संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः|
हविष्यविधि पटलः

क्रियापदः - हविष्यविधि पटलः

सुप्रभेदागमः


अथतः संप्रवक्ष्यामि हविष्यविधिमुत्तमम् ।
नीवारञ्चैव गोधूमं यवं वेणुसमुद्भवम् ॥१॥

प्रधानतण्डुलं प्रोक्तन्नैवेद्यस्य शिवस्य तु ।
अलाभे चोक्तबीजानामथवा शालितण्डुलैः ॥२॥

श्वेतशाली महाशाली रक्तशाली तथैव च ।
कृष्णशाली हेमशाली शालायश्च तथान्यकाः ॥३॥

शालयोर्व्रीहहयोर्वाथ तण्डुलार्थं प्रगृह्य च ।
वर्णगन्धरसैरुष्टास्त्वयोग्यास्तण्डुलास्तथा ॥४॥

चातुर्वर्णोत्भवानारी पतिपुत्रवतीमता ।
तेषामेक तमे जाता अन्या वा कृतमङ्गला ॥५॥

सा तण्डुलक्रियायास्तु युक्ताभक्तिसमन्विता ।
आदित्यरश्मि सन्तप्ता धान्यं प्रक्षिप्युलूखले ॥६॥

प्राङ्मुखोदुङ्मुखो वापि कुट्टने मुसलेन तु ।
तुषान् व्यपोह्य शूर्पेण कंबुकाञ्च कणान्त्यजेत् ॥७॥

अखण्डान् तण्डुलान् ग्राह्य श्वेतवर्णांस्तु निर्मलान् ।
द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ॥८॥

धरणाष्टौ पलञ्चैव पलंमुष्टिरिहोच्यते ।
चतुर्मुष्टिस्तथा पादं प्रस्थं पादचतुष्ककम् ॥९॥

आढकन्तच्चतुष्कं स्याद् द्रोणन्तस्य चतुष्ककम् ।
तवधामार्गमुद्दिश्य नैवेद्यन् तत् प्रकल्पयेत् ॥१०॥

प्रातः साये तथा भ्यर्च्य मध्याह्ने च निवेदनम् ।
प्रस्थद्वयन्तु तत् काले पाचयित्वा निवेदयेत् ॥११॥

एकदीपं द्विकाले च रात्रौ दीपद्वयन्त्विह ।
एवमुक्तप्रमाणेन क्षुद्रमध्याधमाधमम् ॥१२॥

प्रातः काले च मध्याह्ने द्विप्रस्थन्तण्डुलं हविः ।
साये संख्यान्तमभ्यर्च्य दीपं प्राग्द्विगुणं भवेत् ॥१३॥

प्रस्थद्वयं त्रिकालेषु प्रत्येकञ्च निवेदयेत् ।
दीपञ्चैव चतुःप्रोक्तासा ये तु द्विगुणं तथा ॥१४॥

अधमन्त्रयकञ्चैव वाद्यध्वनिसमन्वितम् ।
स्नाने भोजनके याने प्रच्छन्नपटमार्जने ॥१५॥

बलिदानेप्युषः काले वाद्यघोषन्तु कारयेत् ।
मध्यमस्याधमे प्रोक्तं मध्याह्ने त्वाढकं हविः ॥१६॥

प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् ।
मध्यत्रये तु मतिमान् वाद्यध्वनि समायुतम् ॥१७॥

त्रिकालं बलिलिङ्गे च बलिदानन्नयेत् ततः ।
मध्यमामध्यमं विद्यात् त्रिकाले ष्वाढकं हविः ॥१८॥

अर्धयामे तदर्द्धञ्च चतुर्विंशति दीपकम् ।
अर्द्धरात्रे तु या पूजार्धयाममिहोच्यते ॥१९॥

स्नानानि तु निवेद्यान्तं बलिहोमविवर्जितम् ।
वामान्तं वाथ कुर्वीत स्नात्वा वर्जितपूजितम् ॥२०॥

सायङ्कालस्य यामान्ते पूजायामान्तमुच्यते ।
त्रिकालं च बलिः प्रोक्तं पुष्पार्घ्यन्तु क्रमेण तु ॥२१॥

वाद्यध्वनिसमायुक्तं शंखकाहलसंयुतम् ।
मध्याह्ने नित्यहोमञ्च शिवमन्त्रसमन्वितं ॥२२॥

मध्यमस्योत्तमे चैव त्रिकालेस्वाढकत्रयम् ।
आढकश्चार्धयामेतु दीपसप्ततिसंयुतम् ॥२३॥

त्रिकालं बलिरन्नं स्यात् द्विकालं होममाचरेत् ।
सर्ववाद्यसमायुक्तं षट्काले च सुघोषयेत् ॥२४॥

षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते ।
उत्तमस्याधमं ज्ञेयं द्रोणेनैव त्रिसन्धिषु ॥२५॥

द्रोणार्धमर्धयामे तु दीपमष्टशतं भवेत् ।
त्रिकाले बलिरुक्तं स्यात् त्रिकालं होमसंयुतम् ॥२६॥

वादकानाञ्चतुर्विंशत् सर्ववाद्यसमन्वितम् ।
गणिकाश्च चतुस्त्रिंशत् चतुर्विंशति वार्धकम् ॥२७॥

रूपयौवनयुक्ताभि स्त्रिकालं नृत्तमाचरेत् ।
पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ॥२८॥

उत्तमं मध्यमे तस्मिन् चतुर्वर्णं हविस्त्रिषु ।
पायसादीन्विधाने तु प्रत्येकं द्रोणतण्डुलैः ॥२९॥

द्रोणे तु चोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ।
द्रोणान्न्यधार्धयामे तु दीपञ्चैव शतद्वयम् ॥३०॥

त्रिकालं बलिहोमञ्च शीतारिधूपमुच्यते ।
वाद्यकानां चतुस्त्रिंशत् पञ्चाशत् गणिकान्वितम् ॥३१॥

कालं यामन्तु तस्योक्तं नृत्तं कुर्यात् त्रिसन्धिषु ।
घटिकाद्वेभवेत् स्नानं घटिकैकार्चनं भवेत् ॥३२॥

निवेद्यार्त्थं त्रिपादं स्याद्यात्रार्थन्तु त्रिपादकम् ।
अतः परं त्रिघटिका शंखवाद्यादिशोभनैः ॥३३॥

शेषकाले महाहव्यं भक्ष्यादीनां निवेदनम् ।
परिवेषं विनोदञ्च गेयमुक्तादिभिश्चरेत् ॥३४॥

अत्रार्धयामपूजान्ते कुर्यात् कवाटबन्धनम् ।
अन्यकालेन कर्तव्यं कवाटस्य तु बन्धनम् ॥३५॥

उत्तमान्मध्यमं प्रोक्तं उत्तमोत्तममध्यमे ।
उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ॥३६॥

पायसादीनिपक्वानि पञ्चद्रोणेन वै पृथक् ।
तदर्द्धमर्द्धयामे तु दीपं पञ्चशतं भवेत् ॥३७॥

त्रिकालं बलिहोमञ्च पञ्चाशद्वाद्यसंयुतम् ।
तण्डुलात् त्रिगुणं क्षीरं कदलीफलसंयुतम् ॥३८॥

मुद्गभिन्नञ्चतुर्थाशं यथा शत्यागुलान्वितम् ।
पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु ॥३९॥

तण्डुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् ।
तच्चतुर्थांश शमाज्यन्तु पाचयित्वा यथा विधि ॥४०॥

कृसरान्नमिदं प्रोक्तं गुलान्नमधुनोच्यते ।
तण्डुलात् द्विगुणं क्षीरं तदर्धांशंगुलं क्षिपेत् ॥४१॥

गुलार्धं प्रक्षिपेदाज्यं गुलान्नमिदमुच्यते ।
तण्डुलस्य चतुर्धांशं मुद्गजन्तत्र बुद्धिमान् ॥४२॥

नालिकेरफलैः सूक्ष्मैर्मुद्गस्यार्धं सुनिक्षिपेत् ।
महाहविरथो वक्ष्ये वसुद्रोणाधमाधमम् ॥४३॥

द्विगुणं मध्यमं प्रोक्तं त्रिगुणञ्चोत्तमोत्तमम् ।
चतुःपञ्चषट्गुणितं मध्यमत्रितयं तथा ॥४४॥

सप्ताष्ट नवगुणितमेतदुत्तमकन्त्रयम् ।
उपदंशं ततो वक्ष्ये शृणु तत्त्वङ्गजानन ॥४५॥

द्वात्रिंशदंशमेव स्यात् सर्पिस्तत्र परिग्रहेत् ।
षोडशांशन्तु गुल्माषं दद्ध्यष्टांशन्तु संग्रहेत् ॥४६॥

कदलीपनसाम्राञ्च परिपक्वान् समर्चयेत् ।
तरुणाश्चोपदं शास्युः शृणु वक्ष्योपदंशकान् ॥४७॥

कदली चैव कुश्माण्डोर्वारुकञ्च पटोलिका ।
कोशातकी चरूपुष्पं वेत्राग्रंलिकुचं तथा ॥४८॥

प्रस्थस्य त्रिफलञ्चैव स्तुषित्वा देशिकोत्तमः ।
वल्लीशूलं तथान्त्रान्तं सर्वान्य न्यासमं तथा ॥४९॥

अलाबुन्नालिकेरञ्च सूरणंकारवल्लिका ।
अन्ये रसयुताः शुद्धाः कन्दमूलफलास्तथा ॥५०॥

कटुकाश्च तथा म्लाश्चतिक्ताश्च मधुरास्तथा ।
तथा लाभो पदंशाञ्च पचेल्लवणसंयुतम् ॥५१॥

प्रक्षालनं ततः कृत्वा सत्कृत्वोद्भिस्तु तण्डुलान् ।
बीजमुख्येन मन्त्रेणशोधयित्वा विशेषतः ॥५२॥

अर्धाधिकयुतन्तोयं तण्डुलस्य प्रमाणतः ।
चुल्लिमध्ये न्यसेदग्निं स्वबीजेन तु चार्चयेत् ॥५३॥

तस्योपरि तथा पात्रं काष्ठैरग्निं प्रदीपयेत् ।
क्रिमिजुष्टैस्तथा काष्ठैर्विस्फुलिङ्गयुतेन च ॥५४॥

गन्धपुष्पादिनाभ्यर्च्य वस्त्रेणा वेष्टयेत् ततः ।
पिपीलिकाश्रितैश्चैव काष्ठैरग्निन्नदीपयेत् ॥५५॥

अपक्वमतिपक्वञ्च परिम्लानञ्च वर्जयेत् ।
पात्राणि च शरावाञ्च बाह्यशुद्धिं विशेषतः ॥५६॥

सर्वपात्रेषु तद्भाह्ये त्रिपुण्ड्रन्तु विचक्षणः ।
हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् ॥५७॥

मुखं वस्त्रेण वाच्छाद्य पाचकस्तान् समुद्धरेत् ।
अभ्युक्ष्यपरितोमार्गं छत्रपिञ्छसमायुतम् ॥५८॥

शङ्खध्वनिसमायुक्तमालयन्तु प्रवेशयेत् ।
मण्डपस्योत्तरे भागे दक्षिणे वा निधाय च ॥५९॥

हविष्ये चोपदंशे च आज्ये नैवाभि हारयेत् ।
सौवर्णं रजतन्ताम्रमधवा कदलीदलम् ॥६०॥

शुद्धकांस्येन वा कार्यं पात्रं शतपलेन तु ।
स्थलकापादरहिता त्रिपादीकार्यमस्थिता ॥६१॥

पीठोत्सौधा महाभद्राः शुद्धकांस्यमयाः समाः ।
दर्वीं हस्ते समादाय सप्रमाणां सलक्षणाम् ॥६२॥

तदाज्ये नाभिचर्यादौ पात्रमन्नेन पूरयेत् ।
हविष्यस्य चतुर्भागं निवेद्यं स्यात् शिवस्य तु ॥६३॥

पूर्णचन्द्रमिवाकारं गुल्माषेन गुलेन च ।
फलेनाज्येनदध्ना वा उपदंशैः समावृतम् ॥६४॥

निवेदयेच्छिवायैवं हविष्यं सर्वसिद्धिदम् ।
हृदयेन तु मन्त्रेण निवेद्य विधिपूर्वकम् ॥६५॥

चतुर्भागैकभागेन परिवारे बलिन्ददेत् ।
चतुर्भागैकभागेन होमकर्मसमाचरेत् ॥६६॥

शेषांस्तु देशिकायैव दातव्यं भोजनं हितम् ।
आचमनं हृदादत्वा चण्डेशाय निवेदयेत् ॥६७॥

तांबूलं दापयेत् पश्चात् पत्रस्यैकफलं तथा ।
फलाच्चतुर्गुणं प्रत्रं तैलमिश्रं सचूर्णकम् ॥६८॥

तत्वान्यान्युपचाराणि हृदयेन तु दापयेत् ।
सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् ॥६९॥

पशूनाञ्च गजादीनां वा जले वाथ निक्षिपेत् ।
अथवा वह्निनादाह्य भूमौ वा खनयेत् बुधः ॥७०॥

सकलानान्तु नैवेद्यं परिचारकभोजनम् ।
तदप्यं यजनैश्चैव भोजने त्वथदोषकृत् ॥७१॥

हविष्यलक्षणं प्रोक्तमग्निकार्य विधिं शृणु ।

इति हविष्यविधि पटलोदशमः॥ १०॥

N/A

References : N/A
Last Updated : October 08, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP