संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| विभवनिश्चय पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - विभवनिश्चय पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् विभवनिश्चय पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि विभवस्य विनिश्चयम् ।साम्रतं हारकञ्चैव द्विविधं मार्गमुच्यते ॥१॥शिवं साम्रमिति प्रोक्तमन्येषां हारकं स्मृतम् ।अशक्तः साम्रतं कर्तुं हारकेणसमारभेत् ॥२॥समाप्ति पूर्वं यत् कर्मसाम्रतं ह्यभिधीयते ।पश्चात् कर्मसमाप्तिः स्यात् हारकं मार्गमुच्यते ॥३॥नवधा कल्पयेद् विद्वान् यज्ञोपस्करमादरात् ।आदिशैवांस्तपोयुक्तां विधिज्ञान् मन्त्रसंयुतान् ॥४॥शिवव्रतधरान्मुख्यान् शैववेद विशारदान् ।यस्मिन् सञ्जायते भक्तिस्तस्मिन्नाहूयशास्त्रतः ॥५॥सर्वशास्त्राश्रितं शास्त्रं सर्वज्ञानेषु दुर्ल्लभम् ।सर्वपूजा क्रियायुक्तं तन्त्रं सर्वार्थसाधनम् ॥६॥इदं शास्त्रं परं दिव्यं तमसामिव भास्करः ।तस्माच्छैवमिदं श्रेष्ठं रत्नानामिव भास्करः ॥७॥शैवरत्नमतं दिव्यं शैवशास्त्रार्थ पारगाः ।जङ्गमा इवमूर्तिस्थाः शिवस्येव विशेषतः ॥८॥नमस्कृत्वा यथा न्यायं पप्रच्छेत् सविधानतः ।अनुज्ञाप्य स्वदेशस्थान् भक्तियुक्तान् दृढवृतान् ॥९॥यूयं दासाः शिवेमुख्या युष्माकमिहमुख्यतः ।भक्तस्य मम दासस्य युष्मद् भक्तिपरस्य च ॥१०॥अनुमान्यो भवद्भिश्च पूजा संप्रतिग्रह्यताम् ।अहं दीक्षां करीष्यामि येषु यज्ञपरं परम् ॥११॥समाप्यताञ्च युष्माभिर्दीर्घ सत्रं विशिष्यते ।अरिष्टानाञ्च शान्त्यर्थं यूयमेव प्रगृह्यताम् ॥१२॥तत् पुनर्महदत्यन्तं युष्माकं प्रक्षिपाम्यहम् ।शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च ॥१३॥एत देवञ्च कर्तव्यं मयायज्ञसमाप्तिकम् ।युष्मच्छासनमार्गेण प्रयताम विशेषतः ॥१४॥हविषामध्यमे तावदर्चनाभोगमेव तु ।गन्धपुष्पार्थमेतावद् धूपस्य च तथैव च ॥१५॥स्नपनार्थं तथा चैव उत्सवार्थं तथैव च ।एतावत् परिचाराणामुद्भूतिकसमन्वितम् ॥१६॥प्रायच्छित्तार्थमेतावत् कृत्तिकादीपकाय वै ।आश्रायणार्थमेतावत् प्रभूतहविरत्थकम् ॥१७॥न्यूनातिरिक्त वस्त्वेश्च सर्वेषाङ्गुरवे तथा ।तन्त्र संरक्षकस्यैव एतावल्लेखकस्य च ॥१८॥श्रोतॄणाञ्चैव वक्तुश्च दैवज्ञस्य तथैव हि ।शुश्रूषकाणामेतावत् भोगमेताव देव तु ॥१९॥शैवातिथ्यर्थमेतावत् भक्तानामपि चैव हि ।वाद्यकानां हि वै तावत् तथा वै तक्षकस्य तु ॥२०॥यथार्हकं तथा स्मृत्वा स्मृत्वा चैव तु कारयेत् ।इति सञ्चिन्त्य सर्वस्वं परिकल्प्य यथा क्रमम् ॥२१॥भूमिभागेन वै ह्येषां भृत्त्यर्थं परिकल्पयेत् ।यद्यन्तरेभि ह्रियते तत् समाप्तिफलं भवेत् ॥२२॥अक्षीणं कल्पयेत् तेषां यथा शुद्धां न भोजनम् ।अक्लेशवस्त्रा जीवन्ति नित्यं गन्धादिवासिताः ॥२३॥ग्रहस्थान् स्थापयेद् धीमान् सर्वोपकरणानि तु ।सुपुष्टभोगङ्कृत्वा तु सुस्थिरं शासनान्वितम् ॥२४॥कृत वा नल्पभोगं यः क्लेशेन परिचारकान् ।सतमेव हि देवेशः क्लेशयत्य चलात्मकः ॥२५॥न तिष्ठेद्यदि वा तिष्ठेत् नतमाढ्यं प्रकल्पयेत् ।स्वयत्नतः फलंदातु रदा तुश्चाप्यफं व्रजेत् ॥२६॥सहैकविंशत् पूर्वैस्तु स्वकुलैश्च तथानुजैः ।वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः ॥२७॥न तत्फलमवाप्नोति प्रलोभा क्रान्तमानसः ।तस्मात् त्रिभागं वित्तस्य जीवनार्थमथात्मनः ॥२८॥भागद्वयञ्च धर्मार्थमनित्यं जीवितं यतः ।साधयित्वा च तत् पूर्णन्ताम्रपात्र तलेर्पितम् ॥२९॥निश्चयं विभवस्योक्तं कर्षणं शृणु सुव्रत ।इति विभवनिश्चयपटलश्चतुर्विंशतितमः ॥२४॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP