्कल्प्यमूर्तिन्तु ततोवाह्यमनुं स्मरन् ।पुष्पैरञ्जलिमापूर्य तदा वाहनमुद्रया ॥८१॥प्रविष्टे हृदयाग्रे तु शिवरूपं विचिन्तयेत् ।प्रणवं मनसोच्चार्य सर्वज्ञादिर्गुणैर्युतम् ॥८२॥सर्वोपाधिविनिर्मुक्तं कारणानान्तु कारणम् ।अतर्क्यमप्रमेयञ्च धृतमव्ययमीश्वरम् ॥८३॥बिन्दावभ्युदितं ध्यायेत् स्थिरधीः पुरतः स्थिरे ।सदाशिवात्ममध्यस्थं विन्यसेद् देशिकोत्तमः ॥८४॥आवाहनादिभिर्भक्त्या परमेशं सुपूजयेत् ।आवाह्य सद्यमन्त्रेण स्थापयेत् गुह्यमन्त्रतः ॥८५॥बहुरूपेण सान्निध्यं पुरुषेणनिरोधनम् ।सर्वावयवसंपूर्णमिशानेन तु भावयेत् ॥८६॥आवाहनाख्यया वाह्य स्थापयेच्छान्तमुद्रया ।ध्वजाख्यया तु सान्निध्यं रोधनं निष्ठुराख्यया ॥८७॥पाद्यं हृदाणुनादत्वा वक्त्रेणाचमनं ततः ।अर्घ्यन्तु शिरसादत्वा पञ्चमूर्धसु बुद्धिमान् ॥८८॥प्. ४१) करन्यासं विना तत्र दहनप्लावनं विना ।सर्वमात्मविशुध्यर्थमाचरेत् तु गजानन ॥८९॥आवाहने तु पूजान्ते विसर्जनविधौ तथा ।अर्घ्यं दद्यात् तु मन्त्रज्ञस्त्रिषु कालेषु बुद्धिमान् ॥९०॥अर्घ्ये विलेपने स्नानेत्रिषुगन्धं प्रेयोजयेत् ।आवाहनार्घ्य पाद्येषु स्नाने धूपे विलेपने ॥९१॥नैवेद्ये च विसर्गे च पुष्पमष्टसुयोजयेत् ।आवाहनंविना सप्तकाले वारिसुयोजयेत् ॥९२॥गन्धं पुष्पेण संयोज्य पुष्पं गन्धेनयोजयेत् ।धूपं दीपेनसंयोज्य दीपन्दीपेन योजयेत् ॥९३॥तिलोद्भवेनतैलेन हस्तयन्त्रोद्भवेन वा ।गोघृते नैव वा लिङ्गमभ्यज्य हृदयाणुना ॥९४॥मर्दयेच्छालिपिष्टेन हरिद्रा चूर्णकेन वा ।शिवेन पिण्डमन्त्रैश्च कलाभिर्मानमन्त्रकैः ॥९५॥सहस्राक्षरमन्त्रेण व्योमव्यापिदशाक्षरैः ।पञ्चाङ्गैश्चैव विद्याङ्गैः क्षूरिकाबीजमुख्यकैः ॥९६॥सुगन्धिकुसुमोपेतं जलौघैरभिषेचयेत् ।सद्योजातेन गोमूत्रं गोमयङ्गुह्यकेन तु ॥९७॥क्षीरन्तु बहुरूपेण दधितत् पुरुषेण तु ।ईशानेन घृतं स्नाप्य पञ्चगव्यमथैकतः ॥९८॥समादायोक्तसंख्याभिः स्नापयेत् तु दशाक्षरैः ।मधुने क्षुरसे नैव नालीकेरजलेन च ॥९९॥अच्छगोरोचनामिश्र जलैः संस्नापयेद्धृदा ।द्रव्येषूक्तेष्वथा लाभे यथालाभं परिग्रहेत् ॥१००॥घृष्ट्वा हरिद्राचूर्णैश्च स्नापयेद् गन्धवारिणा ।वस्त्रमाचमनीयञ्च अर्घ्यन्तु हृदयाणुना ॥१०१॥दुकूलपट्टकार्पास वासोभिर्विविधैरपि ।इन्ध्याभिः पुष्पमालाभिः पत्रच्छेदैरथार्च्चयेत् ॥१०२॥संपत्तौ हेमपट्टाद्यैर्विविधैरङ्गभूषणैः ।संभूष्य हेमपुष्पैस्तु कुसुमेश्च सितासितैः ॥१०३॥विज्ञाप्यलयभोगाङ्गं देवदेवं क्षमापयेत् ।जपं स्तुत्यं नमस्कारं ध्यानं श्रद्धावदित्यपि ॥१०४॥नृत्तं गीतञ्च वाद्यञ्च महाघण्डा स्वनादिकम् ।लयाङ्गमुक्तं पूजायां देवदेवस्य नित्यशः ॥१०५॥भोगाङ्गानि च शेषाणि लयैर्भागैश्च पूजयेत् ।पञ्चवरणमार्गेण क्रमादावरणं न्यसेत् ॥१०६॥सद्यं पश्चिमदिक्पात्रे वाम देवन्तथोत्तरे ।अघोरं दक्षिणे यष्ट्वा पुरुषं पूर्वपात्रतः ॥१०७॥ईशानमीशदिक्भागे न्यस्त्वा सम्यक् समर्चयेत् ।स्नानदीपं पृथक् तेषामङ्गानामंगभावतः ॥१०८॥कर्णिकायां ततो याम्ये संयजेदात्म तत्वकम् ।विद्या तत्वन्ततः सौम्ये शिवतत्वन्तु मद्ध्यमे ॥१०९॥आत्मानमन्तरात्मानं परमात्मानमेव च ।यजेत् तत्व त्रयं स्थाने हृदापुष्पैः सितासितैः ॥११०॥गर्भावरणमाख्यातं विद्येशावरणं ततः ।गर्भावरणबाह्येषु पद्मपत्रेषु संयजेत् ॥१११॥अनन्तं पूर्वतः पूज्य त्रिमूर्तिं वह्निगोचरे ।सूक्ष्मन्तु दक्षिणेभागे श्रीकण्ठं नि-ऋतौ तथा ॥११२॥शिवोत्तमन्तु वारुण्यां शिखण्डिं वायुगोचरे ।एक नेत्रं तथा सौम्ये ह्येकरुद्रं तथैशके ॥११३॥द्वितियावरणं ह्येवं प्रणवेन स्वनामभिः ।उमा वै चोत्तरेयष्ट्वा पूर्वभागे वृषन्ततः ॥११४॥दक्षिणे गजराजानं गुहं वै वारुणे तथा ।महाकालन्तु नि-ऋतौ भृंगीशं वायुदेशतः ॥११५॥चण्डेशमीशदिक्भागे नन्दीशञ्चाग्निगोचरे ।उमादिक्षुमुखान्तानि तृतीयावरणेदले ॥११६॥इन्द्रादिलोकपालांश्च ऐन्द्र्यादिषु प्रपूजयेत् ।ब्रह्माणं दक्षिणेभागे विष्णुमुत्तरतो यजेत् ॥११७॥लोकेश गणयोर्मध्ये ब्रह्मविष्णूयमोत्तरे ।चतुर्थावरणं ह्येवमथास्त्रावरणं शृणु ॥११८॥आशास्वष्ट सुवज्रादींश्चक्रं सौम्येब्जमन्त्रके ।लोकपालान् सहस्त्रांश्च स्वस्वमन्त्रेण पूजयेत् ॥११९॥गर्भावरणमन्त्राणां बीजमुद्रान्तु दर्शयेत् ।विद्येशानाङ्गणेशानां कालकण्ठन्तु दर्शयेत् ॥१२०॥लोकेशानामथास्त्राणां शूलमुद्राः प्रकीर्तिताः ।देवतार्चनकाले तु यथा त्वाच्छादयेत् बुधः ॥१२१॥पापरोगनिमग्नानां मृष्टानाञ्च स्वकर्मभिः ।क्रूराणां कुब्जकादीनं कृशिकानां तथैव च ॥१२२॥तथा कृत्रिमभक्तानां निन्दकानाञ्च पापिनाम् ।अन्यच्च दोषदृष्टानाम दृष्टानामिति स्मृतम् ॥१२३॥महाघण्टानिनादेन राक्षसाश्चासुरास्तथा ।ब्रह्मराक्षसपैशा च भूतयक्षोरगेश्वराः ॥१२४॥दूरं गच्छन्ति नादेन यान्ति देवाः सुसन्निधिम् ।धूपदीपौ प्रदातव्यौ घण्टारवसमन्वितम् ॥१२५॥ज्वलदङ्गारसंपूर्णं धूपपात्रं नरेण तु ।सव्यहस्तेन सङ्ग्राह्य घण्टां वामेनपाणिना ॥१२६॥सुरूपान्धीरनिर्घोषां वादयन् सर्वदा गुरुः ।ध्वनिनाधूपखण्डाया ग्रामशान्तिकरं भवेत् ॥१२७॥दद्यादाचमनं तत्र दर्पणच्छक्रचामरान् ।मनसा वा स्वरूपेण दर्शयेत् तु विचक्षणः ॥१२८॥बीजमुद्रां नमस्कारां मुकुलिं पद्ममुद्रिकाम् ।ध्वजाख्यां लिङ्गमुद्राञ्च देवदेवस्य दर्शयेत् ॥१२९॥शिवेच्छा प्रतिमाः सर्वाः पूजयेत् तु यथोचितम् ।आसनावरणे कृत्वा द्वारपालार्चनं विना ॥१३०॥नित्यस्नानं विनालोभे स्नानं पर्वणि पर्वणि ।चण्डेशपरिवाराणि विना बिंबानिपूजयेत् ॥१३१॥शिवस्य परिवाराणि समभ्यर्च्य यथा विधि ।मुद्रादर्शनवेलायां शिवं स्नाप्यनिवेदयेत् ॥१३२॥समारभ्यशिरः पूर्वं दक्षिणोत्तर पश्चिमे ।ऊर्ध्वभागे तु मन्त्रज्ञः पञ्च स्वर्घ्यं निवेदयेत् ॥१३३॥सद्योघोरेन रेवामेद त्वार्घ्यं पञ्चमान्तकम् ।अपसव्यार्घ्यमित्युक्तं पूजाकालेषु नित्यशः ॥१३४॥सव्यापसव्यमार्गाभ्यां दत्वार्घ्यन्तु पुनः पुनः ।ऊर्ध्ववक्त्रे तु दातव्यं संमूखार्घ्यं पराङ्मुखम् ॥१३५॥संमुखं संस्थि देहस्य विसर्गेर्घ्यं पराङ्मुखम् ।नैवेद्यं दापयेत् पश्चात् यथा विभवविस्तरैः ॥१३६॥भक्ष्यभोज्यां न पानानि सत्फलाज्यगुलान्वितम् ।तेन दीपेन दत्वा तु नित्यां हि कमथो यजेत् ॥१३७॥शिवाग्नौ रक्षिते तस्मिन् परितः शोध्य दीप्य च ।परिषिच्य हृदापूज्यलोकेशानां ततो मतम् ॥१३८॥संपूज्य च ततः पद्मे शिवं ब्रह्माङ्गकैरधः ।घृतान्नेन घृतेनाथ जुहुयात् तण्डुलेन वा ॥१३९॥प्रत्येकन्तु त्रिसंख्या वा ह्येक संख्यमथापि वा ।परिषेचनमन्त्रेण पुनः सिच्यविसर्जयेत् ॥१४०॥एवं नित्याग्निकार्यन्तु मध्यमे चाथमेपि च ।उत्तमे चाग्निकार्योक्तं सर्वं कुर्याद् विचक्षणः ॥१४१॥परिवारबलिं दत्वा निर्माल्यान्नं विसर्जयेत् ।मुखवासञ्च तांबूलं दत्वा नित्यपवित्रकम् ॥१४२॥सर्वच्छिद्रापनोदार्थं धूपितं प्रोक्षितं ततः ।दशबीजमनुस्मृत्य पवित्रमधिरोपयेत् ॥१४३॥पूजाकाले तु संप्राप्ते लिङ्गमूर्ध्निपवित्रकम् ।अवतीर्यार्चिते लिङ्गे तं पवित्रं पुनर्नयेत् ॥१४४॥नित्योत्सवन्तु कर्तव्यं विध्युक्तं त्रिषुसन्धिषु ।नीराजनन्तु कर्तव्यं रात्रौ रात्रौ विशेषतः ॥१४५॥प्रक्षाल्यपादौ हस्तौ च प्रम्याष्टाङ्गमादरात् ।प्रदक्षिणत्रयं कृत्वा मन्त्रञ्जप्त्वा क्षमापयेत् ॥१४६॥कालत्रयङ्गुणातीतः कालात्मा शिवशाश्वतः? ।उदयस्थिति संहारकण्व पुण्यैककारणा ॥१४७॥अनेकतप कृत्यानि नयसर्वाणि सर्वदा ।फलप्रदान्यमोघानि संपूर्णानि प्रसीदमे ॥१४८॥एतन्मन्त्रं जपित्वेशं क्षमस्वेति वदेत् गुरुः ।स त्रिपाद त्रिघटिका रात्र्यन्ते तु दिने दिने ॥१४९॥ब्राह्मं मुहूर्तमाख्यातं संघोष्यस्त्विति कथ्यते ।तथा पञ्च महाशब्दं कृत्वा शुभनिवृत्तये ॥१५०॥शौचं स्नानादिकं कृत्वा पूजान् कृत्वादिशैवकम् ।भास्करस्योदयात् पूर्वं दृष्ट्वारभ्य यथा क्रमम् ॥१५१॥यामैका चोत्तमासन्धिर्मध्यमा पञ्चनाडिका ।मध्यमाया कनिष्ठा स्याद् यथा विभवमाचरेत् ॥१५२॥सा चैकाघटिका स्नाने घटिकाद्वयमर्चने ।नैवेद्यं घटिकार्धञ्च घटिकार्धं बलिं ततः ॥१५३॥घटिकार्धैकसंयुक्ता वेला तत्र विधीयते ।नित्योत्सवे तथा स्नाने शुद्धे वै सुद्धनृत्तके ॥१५४॥सार्द्धत्रिघटिका प्रोक्ता द्रव्यसंपन्नपूजने ।असंपद्यजनं प्रोक्तं मध्यमाधमकालतः ॥१५५॥एवं समर्चिते सर्वमर्चितञ्च चराचरम् ।तस्माल्लिङ्गार्चनं कार्यं प्राज्ञैश्च सुमहात्मभिः ॥१५६॥ब्रह्मचर्येण वेदैश्च यज्ञैश्च विविधैः शुभैः ।अग्निहोत्रैश्च सन्यासैराश्रमैश्च सुपालितैः ॥१५७॥त्रिदण्डैश्च व्रतैः सर्वै घृतैः पाशुपतादिकैः ।एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥१५८॥तत्फलं लभते साधु लिङ्गस्यार्चन तत् परः ।एकोह्यभ्यर्च्यते लिङ्गन्तपस्तप्यति चा परः ॥१५९॥तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं संप्रपूजयेत् ।अनेकजन्मसाहस्रे भ्रममाणस्तु योनिभिः ॥१६०॥कश्चिदाप्नोति वै मुक्तिं लिङ्गार्चनरतोनरः ।शिवार्चनविधिः प्रोक्तो मुद्रायालक्षण शृणु ॥१६१॥इति शिवार्चनविधि पटलोष्टमः॥ ८॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP