संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| भस्मस्नान पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - भस्मस्नान पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् भस्मस्नान पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् ।श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥१॥लोकवश्यकरं पुण्यं पापनाशं दिने दिने ।गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया ॥२॥सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् ।पञ्चगावः समुत्पन्नाः सर्वलोकस्यमातरः ॥३॥नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा ।कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च ॥४॥नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् ।सर्वलोकोपकारार्थं देवानां तर्पणाय च ॥५॥गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु ।गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् ॥६॥षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ।गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः ॥७॥गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः ।शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ॥८॥शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।शिरोमध्ये त्वहं तत्सभूतैः परिवृतः सह ॥९॥ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः ।कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ॥१०॥कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ ।दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः ॥११॥सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः ।सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः ॥१२॥पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः ।पुराणां पश्चिमाग्रेषु गणाह्यः सरस्तथा ॥१३॥रुद्राश्चैव तु नाडिस्था वायवः सर्वसन्धिषु ।श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे ॥१४॥श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः ।आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् ॥१५॥ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः ।उदरे पृथिवी जाताजन्तवश्च गजानन ॥१६॥चत्वारः सागराः पुर्णागवां ये च पयोधराः ।आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् ॥१७॥दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् ।कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् ॥१८॥क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् ।सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना ॥१९॥गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः ।आहारः सर्वदेवानां शिवस्य च विशेषतः ॥२०॥गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः ।तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते ॥२१॥बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ।यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् ॥२२॥दध्नः सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये ।घृताद् अमृतमुद्भूतममराणामति प्रियम् ॥२३॥तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् ।गोरोचना च माङ्गल्या पवित्रा सर्वकामदा ॥२४॥इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् ।भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् ॥२५॥पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् ।पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् ॥२६॥केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् ।अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः ॥२७॥जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् ।जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते ॥२८॥शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् ।ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु ॥२९॥बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् ।सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः ॥३०॥उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् ।पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु ॥३१॥भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते ।आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् ॥३२॥तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् ।ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् ॥३३॥शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च ।कण्ठे विनायकश्चैव बाहौ च केशवस्तथा ॥३४॥हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः ।जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा ॥३५॥सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् ।तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति ॥३६॥भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः शृणु ।इति भस्मस्नान पटलः षष्ठः॥ ६॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP