संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
शीतकुम्भविधि पटलः

क्रियापदः - शीतकुम्भविधि पटलः

सुप्रभेदागमः


अथातः संप्रवक्ष्यामि शीतकुम्भस्य लक्षणम् ।
अनावृष्टेश्च दुर्भिक्षे परराष्ट्रप्रवेशने ॥१॥

ज्वरापस्मारनाशाय वसूरिनासनार्थकम् ।
सर्वरोगविनाशार्थं शीतकुम्भन्तु कारयेत् ॥२॥

द्वात्रिंशत् प्रस्थसंपूर्णं बिंब प्रभसमन्वितम् ।
त्रिसूत्रैर्वेष्टयित्वा तु यवान्तं वाथवाङ्गुलम् ॥३॥

शिवाग्रे स्थण्डिलं कृत्वा या वदष्टौ सकर्णिकम् ।
तण्डुलैः सोभितं कृत्वा तिलैर्दर्भैः परिस्तरेत् ॥४॥

अष्टद्रोणेन शालीनं तदर्धैस्तण्डुलैर्युतम् ।
तण्डुलार्धतिलैर्युक्तं कारयेत् तु विचक्षणः ॥५॥

वस्त्रपूतेन तोयेन शिवकुम्भन्तु पूरयेत् ।
सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् ॥६॥

स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् ।
स्थण्डिले विन्यसेत् कुम्भं गन्धपुष्पादिभिर्युतम् ॥७॥

पूर्वेद्युरधिवासं स्याद्रात्रौ जागरमाचरेत् ।
दिशास्वध्ययनं कार्यं कुम्भं स्पृष्ट्वा विशेषतः ॥८॥

शान्ति होमं प्रकर्तव्यं तस्याग्रे तु विशेषतः ।
प्रभाते देवदेवस्य मूर्ध्निमध्येसु षिरङ्कृतम् ॥९॥

वस्त्रैरावेष्ट्यगात्राणि पुष्पमाल्यैर्विभूषयेत् ।
कुम्भं विन्यस्य तन्मध्ये तत् पृष्ठेसु षिरं न्यसेत् ॥१०॥

लोहसूच्याग्रमानेन नालं हेममयं भवेत् ।
द्विगुणं क्षीरदातारं मधूनित्रिगुणं भवेत् ॥११॥

हृदयेन तु मन्त्रेण कुम्भमारोप्ययत्नतः ।
उपकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववत् बुधः ॥१२॥

एकविंशद्दिनं वापि चतुर्दशदिनन्तु वा ।
सप्ताहं वाथ पञ्चाहं त्रियहं वा विशेषतः ॥१३॥

सन्ततं श्रावयेन्मूर्ध्नि कृत्वाशान्तिकरं स्मृतौ ।
नित्यपूजाविशेषेण काले काले विचक्षणः ॥१४॥

द्विगुणं पूजयेत् तत्र यावच्छक्यमथापि वा ।
उपकुम्भात् तु निक्षिप्य जलादुत्थाय पूर्ववत् ॥१५॥

कुम्भावरोहणं यावत् तावद्धोमं समाचरेत् ।
आचार्यं पूजयेत् तत्र वस्त्राङ्गुलीयकादिभिः ॥१६॥

दक्षिणां देशिकायैव दापयेत् तु विशेषतः ।
अन्ते कुम्भं परित्यज्य वक्त्रमन्त्रेणमन्त्रवित् ॥१७॥

प्रभूतहविषन्दत्वा पूर्वोक्त विधिनासह ।
अन्यान् भक्तजनांश्चापि अन्नपानेन पूजयेत् ॥१८॥

शीतकुम्भमिदं प्रोक्तं नवनैवेद्यकं शृणु ।

इति शीतकुम्भविधि पटलःषोडशः ॥१६॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP