संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| चक्रादिस्थापनविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः सुप्रभेदागमः - चक्रादिस्थापनविधिपटलः प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता. Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् चक्रादिस्थापनविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि चक्रादिस्थापनं परम् ।इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्रांकुशोधरात् ॥१॥श्यामाङ्गन्तु गजारूढमप्सरोगणसंयुतम् ।कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् ॥२॥शिखाभिरूर्ध्वगाभिश्च युक्तिशक्तिस्रवन्धरम् ।यमं सुदण्डहस्तन्तु महिषासनसंस्थितम् ॥३॥करालं कालवर्णञ्च फलपल्लवपाणिनम् ।खट्गखेटकसंयुक्तं नि-ऋतिश्यामवर्णकम् ॥४॥करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ।वरुणं पाशहस्तन्तु शुक्लवर्णसमप्रभम् ॥५॥अन्यहस्तेन वरदं सर्वाभरणभूषितम् ।अनिलन्धूम्रवर्णन्तु मृगारूढन्धवं ध्वजम् ॥६॥सव्येंकुशधरं स्यामञ्चात्मानं विधिवत् गतम् ।त्वक्षेशन्तु गदाहस्तं श्यामरूपं भयावहम् ॥७॥द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं पद्मपाणिनम् ।ईशानन्तु चतुर्बाहुं त्रिणेत्रं तु जटाधरम् ॥८॥शूलपाणिं वृषारूढं वरदाभयपाणिनम् ।कृत्वा वीणाधरं देवं ब्रह्मविष्णू च पूर्ववत् ॥९॥अर्यमाचेन्द्र वरुणौ पूषाविष्णुर्भगस्तथा ।अजघ्न्योजघन्यञ्च मित्रोधाता इति स्मृताः ॥१०॥विवस्वांश्चैव फर्जन्यात्वादित्या द्वादश स्मृताः ।द्विभुजा पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥११॥रश्मिमण्डलसंयुक्ता सुरक्तालोकनायकाः ।ना सत्यश्चैव दस्रश्च अश्विनौतौ प्रकीर्तितौ ॥१२॥शुक्लवस्त्रधरौष्णीषौ पुष्तकाभयपाणिनौ ।सोत्तरीयौ स्वरूपौ च शुक्लहेमनिभौ तथा ॥१३॥कुंभिनीग्रन्धिनी कूर्चकुट्टिनि च विकारिणि ।रुद्राणी च विकारी च रोहिण्याः सप्तकीर्तितः ॥१४॥नागाभरणसंयुक्ताः केशभारविभूषिताः ।नागहस्ता स्वरूपास्तु वरदाभयपाणिकाः ॥१५॥पितापितामहौ चैव प्रपितामह एव च ।पितरस्तूयमानास्तु तेषां वै लक्षणं शृणु ॥१६॥सुदृढा पीतकर्णास्तु च्छत्रदण्डधरास्तथा ।शुक्लवस्त्रै परिच्छन्नाः कीर्तिता पितरस्त्रयः ॥१७॥रंभा च विपुला चैव उर्वशी च तिलोत्तमाः ।मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः ॥१८॥भृगुश्चैव वसिष्ठश्च पुलस्त्यः पुलहः कृतुः ।काश्यपः कौशिकाश्चैव आंगिरामुनयस्त्विमे ॥१९॥सुवल्कलाजटायुक्ताः सुमुखादंशहस्तका ।कट्या च मण्डिताकारा शुक्लवस्त्रधराः शुभाः ॥२०॥पिङ्गला च स नेत्राश्च पत्नयः सप्तकीर्तिताः ।धरोधृवस्तथा सोमसावित्रस्त्वनिलोनलः ॥२१॥प्रत्युषश्च प्रभावश्च सुदंष्ट्राभीमरूपकाः ।खट्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ॥२२॥सर्वाभरणसंयुक्ता चित्रवस्त्राधरास्तथा ।रक्तवस्त्रधरापिताः प्रोक्ता वै वस्त्रतास्त्विह ॥२३॥गीरिशातोगिरीशश्च केशनाशस्तथैव च ।भूतकासास्तदेकश्च बुद्धिर्भवन एव च ॥२४॥कपालीशो ह्यजोबुद्धच्छद्रमौली प्रकीर्तिता ।भस्मोद्धुलित देहाश्च शूलपाशधरास्तथा ॥२५॥त्रयस्त्रिंशतिमेदे वा लोकपालास्त्रसंयुतम् ।प्रोक्तवर्णाभिधानाश्च सर्वेषां स्थापनं शृणु ॥२६॥चलस्थापनवत् सर्वमेकैकं तु विशेषतः ।अथवान्य प्रकारेण स्थापनन्तु विधीयते ॥२७॥तेषां वै मण्डपादीनि कर्माणि च सहैव तु ।प्रत्येकं कुंभमेवन्तु प्रत्येकाग्निं विशेषतः ॥२८॥कारयेत् स्वस्वमन्त्रेण स्थापयेत् तु पृथक् पृथक् ।इन्द्रादि स्थापनं प्रोक्तं आदित्यस्थापनं शृणु ॥२९॥इति चक्रादिस्थापनविहिपटल अष्टचत्वारिंशत्तमः ॥४८॥ N/A References : N/A Last Updated : October 11, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP