संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
चण्डेशस्थापनविधिपटलः

सुप्रभेदागमः - चण्डेशस्थापनविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि चण्डेशस्थापनं परम् ।
उद्भवं प्रथमन्तस्य द्वितीयं स्थापनं क्रमात् ॥१॥

रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः ।
गणेशावरणे स्थित्वा दशांशेना युतेन तु ॥२॥

प्रचण्डादिविनिष्क्रान्ता पञ्चमूर्तिर्विधानतः ।
प्रचण्डचण्डः प्रथमं ततो विक्रान्त चण्डगः ॥३॥

तृतीयो भुविचण्डस्तु वीरचण्डश्चतुर्थकः ।
एवं वै पञ्चचण्डेशा पञ्चब्रह्मसमुद्भवा ॥४॥

कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते ।
विक्रान्तचण्डनामा तु त्रेतायामधिप स्मृतः ॥५॥

द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते ।
कलौ तु वीरचण्डेश स्वाधिपत्यं प्रकीर्तितम् ॥६॥

एवं वै पञ्चभेदेन चण्डनामविधीयते ।
आलयस्यैश दिक्भागे विमानं पूर्ववत् क्रमात् ॥७॥

त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ।
भमंजटासमायुक्तं सर्वाभरणभूषितम् ॥८॥

अभयं शान्तदेहञ्च पाशं वै परशुं तथा ।
द्विभुजं यदिकर्तुञ्चेच्छान्तटंकायुतं तथा ॥९॥

शुक्लयज्ञोपवीतञ्च शुक्लांबरधरं तथा ।
स्नानकञ्चासनं प्रोक्तं पूर्वोक्तविधिना ततः ॥१०॥

चलस्थापनवत् सर्वं यथा युक्त्याथकारयेत् ।
स्वनामाद्यक्षरं यत्तु तस्यतन्मूलमन्त्रकम् ॥११॥

तस्य ह्रस्वांश्च दीर्घांश्च ब्रह्मांगस्तु विनिर्दिशेत् ।
शिवार्चने तु तस्यैव दशार्णं मूलबीजतः ॥१२॥

चण्डेश स्थापनं प्रोक्तं इद्रादि स्थापनं शृणु ।

इति चण्डेशस्थापनविधिपटलः सप्तचत्वारिंशत्तमः ॥४७॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP