संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| प्रश्नविधिपटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - प्रश्नविधिपटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् प्रश्नविधिपटलः Translation - भाषांतर कैलाशशिखरासीनं मुनिसङ्घैः समावृतम् ।देवैर्यक्षैः सगन्धर्वैः सिद्धविद्याधरैरपि ॥१॥ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् ।दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् ॥२॥भगवन् देवदेवेश लोकनाथजगत्पते ।अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥३॥यदवाप्यनराः सर्वे मुक्तिमायान्ति केवलाम् ।ज्ञानयोगक्रियाचर्याः पुराप्रोक्ताः सविस्तराः ॥४॥पुंसामनुग्रहार्थाय संक्षेपाद् वकुमर्हसि ।तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् ॥५॥किं शौचा चमनं देव स्नानं भस्मविधिः कथम् ।अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् ॥६॥नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् ।उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् ॥७॥शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् ।कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् ॥८॥फलपाक विधानञ्च आचार्यस्य च लक्षणम् ।लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो ॥९॥विभव निश्चयं किं वा कर्षणस्य विधिः कथम् ।बालालयविधिः कोवा धामवास्तु विधि कथम् ॥१०॥आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् ।अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् ॥११॥मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् ।प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् ॥१२॥लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् ।शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् ॥१३॥प्. २) अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् ।इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् ॥१४॥क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् ।अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् ॥१५॥जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् ।तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो ॥१६॥चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो ।जातिभेदविधानं किं मण्डलस्य कथं प्रभो ॥१७॥दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् ।आदिशैवानुशैवानां कथं वा शोडश क्रियाः ॥१८॥व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् ।दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् ॥१९॥हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् ।पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् ॥२०॥अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् ।नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् ॥२१॥आधाराधेयकं सर्वं योगपादे तु कीर्तितम् ।ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् ॥२२॥पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् ।मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः ॥२३॥वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो ।श्रीभगवानुवाचसाधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् ॥२४॥शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् ।दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥२५॥श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते ।चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् ॥२६॥सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक ।तवस्ते? हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् ॥२७॥प्. ३) शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् ।तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् ॥२८॥शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च ।मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् ॥२९॥अष्टाविंशति भेदेन सिद्धान्तं शृणु तत्वतम् ।इति प्रश्नविधिपटलः प्रथमः ॥१॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP