संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| आद्येष्टकाविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - आद्येष्टकाविधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् आद्येष्टकाविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि शृणुत्वं प्रथमेऽष्टकाम् ।खननं पूरणङ्कृत्वा वास्तु देवान् प्रपूजयेत् ॥१॥तस्योत्तरे प्रपाङ्कृत्वा पूर्वे वाथ विशेषतः ।स्थण्डिलन्तस्य मध्ये तु शालिभिश्चतुरङ्गुलम् ॥२॥अधिवास्यार्ध रात्रौ तु चतस्रः प्रथमेऽष्टकाः ।शिलामयविमानञ्चेच्छिलाखण्डाधिवासयेत् ॥३॥इष्टकामय धाम्नि तु इष्टाकास्थापयेत् सुधीः ।तालत्रयसमुत्सेधं द्विगुणेन सुविस्तृतम् ॥४॥विस्तार द्विगुणायामं कारयेन्मध्यमोत्तमे ।अध्यर्धतालमतालं मध्यमान्मध्यभावयेत् ॥५॥तालमात्रसमुत्सेधं मध्यमादधमं भवेत् ।मध्यमत्रयमित्युक्तं मथमत्रयमुच्यते ॥६॥एकादशाङ्गुलोन्नत्या ह्यधमोत्तममाचरेत् ।नवाङ्गुलेन तन्मध्यं सप्ताङ्गुल्याधमाधमम् ॥७॥उन्नतिस्त्वेवमाख्यातं द्विगुणैर्विस्तृतिर्भवेत् ।तासां द्विगुणकैर्दैर्घ्यं मानैः सर्वाणिकारयेत् ॥८॥शिलायाः कथितं मानमिष्टकायाः शृणु क्रमात् ।षडङ्गुलं तदुत्सेधं द्वादशाङ्गुलविस्तृतम् ॥९॥विस्तारद्विगुणं दैर्घ्यमुत्तमोत्तममेव हि ।त्रियङ्गुलप्रमाणेन कनीयससमुन्नती ॥१०॥उत्तमाधमयोर्मध्य सप्तधासुविभाजिते ।नवधा भेदमाख्यातं यथारुचि समाचरेत् ॥११॥उन्नते द्विगुणन्तारं तस्मात् द्विगुणमायतम् ।एवं सुपक्वकैकार्यं सुदृढैस्तु मनोहरैः ॥१२॥मूलं स्थूलं भवेन्नारी ह्यग्रं स्थूलं नपुंसकम् ।मूलमग्रं समञ्चेत्तु पुल्लिङ्गमिति निश्चितम् ॥१३॥पुल्लिङ्गैश्चैव पूंसां स्यात् स्त्रीणां स्त्रीलिङ्गकैस्तथा ।पाटलिपुष्पसंकाशामिष्टकांशं ग्रहेत् ततः ॥१४॥सूत्रैर्दर्भैरथावृत्य वस्त्रैरावेष्ट्य यत्नतः ।गन्धपुष्पैरलङ्कृत्य स्थण्डिलोपरिविन्यसेत् ॥१५॥तस्य पूर्वे तु कलशान् स वस्त्रान् सूत्रवेष्टितान् ।विद्येश्वरसमायुक्तान् स्थण्डिलोपरिविन्यसेत् ॥१६॥मध्यमे शिवकुम्भन्तु तस्य वामे तु वर्धनीम् ।पूजयेद्धृदये नैव गन्धपुष्पादिभिः क्रमात् ॥१७॥तस्यैवोत्तरदिग्भागे होमं कुर्याद्विचक्षणः ।समिदाज्यान्नकैश्चैव यथा विधिविशेषतः ॥१८॥तिलतण्डुलसंमिश्रैर्विशेषेण घृत प्लुतैः ।ईशानेन तु मन्त्रेण जुहुया तु शताहुतिः ॥१९॥शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्यान्ते जुहुयात् ततः ।प्रभातेसु मुहूर्ते तु इष्टकास्थापनं भवेत् ॥२०॥स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ।मन्त्रोक्त सर्वकर्माणि स्थापकेन समाचरेत् ॥२१॥मन्त्रहीनञ्च यत् कर्म सर्वं स्थपतिना कुरु ।कृतञ्चेत् मन्त्रयुक्कर्मत्वभिचाराय तत् भवेत् ॥२२॥तस्मात् सर्वप्रयत्नेन मन्त्रोक्तान् स्थापकेन तु ।सुमुहूर्ते न्यसेद्विद्वांश्चतस्रश्चेष्टकाः क्रमात् ॥२३॥द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेऽष्टकाः ।पूर्वादिषु चतुर्दिक्षु चतुर्भिर्ब्रह्मभिर्न्यसेत् ॥२४॥अग्रमग्रन्तथैशान्ये मूलग्रमञ्च नै-ऋते ।मूलाग्रञ्चाग्नि वायव्यां स्थापयेत् तु विचक्षणः ॥२५॥सद्यादि ब्रह्ममन्त्रेण पूर्वादिपुरुषादिके ।तेषां मध्ये तदा गर्ते पूरयेदुदकैः शुभैः ॥२६॥कलशान्तस्थ तोयैश्च शिवमन्त्रेण पूरयेत् ।शुभं स्याद्दक्षिणावर्तं वामावर्तमशोभनम् ॥२७॥तद्दोषशमनार्थन्तु ईशानेन शताहुतिः ।तत्रैव नवरत्नानि विन्यसेदनुपूर्वशः ॥२८॥वज्रमौक्तिक वैडूर्य शङ्खस्फटिक पुष्यकान् ।चन्द्रकान्तं महानीलं माणिक्कञ्चक्रमां न्यसेत् ॥२९॥तेषामभावे सौवर्णं विन्यसेत् तु विचक्षणः ।गजदन्ते तथा क्षेत्रे वल्मीके कर्कटालये ॥३०॥वृष शृङ्गे हृदे नद्याञ्तीर्थे वै पर्वते तथा ।समुद्रे च मृदं ग्राह्य पूरयेदवटं तथा ॥३१॥मृदलाभे तु मतिमां नदीतीरे मृदंग्रहेत् ।अत ऊर्ध्वं प्रकर्तव्यं प्रासादं लक्षणेन तु ॥३२॥आद्येऽष्टका विधिः प्रोक्ता गर्भन्यासविधिं शृणु ।इति आद्येऽष्टकाविधि पटल अष्टविंशतितमः ॥२८॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP