संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| कर्षण पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - कर्षण पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् कर्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि प्रासादार्थन्तु कर्षणम् ।सुमुहूर्ते सुलग्ने च देशिकः शिल्पिभिः सह ॥१॥उत्तरायणकाले तु कर्षणादीन् समारभेत् ।शिशिरश्च वसन्तश्च ग्रीष्म प्रावृट् तथैव च ॥२॥शरच्चैव तु हेमन्तो ऋतवः षट्प्रकीर्तिताः ।तपस्तपस्य शिशिरस्तौ मासौमाखफाल्गुनौ ॥३॥वसन्तश्चैत्र वैशाखौमासौ तौमधुमाधवौ ।ज्येष्ठाषाढाव्रतु ग्रीस्मोमासौ शुक्लशुचिस्मितौ ॥४॥प्रावृट्च्छ्रावण भाद्राख्यौ नभोनभस्य संज्ञितौ ।मासौ शरदिषोर्जौ तु तावाश्वयुजकार्तिकौ ॥५॥सहः सहस्यौ हेमन्तौ मार्गपुष्यौ तु तौ स्मृतौ ।दक्षिणं शर्वरी ज्ञेया देवानामुत्तरोत्तमौ ॥६॥दिनौतदुत्तरायणे दक्षिणे त्वरिते मतम् ।मार्गशीर्षं तथा षाढं प्रोष्ठं माखंविवर्जयेत् ॥७॥सर्वे मासाग्रहीतव्याः शिवेन परिभाषिताः ।तत्रापि सर्वमासेषु वसन्तश्रेष्ठ उच्यते ॥८॥श्रेष्ठं मध्यममेवोक्तं अधमं दक्षिणायनम् ।नक्षत्रपक्षवाराश्च पूर्वमेव सुभाषिताः ॥९॥कृत्तिका वह्निदैवत्यं रोहिणी च प्रजापतिः ।मृगशीर्षः सोमदेवत्यमार्द्रायान्तु शिवं स्मृतम् ॥१०॥पुनर्वसोस्त्वदित्याश्च तिष्यस्य च बृहस्पतिः ।आश्लेषस्य हिनागः स्यान्मखस्य पितरस्तथा ॥११॥भोगो हि फाल्गुने चैव ह्यर्यमोत्तर फाल्गुनः ।हस्तं सावित्रमित्युक्तं सर्वकार्येषु पूजितम् ॥१२॥त्वष्टा चैव तु चित्ताया स्वातेर्वै वायुदैवतम् ।इन्द्राग्नी च विशाख्यस्य त्वनूराधस्यमिश्रकम् ॥१३॥ज्योष्ठायाश्चैव चेन्द्रस्तु मूलस्य नि-ऋतिस्तथा ।पूर्वाषाढांभ इत्युक्ता स्थपनेष्वहितं त्विदम् ॥१४॥विश्वे देवोत्तराषाढं ब्रह्मात्माभिजितस्तथा ।श्रवणस्य हरिश्चैव श्रविष्ठावसवस्तथा ॥१५॥वरुणः शतभिषजस्त्वजः प्रोष्ठपदस्य तु ।उत्तरप्रोष्ठ पादस्य त्वहिर्बुद्ध्निश्च कीर्तितम् ॥१६॥पूषा चैव तु रेवत्याश्चाश्विन्याश्वयुजस्तथा ।यमश्चैव भरण्याश्च दिनानामधिदैवताः ॥१७॥तिष्यश्रवणहस्तार्द्रामैत्रादित्यमखास्तथा ।प्राजापत्याश्वयुक् स्वाति सौम्यपौष्ण्यत्रिरुत्तराः ॥१८॥द्वितीया च तृतीया च पञ्चमी षष्ठ सप्तमी ।दशम्येकादशी चैव प्रतिपच्च त्रयोदशी ॥१९॥पौर्णमासी च तिथयः शुक्लपक्षे विशेषतः ।राशयश्चरवर्ज्यास्तु शेषाग्राह्याधनुर्विना ॥२०॥बुधः शुक्रेन्दु जीवश्च वाराश्रेष्ठास्तु नेतराः ।द्रेक्काणांशकहोराश्च एकादर्शनमिष्यते ॥२१॥त्यक्त्वा सोमोदयं तत्र चान्येषामुदयं शुभम् ।व्याधि पीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह ॥२२॥सोमसूर्यौ च भुञ्जाश्च त्रिषष्ठाय स्थिताः शुभाः ।त एव लग्नगाः कुर्यार्व्याधिशोक भयानि तु ॥२३॥अष्टमस्थाग्रहाः सर्वे कर्तुः कुर्वन्ति दुस्थितम् ।एकादश गताः सर्वे क्षेमारोग्यसमृद्धिदाः ॥२४॥भयकृत् भार्गवः प्रोक्तः सट्सप्तदशम स्थितः ।नवद्विसप्त पञ्चस्थो गुरुः शोभनकृत् तथा ॥२५॥सोमोति सौख्यकृत् प्रोक्तो द्वितीये पञ्चमेपि च ।रविवारः शुभोयुक्तः पौष्णहस्तत्रिरुत्तरैः ॥२६॥सौरिवारः शुभः प्रोक्तस्वातीरोहिणी योगतः ।बुधयुक्ता द्वितीया च गुरुः षष्ठिसमायुतः ॥२७॥इन्दुरेकादशी युक्तः प्राणपीडां करोति हि ।पौष्णस्तु सप्तमीयुक्त प्रजान्दहति वह्निवत् ॥२८॥अशुभः सोमवारस्तु उत्तराषाढसंयुतः ।विष्ठिस्त्रणान्त नक्षत्रखण्डांश्च गुलिकांस्त्यजेत् ॥२९॥दुर्दिने च दिशादाहे भूकंपे चण्डमारुते ।अशनिध्वनिसंयुक्त दिवसे चाशुभं स्मृतम् ॥३०॥संक्रान्तौ ग्रहणे चैव अयने विषुवे तथा ।उत्सवे शान्तिकाले वा षडशीतिमुखेपि च ॥३१॥यदिमोहेन कुर्याच्चेत् कर्तुर्वै वस्तुनाशनम् ।एवं परीक्ष्य बध्नियात् यदीश्चेच्छ्रियमात्मनः ॥३२॥पर्वतेषु च रम्येषु ग्रामे च नगरेथवा ।इन्द्रेशाने त्वथेशाने सोमेशानेऽथवा पुनः ॥३३॥यस्मिं देशेमनोज्ञे तु तत्र प्रासादमारभेत् ।अथभूमिं परिक्ष्यादौ कर्षणन्तदनन्तरम् ॥३४॥श्वेतारक्ता तथा पीता कृष्णाभू ब्राह्मणादयः ।मोक्षदा ब्राह्मणी भूमिर्जयदाक्षत्रिया तथा ॥३५॥वैश्या भूमिस्तु धनदावृषला पुत्रदायिका ।ऊषरां क्रिमिभिर्जुष्टां वल्मीकायां विवर्जयेत् ॥३६॥जानुमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ।उत्तमात्वधिकाभूमिस्तत् समञ्चेत्तु मध्यमा ॥३७॥न्यूनेवर्ज्या प्रयत्नेन तत्रस्थां देवतां न्यसेत् ।भूतप्रेत पिशाचानां बलिन्दत्वा विशेषतः ॥३८॥एतत् तु देवदेवस्य स्थानं कर्तुं महीतले ।बलिं पूजाञ्च संग्राह्य शीघ्रं गच्छेद् यथा सुखम् ॥३९॥एवमुक्त्वा ततो देवानुद्वास्याथ प्रकर्षणम् ।पिङ्गलौ पालितौ रक्तौ वृषौ वै नाङ्गहीनकौ ॥४०॥अन्यवर्णं न कर्तव्यं न बालौ न च वृत्तकौ ।हेमशृङ्गखुरौ न्यस्त्वा वृषमन्त्रेण पूजयेत् ॥४१॥युगञ्च सहलं बध्वा याज्ञकैर्वृक्षसंभवैः ।शमिबिल्वञ्च खदिरो पनसस्तंबकस्तथा ॥४२॥तक्षकेन तथा कृत्वा यन्त्रयित्वा सलोहकम् ।हलं युगेनसंबध्वा गोचर्मकृतरज्जुना ॥४३॥आचार्यस्त्वादिशैवस्तु सकलीकृत विग्रहः ।पूण्याहं वाचयित्वा तु संप्रोक्ष्य पञ्चगव्यकैः ॥४४॥कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवां महीम् ।आचार्यं पूजयित्वा तु दद्यात् तु सहलौ वृषौ ॥४५॥तिलसर्षपमुद्गांश्च शालीबीजांश्च वापयेत् ।पञ्चरात्र्यां त्वङ्कुरिता ग्राह्यान्या तु विवर्जिता ॥४६॥तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् ।एवं परीक्ष्य वसुधां संग्राह्यो देशिकोत्तमः ॥४७॥विसृज्यमेष वृषभं गते सूर्ये दिने शुभे ।शङ्कुच्छाया गृहीतव्या मण्डलन्तत्र कारयेत् ॥४८॥कृत्वा समतलं तत्र गोमयेनानुलिप्य च ।द्वादशाङ्गुलमायामं स्वायामन्नाहमेव तु ॥४९॥अष्टांशैकं परित्यज्य सप्तांशमूर्ध्वनाहकम् ।शमीबिल्व पलाशैर्वा याज्ञिकैर्वा विशेषतः ॥५०॥शंकुन्न्यस्त्वा तु तन्मध्ये भ्रामयेन्मण्डलत्रयम् ।शंङ्कुच्छायाञ्च संलक्ष्य पूर्वाह्णे वा पराह्णके ॥५१॥तन्मध्ये पातयेत् प्राचीं सूत्रमार्गेण देशिकः ।प्राचीसूत्रप्रमाणेन मत्स्यन्तत्र प्रकल्प्य च ॥५२॥भवेत् सूत्रमुदक् चैवं संकल्प्य चतुरश्रकम् ।प्रासादमण्डपानाञ्च प्राकाराणाञ्च विस्तृतः ॥५३॥सङ्ग्राह्य सुविशेषेण पुण्याहं वाचयेत् बुधः ।मूलस्थानं गृहीत्वा तु बालस्थानन्तु कारयेत् ॥५४॥कर्षणाया विधिः प्रोक्तो बालस्थान विधिं शृणु ।इति कर्षणविधिपटलः पञ्चविंशतितमः ॥२५॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP