संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
वृषभस्थापनविधिपटलः

सुप्रभेदागमः - वृषभस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि वृषभस्थापनं परम् ।
अन्तरावरणे देवाभिद्यते शिवशासने ॥१॥

तेषु देवा स्थिते तस्मात् परिवारस्यवस्थता ।
वृषभस्य सहस्रांशाभिद्यन्ते मूर्तयस्तदा ॥२॥

त्रिविधं स्थापनं प्रोक्तं शैलं लोहंसुधामयम् ।
लोहजं स्थानकेकार्यं शयने वा विशेषतः ॥३॥

शिलासुता प्रकर्तव्यं शयने तु विचक्षण ।
त्रिविधं तत्र कर्तव्यं सर्वसंपत्करं नृणाम् ॥४॥

लोहजेन तु विघ्नेश कृतञ्चेदुत्तमं सृतम् ।
शैलञ्चमध्यमं प्रोक्तं सुधाया चाधमं भवेत् ॥५॥

वृषभस्य तदुत्सेधं द्वारमानेन वै शृणु ।
द्वारोत्सेधञ्चतुर्थांशमर्धपादोनकं तथा ॥६॥

समं वा द्विगुणं वापि त्रिगुणं वा विशेषतः ।
तत्काले वृषभायामं द्विसप्तत्यङ्गुलं स्मृतम् ॥७॥

चतुर्भागमुखं तत्र त्रिभागं नासिका तथा ।
द्व्यङ्गुलन्तु तथा नेत्र मन्त्रः पादसुविस्तरम् ॥८॥

शृङ्गायामं द्विभागन्तु तन्मूलं भागविस्तरम् ।
तीक्ष्णाग्रौ तु प्रकर्तव्यौ चानुपूर्वात् क्रमेण तु ॥९॥

कर्णायामं दशांगुल्यं तद्विस्तारं तदर्धता ।
कला तु कर्णमूलं हि तदन्तश्च तदेव तु ॥१०॥

त्रिभागं नेत्रयोर्मध्ये तद्वच्छ्रंगौ तु मध्यमम् ।
अक्षिकर्णान्तरं भागं कर्णाच्छृङ्गान्तरं तथा ॥११॥

द्व्यङ्गुलं नासिकाद्वारे तद्वक्रं भागमानतः ।
जिह्वासौ दन्तपङ्ती च यथा युक्त्या च कारयेत् ॥१२॥

अष्टादशाङ्गुलञ्चोरु तन्नाहं त्रिगुणं तथा ।
जंघादशाङ्गुला ज्ञेया तदूर्ध्वे तु चतुष्कला ॥१३॥

षडङ्गुलं ततः पादं तदर्धंखुरमुच्यते ।
जंघायाः पश्चिमं पादं कलोर्ध्वन्तु कलाधिकम् ॥१४॥

पुच्छं स्यादग्रमूलान्तञ्चतुरङ्गुलविस्तृतम् ।
मध्यमं द्व्यङ्गुलन्तारमग्रमेकाङ्गुलं स्मृतम् ॥१५॥

वृषणौ द्विकलायामौ विस्तारं स्याच्चद्व्यङ्गुलम् ।
वृषस्यलक्षणं प्रोक्तं स्थापनं तस्य वै शृणु ॥१६॥

लोह * * * * ञ्चैव विनाशैलेसुधामये ।
जलाधिवासं शयनं सुधायाञ्च न कारयेत् ॥१७॥

नेत्रेणमोचयं नेत्रं शयन * * * * * ।
दिक्पालकलशानष्टौ लोकपालाधिपास्ततः ॥१८॥

वृषकुंभन्तु तन्मध्ये वृषभंगौः समावृतम् ।
घण्डमालारवोपेतं श्वेतवर्ण महाद्युतिम् ॥१९॥

नवपञ्चत्रयं वापि एकाग्निमथवा पुनः ॥२०॥

शिवाग्निं पूर्ववत् कृत्वा मध्येचाहूयतद्वृषम् ।
पूर्वोक्तमूलमन्त्रेण हुत्वा तत्र शताहुतिम् ॥२१॥

शिवाङ्गैः शैवमन्त्रेण हृदयादीनिसंस्पृशेत् ।
प्रभाते विमले तत्र पूर्णां हुत्वास्त्रमन्त्रतः ॥२२॥

 * * स्वनाममन्त्रेण कलशैरभिषेचयेत् ।
वृषगायत्रि मन्त्रेण मध्यकुंभेनदेशिकः ॥२३॥

गन्धपुष्पादिनायष्ट्वा मुत्गान्नं दापयेत् ततः ।
वृषयागं ततः कृत्वा नवसप्ताहपञ्च वा ॥२४॥

त्रयाहैकाह्नमेवाथ उत्सवं विधिचोदितम् ।
प्रदक्षिणे वृषंपूर्वं कुर्यादन्यानि तत्समम् ॥२५॥

वृषयागमिदं ख्यातं वह्नेः संस्थापनं शृणु ।

इति वृषभस्थापनविधिपटल चत्वारिंशत्तमः ॥४०॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP