संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| गर्भन्यासविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - गर्भन्यासविधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् गर्भन्यासविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि गर्भं न्यासविधि क्रमम् ।यत् प्रासादं सगर्भन्तु सर्वसंपत्करं नृणाम् ॥१॥अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् ।तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् ॥२॥भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् ।सौवर्णं राजतं वापि ताम्रं कांसमयं तथा ॥३॥शङ्खं वा शुक्तिकं वापि संप्रोक्तं गर्भभाजनम् ।लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः ॥४॥शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् ।अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् ॥५॥पादविष्कंभविस्तारा पञ्चविंशत् पदान्विता ।तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा ॥६॥घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः ।उत्तमन्तु समाख्यातं विस्तारोत्सेधतः समा ॥७॥विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् ।समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् ॥८॥पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः ।खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते ॥९॥क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् ।भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते ॥१०॥गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै ।सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् ॥११॥स्थण्डिलङ्कारयेत् तत्र शालिभिः समलङ्कृतम् ।तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् ॥१२॥कुशवस्त्रैः समास्तीर्य पुष्पैर्ल्लाजसमायुतैः ।तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् ॥१३॥ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः ।मरीचिः सविता चैव विवस्वांश्च विशेषतः ॥१४॥रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसु रास्तथा ।पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः ॥१५॥ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः ।वितथश्च यमो भृंगो नि-ऋतिश्च सुकर्णकः ॥१६॥वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः ।बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः ॥१७॥माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च ।स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ ॥१८॥प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् ।शालिनी वारगोधूमश्या ममाषकुलुत्थकान् ॥१९॥तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै ।तालं तथाञ्जनश्यामं विसकञ्च मनःशिला ॥२०॥कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा ।जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः ॥२१॥पर्वते च तथा तिर्थे नद्यास्तीरे हृदे मृदम् ।कुलीरावासवल्मीके शंखे वै गजदन्तके ॥२२॥सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् ।सुवर्णं रजतन्ताम्र मायसन्त्रपुकन्तथा ॥२३॥मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् ।उत्पलस्य च पद्मस्य नीललोहितकस्य च ॥२४॥कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः ।खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा ॥२५॥कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् ।ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु ॥२६॥गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च ।वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् ॥२७॥स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः ।तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः ॥२८॥अष्टत्रिंशत् कलाभिश्च षडंगैश्च दशाक्षरैः ।हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः ॥२९॥प्. १३७) संपातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् ।ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् ॥३०॥आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ।गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे ॥३१॥प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा ।भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः ॥३२॥नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते ।सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् ॥३३॥प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे ।यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् ॥३४॥कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् ।मण्डपे स्तंभमूले तु प्रथमावरणे बुधः ॥३५॥गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् ।गर्भस्थानन्तु संप्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः ॥३६॥फेलामादाय सद्येन वाममन्त्राभिमंत्रिताम् ।अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु ॥३७॥अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे ।स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः ॥३८॥स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः ।स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ॥३९॥सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु ।शृणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् ॥४०॥इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः॥ २९॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP