संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| ग्रामादिलक्षण पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - ग्रामादिलक्षण पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् ग्रामादिलक्षण पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि ग्रामादीनान्तु लक्षणम् ।देवानां पूजनार्थन्तु ग्रामादिविन्यसेत् क्रमात् ॥१॥ग्रामञ्च नगरञ्चैव पत्तनं खर्पटं परम् ।खेटकं कुटिकञ्चैव शिबिरं राजधानिकम् ॥२॥सेनामुखं दशैतानि कीर्तितानि क्रमेण वै ।विप्राणाञ्च ससत्यानां वासोग्राम इति स्मृतम् ॥३॥स एव विप्रमुख्यानामग्रहार इति स्मृतम् ।अनेकजातिसंबाधं नानाशिल्पजनैर्युतम् ॥४॥क्रयविक्रयकैः कीर्णं सर्वदेवैः समायुतम् ।नगरं त्वितिविख्यातं पत्तनं शृणु सांप्रतम् ॥५॥दीपान्तरगतद्रव्यं विक्रयक्रयकैर्युतम् ।पत्तनं त्वब्धितीरे तु तयोर्मिश्रन्तु खर्पटम् ॥६॥क्रयविक्रयकैर्युक्त नानाजातिसमायुतम् ।तन्तु वायैः समायुक्तं तत्पुरं त्वितिसंस्मृतम् ॥७॥शूद्रैरधिष्ठितं यत्तत् खेटकं त्वितिकीर्तितम् ।तेषां समान्तरे येषां वा संकुटिकमुच्यते ॥८॥राजसेना च मूनान्तु निवेशं शिबिरं स्मृतम् ।चतुरङ्गसमाकीर्णं नृपभूतिसमायुतम् ॥९॥राजवेश्मसमायुक्तं राजधानीति चोच्यते ।सर्वजातिसमाकीर्णं नृपवेश्मसमायुतम् ॥१०॥बहुरक्षासमायुक्तं सेनामुखमिति स्मृतम् ।ग्रामद्वादश साहस्रैर्दशसाहस्रकैरथ ॥११॥सहस्राष्टकसङ्ग्याभिः कर्तव्यञ्चोत्तमत्रयम् ।सप्तषट्पञ्चसाहस्रैर्मध्यमत्रयमेव हि ॥१२॥चतुस्त्रिद्विसहस्रैस्तु कन्यसत्रयमाश्रयेत् ।एवं नवविधं प्रोक्तमथक्षुद्राणि चोच्यते ॥१३॥सहस्रमर्धमर्धञ्च क्षुद्रेषु वरमुच्यते ।द्विशतं त्वर्धमर्धञ्च क्षुद्रमध्यममेव च ॥१४॥चत्वारिंशदथत्रिंशद्विंशत् क्षुद्रावरं स्मृतम् ।अष्टादशविधन्तेषु यथा शक्तन्तु कारयेत् ॥१५॥विद्याचारगुणैर्युक्तान् पत्न्यग्नि गुरुपुत्रकान् ।दरिद्रां वेदशास्त्रज्ञानाहू या भ्यर्चयेत् क्रमात् ॥१६॥विप्रनामादिकं गोत्रैस्ताम्र पत्रतलेर्पयेत् ।ग्रामबीजां विनिच्छित्य तथा प्रत्यकरेणुना ॥१७॥प्रमाणैर्निश्चितं भूमिं दद्यादुदकपूर्वकम् ।एवमेव कृते पश्चात् ग्रामविन्यासमारभेत् ॥१८॥भूमिं समतलङ्कृत्वा खातकर्षणसंयुतम् ।पञ्चसाहस्र दण्डेन कल्पयेदुत्तमस्य तु ॥१९॥सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥२०॥वृत्तं वा चतुरश्रं वा पूर्वायाममथापि वा ।दक्षिणायतमेवाथ कल्पयेत् तन्त्रवित्तमः ॥२१॥तन्मध्ये नै-ऋतेभागे दण्डमानेन विस्तृतम् ।शङ्कुमण्डलमास्तीर्य मध्ये शङ्कुं स लक्षणम् ॥२२॥खदिरञ्चन्दनं वापि सालयाज्ञकवृक्षजम् ।द्वादशाङ्गुलमुत्सेधं नाहङ्कृत्वा तदर्धतः ॥२३॥मूलात् षोडश हीनाग्रं सुदृढमृजुमव्रणम् ।शङ्कुप्रमाणाद् द्विगुणं त्रिगुणं मण्डलत्रयम् ॥२४॥ब्रह्माणं मनसाध्यात्वा शङ्कुण्डलमध्यमे ।न्यस्त्वाच्छायाग्रपतनं दृष्ट्वा संलक्ष्यसुचिना ॥२५॥पूर्वाह्णे वा पराह्णे वा सूत्रं तत्र प्रसारयेत् ।एवं पाचीन्तु सङ्कल्प्य मत्स्ये नोदीचिकंबुधः ॥२६॥एकाशीति पदन्तत्र सूत्रमानेन कल्पयेत् ।तत्रस्थ देवान् सङ्कल्प्य गन्धपुष्पादिभिः क्रमात् ॥२७॥ईशानश्चाथफर्जन्यो जयन्तश्च महेन्द्रकः ।आदित्यः सत्य अभ्रंशा वन्तरिक्षश्च पूर्वगाः ॥२८॥अग्निः पूषा च वितथोग्रहक्षतयमौ तथा ।गन्धर्वो भृंगराजस्तु मृगश्चिव तु दक्षिणे ॥२९॥नि-ऋतिद्वौ वारिकश्चैव सुग्रीवं पुष्पदन्तकः ।वरुणश्चासुरः शोषः पापयक्ष्मा च पश्चिमे ॥३०॥वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।ऋगोदध्ययनश्चैव द्वात्रिंशत् बाह्यदेवताः ॥३१॥मरीचिको विवस्वांश्च मित्रश्च पृथिवीतरः ।आपश्चैवापवत्सश्च सविता सावित्र एव च ॥३२॥इन्द्र इन्द्र जयश्चैव रुद्रोरुद्र जयस्तथा ।तत् समंद्वा * * * * * * * * * * * *? ।तदर्धं क्षुद्रविधिना दक्षिणोत्तरमार्गतः ।ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥३५॥श्रीवत्सन्नाभिवर्तञ्च पार्श्वयुक्तन्तु पद्मकम् ।नन्द्यावर्तञ्च भद्रञ्च स्वस्तिकञ्च प्रकीर्णकम् ॥३६॥ग्रामा ग्रहारयोर्न्यासमेवं प्रोक्तं विशेषतः ।कुम्भवेदिक सिंहाख्या स्त्रिधासेना निवेशनम् ॥३७॥दण्डकन् त्वितिविख्यातं नागरादिप्रकल्पयेत् ।वीधयः प्राङ्मुखस्तिस्रः सप्तपञ्च उदङ्मुखाः ॥३८॥अष्टद्वारन्तु विन्यासं श्रीवत्सन्तु प्रगद्यते ।ता एव विधयः प्रोक्ता नाभियुक्तञ्च मध्यमे ॥३९॥पार्श्वयो राजवीधी च नाभिवर्तस्य चोच्यते ।अनाभिः पूर्ववत् प्रोक्तं पार्श्वयुक्तमिति स्मृतम् ॥४०॥अष्टद्वारसमायुक्तं प्राङ्मुखं पञ्चवीधिकाः ।शेषाणि पूर्ववत् कृत्वा नन्द्यावर्तमुदाहृतम् ॥४१॥द्वारवीधिं यदिप्रोक्ष्यद्रुममध्यम संस्पृशेत् ।भद्रकं नामनामेति स्वस्तिकञ्च ततः शृणु ॥४२॥तिर्यग्वीधिरयुग्माश्च प्राङ्मुखाश्चतुरत्थ्यया ।स्वस्तिकञ्च इति प्रोक्तं पद्मकञ्च ततः शृणु ॥४३॥नाभिमङ्गलवीधीभ्यामयुग्माः क्षुद्रविधयः ।परिवेष्टिञ्च तद्वारमेतत् पद्मकमुच्यते ॥४४॥तथा स्वस्तिकवत् कृत्वा कोणमध्ये च द्वारकौ ।एतत् तु कर्णिका पद्मं पद्मावर्तमथशृणु ॥४५॥पद्मवत् प्रोतरत्थ्यान्तं पद्मावर्तमिति स्मृतम् ।स्वमध्ये नाभियुक्तन्तु तद्युक्ता चान्तवीधिका ॥४६॥प्रकीर्णकमिति प्रोक्तं कुम्भकञ्च ततः शृणु ।आवृतञ्चोक्तरत्थ्या च कुम्भकञ्चेति कथ्यते ॥४७॥पञ्च * * * * * * * * * * * * * *? ।सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥४९॥यथेष्टायतरत्थ्येक द्वारद्वयसमन्वितम् ।तद्दण्डकमिति प्रोक्तमेतत् ग्रामादिनामतः ॥५०॥नाभिप्रोक्तं दण्डछेदं सूत्रछेदं न कारयेत् ।सगर्भा सर्व-ऋद्धिः स्यादगर्भा सर्वनाशिनी ॥५१॥तस्मादादौ प्रकर्तव्या सगर्भा पृथिवी ततः ।शतद्वयपलैस्ताम्रैस्तदर्धैर्वा तदर्धकैः ॥५२॥पलैः फेला प्रकर्तव्या हस्तमात्रप्रमाणतः ।नवकोष्ठसमायुक्तं सपिधाना समादृढा ॥५३॥रत्नबीज सम्रध्या तु लोहकन्दानि चैव हि ।फेलामध्ये यथा न्यस्त्वा सुमुहूर्ते तु विन्यसेत् ॥५४॥ग्राममध्ये सभास्थाने द्वारदक्षिणपार्श्वके ।देवालये तथा रामे तटाकस्य तु तीरके ॥५५॥एवं गर्भं सुविन्यस्य ग्रहश्रेणी समारभेत् ।त्रिदण्डं पञ्चदण्डं वा सप्तदण्डाधमत्रयम् ॥५६॥नवैकादशदशकं मध्यमत्रितयं विदुः ।दशपञ्चाधिकं सप्तदशचैकोनविंशतिः ॥५७॥उत्तम त्रितयद्वत्र एषामेक तमंबुधः ।विस्ताराभद्विगुणाधिक्यं दण्डैकमधिकं यथा ॥५८॥विस्तारादर्द्धमायामं द्विगुणं त्रिगुणायतम् ।पुरुषस्यप्रधानं हि वासं दक्षिणमुच्यते ॥५९॥उत्तरेरङ्गमेवं स्यात् स्त्रीणाञ्चेद्विपरीतकम् ।ईशे महासनं प्रोक्तं मांहेन्द्रे द्वारवेशनम् ॥६०॥नै-ऋते कल्पयेद् धान्यं फर्ज्जन्येजलनिर्गमम् ।विधेरभिमुखद्वारं ग्रहाणां तद्विधीयते ॥६१॥सप्तविंशति दण्डं वा महावीधि प्रमाणतः ।तत् समन्द्वारमाख्यातं तद्वास्तूक्त पदेषु वै ॥६२॥तदर्धं क्षुद्र विधिना दक्षिणोत्तरमार्गतः ।ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥६३॥ईशाने चेश्वर स्थानं सोमेशानान्तरेऽथवा ।तथैन्द्राशान योर्मध्ये कल्पयेत् तु विचक्षणः ॥६४॥सहस्रभूसुरादूर्ध्वे ब्रह्मेशो वायुदेशके ।पञ्चमूर्ति विधानेन स्थापयेद् वै जनार्दनम् ॥६५॥ऐन्द्रे तु भास्करस्थानं महामोट्यास्तु पावके ।दुर्गस्थानन्तु याम्यायां महेशि तुश्च नै-ऋते ॥६६॥विष्णु स्थानन्तु वारुण्यां सुब्रह्मण्यन्तु वायवे ।विनायक स मातृणां स्थानं सम्यक् तथोत्तरे ॥६७॥प्राकार परिखाबाह्ये मातृणां स्थानमिष्यते ।तासां वै चोत्तरद्वारं ग्रामादीनां हिताय वै ॥६८॥सूर्यस्य पश्चिमद्वारमन्येषां पूर्वतोमुखम् ।तटाकस्य तु तीरे तु ज्येष्ठा देवीं प्रकल्पयेत् ॥६९॥बाह्ये चाभ्यन्तरेवापि देवागारं पृथक् पृथक् ।शिवस्य वास्तु बाह्ये तु प्रासादं प्रोक्तदेशके ॥७०॥सन्धिमर्मेषु वीध्यग्रे देवानामालयन्न हि ।ग्रामायामस्य पञ्चांशं परितः कल्पयेत् पृथक् ॥७१॥पैशाचमिति विख्यातं तत्र देवालयं स्मृतम् ।शिवस्याराधनं नित्यं भुक्तिमुक्तिप्रदायकम् ॥७२॥अन्येषां पूजनन्नित्यं ग्राम-ऋद्धिकरं भवेत् ।देवस्थानं विनायत्र एककालं न वासयेत् ॥७३॥नित्यपूजाविहीने तु क्रुद्धं पीडां करोति हि ।तत् पूजकास्तु तत् पार्श्वे तस्यालयसमीपतः ॥७४॥आवासं संप्रकल्प्यैव न्यसेयुर्निरुपद्रवाः ।ग्रामादीनान्तु परितः शूद्राणान्तु निवासकम् ॥७५॥वारिजां पश्चिमेभागे अथवा दक्षिणे दिशि ।प्राच्याञ्चैव कुलालानां पश्चिमे वा विशेषतः ॥७६॥पश्चिमे मांसवृत्तीनां वायव्येमत्स्यजीविनाम् ।दक्षिणे तैल वृत्तीनामुत्तरे पुष्पजीविनाम् ॥७७॥आग्नेय्यां नापितानान्तु नै-ऋत्यान्तन्तु वायकान् ।परितः परिघातन्तत् बाह्ये चाप्यन्त्यजनान् पृथक् ॥७८॥पूर्वे वा पश्चिमे वापि कर्मकारान् प्रकल्पयेत् ।कारुकाणान्ततो बाह्ये चण्डालानान्ततो बहिः ॥७९॥ग्रामात् क्रोशमतिक्रम्य नगराणान्तदर्धतः ।ग्रामस्यैशान दिक्भागे श्मशानन्तु विधीयते ॥८०॥नद्यास्तीरेऽथवा सोमे कञ्चिद्दूरं समाश्रितम् ।चतुर्दिक्षु तटाकञ्च कोणे वापि प्रकल्पयेत् ॥८१॥एवं समासतः प्रोक्तं ग्रामादीनान्तु लक्षणम् ।शृणुत्वमेव मनसा विभवस्य तु निश्चयम् ॥८२॥इति ग्रामादिलक्षणपटलस्त्रयोविंशतितमः ॥२३॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP