संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| तन्त्रावतारविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - तन्त्रावतारविधिपटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् तन्त्रावतारविधिपटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् ।तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् ॥१॥त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।कामिकं योगजं चिन्त्यं कारणमजितं तथा ॥२॥दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् ।विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् ॥३॥वीरं च रौरवञ्चैव मकुटं विमलं तथा ।चन्द्रज्ञानञ्च बिंबञ्च प्रोत्गीतं ललितं तथा ॥४॥सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च ।किरणं वातुलञ्चैव अष्टाविंशति संहिताम् ॥५॥वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः ।ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः ॥६॥सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये ।कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया ॥७॥प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः ।त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् ॥८॥नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् ।योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ॥९॥सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ।वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च ॥१०॥प्. ४) आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः ।चिन्त्यं सूदीप्त संज्ञस्य प्रोक्तं शतसहस्रकैः ॥११॥दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका ।सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् ॥१२॥अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् ।कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् ॥१३॥कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः ।कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता ॥१४॥ततस्तु मारणत्वेषां सप्तधाकारणं तथा ।अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया ॥१५॥सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः ।प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ॥१६॥चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् ।दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया ॥१७॥ईशात् त्रिमूर्तिः संप्राप्ताः ततः प्राप्तो हुताशनः ।अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् ॥१८॥आनन्दं माधवोद्भूतं अत्भुतञ्चमृतं तथा ।दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् ॥१९॥सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तत् ग्रन्धं पद्मसङ्ख्यया ।कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा ॥२०॥अतीतममलं शुद्धमप्रमेयं तु जातुभाक् ।वु?बुधं विबुधं हस्तमलङ्कारं सुबोधकम् ॥२१॥एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः ।अम्शुमानम्बु संज्ञस्य पञ्चलक्षेण कीर्तितम् ॥२२॥अग्रश्चैवांबुसंज्ञाच्च अग्रान् प्राप्तस्ततो रविः ।विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् ॥२३॥प्रकरणं भूततन्त्रमात्मालङ्कारमेव च ।काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥२४॥ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् ।सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् ॥२५॥विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् ।त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते ॥२६॥क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते ।इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् ॥२७॥शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते ।रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ॥२८॥परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया ।विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम् ॥२९॥कुबेरेशं महाघोरं विमलं विजयाष्टकम् ।निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया ॥३०॥दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः ।निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् ॥३१॥निश्वासनयनञ्चैव तथा निश्वासकारिका ।घोरसंज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा ॥३२॥निधनस्य स्वयंभूतं त्रिकोट्यर्द्धेन कीर्तितम् ।निधने शात् स्वयंभुतं श्रुतवान्नपि चोद्भवः ॥३३॥प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा ।आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् ॥३४॥आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः ।आग्नेयमेकमेवन्तु आग्नेयां नादमेव च ॥३५॥तेजसो वीरसंप्रोक्तं नियुतग्रन्धसङ्ख्यया ।प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः ॥३६॥प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् ।अमोहं मोहसमयं शकटंशाकटायिकम् ॥३७॥हलं विलोखरं भद्रं वीरं वीरे त्रयोदश ।रौरवं ब्रह्मणेशस्य अंबुजाष्टकसङ्ख्यया ॥३८॥नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते ।कालदाहं कलातीतं रौरवं रौरवोत्तरम् ॥३९॥महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् ।मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥४०॥महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् ।मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते ॥४१॥सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया ।वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च ॥४२॥अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् ।प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा ॥४३॥आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।अजितं मारणं तन्त्रं विमलं षोडशैव तु ॥४४॥चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया ।बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश ॥४५॥स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् ।एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् ॥४६॥श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् ।शिवशेखरमाख्यातं देव्यामतन्तथैव च ॥४७॥चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् ।मुखबिंबं प्रशान्तस्य शतसाहस्र सङ्ख्यया ॥४८॥दधीचिर्मुनि संप्राप्तो भेदः पञ्चदशैव तु ।चतुर्मुखमहायोगं संस्तोभं प्रतिबिंबकम् ॥४९॥अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् ।प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् ॥५०॥महाविद्या महासौरं बिंबं पञ्चदशैव तु ।प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥५१॥कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि ।कवचञ्चैव वाराहं पिङ्गलामतमेव च ॥५२॥प्. ७) पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् ।शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च ॥५३॥आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् ।गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै ॥५४॥ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् ।आलयाल्ललितं प्राप्तो ललितं ललितोदरम् ॥५५॥कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् ।बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया ॥५६॥बिन्दुसंज्ञाच्च संबन्धः प्राप्तश्चण्डेश्वरोपरः ।सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च ॥५७॥शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् ।सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु संङ्ख्यया ॥५८॥शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् ।लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् ॥५९॥असङ्ख्यमनिलं द्वंद्वं सन्तानं सप्तधोदितम् ।सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥६०॥नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् ।शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च ॥६१॥दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते ।श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥६२॥ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् ।उशनामुनि संप्राप्त श्रीदेव्याश्च यथा क्रमम् ॥६३॥मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च ।पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि ॥६४॥किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया ।संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु ॥६५॥गारुडन्नै-ऋतन्निलं रुत्विंभानुक धेनुकम् ।प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा ॥६६॥प्. ८) शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् ।महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् ॥६७॥वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् ।सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् ॥६८॥विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् ।अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः ॥६९॥कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च ।चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च ॥७०॥अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् ।सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् ॥७१॥अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् ।विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् ॥७२॥स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च ॥७३॥मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् ॥७४॥बिंब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसंज्ञितम् ।ललितं कपोलतलं सिद्धञ्चैव ललाटकम् ॥७५॥सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् ।पारमेश्वरहारञ्च किरणं रत्नभूषितम् ॥७६॥वातुलं परमेशस्य वायुस्तद्विशङ्केन तु ।कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् ॥७७॥ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् ।तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा ॥७८॥एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः ।शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः ॥७९॥चिन्तामणिरिवाभाति एक या बहुधादिशेत् ।यट्र्य?व्येकोभवेद्वक्ता श्रोतारोबहवो यथा ॥८०॥प्. ९) येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।तस्मिन् तन्त्रे प्रकर्तव्यं अन्य तन्त्रं न कारयेत् ॥८१॥कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः ।तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ शृणु ॥८२॥तन्त्रावतार द्वितीय पटलः॥ २॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP