संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुप्रभेदागमः|क्रियापदः| नित्योत्सवविधि पटलः क्रियापदः प्रश्नविधिपटलः तन्त्रावतारविधिपटलः मन्त्रोद्धार पटलः शौचाचमन पटलः स्नान पटलः भस्मस्नान पटलः अर्चनाङ्ग पटलः शिवार्चनविधि पटलः मुद्रालक्षण पटलः हविष्यविधि पटलः अग्निकार्यविधि पटलः कुण्डलक्षण पटलः नित्योत्सवविधि पटलः शिवोत्सवविधि पटलः स्नपनविधि पटलः शीतकुम्भविधि पटलः नवनैवेद्य विधि पटलः कृत्तिकादीपविधि पटलः आषाढपूरकर्मविधि पटलः फलपाकविधि पटलः अग्निकार्यविधि पटलः करणाधिकारलक्षण पटलः ग्रामादिलक्षण पटलः विभवनिश्चय पटलः कर्षण पटलः तरुणालयलक्षण पटलः प्रासादवास्तु लक्षणपटलः आद्येष्टकाविधि पटलः गर्भन्यासविधि पटलः अङ्गुली लक्षणविधि पटलः प्रासादलक्षणविधि पटलः मूर्धेऽष्टकाविधि पटलः लिङ्गलक्षणविधि पटलः सकललक्षणविधिपटलः अङ्कुरार्पणविधि पटलः लिङ्गप्रतिष्ठाविधिपटलः स्वायंभुलिंगागमम् सकलप्रतिष्ठाविधि पटलः शक्तिप्रतिष्ठाविधिपटलः परिवारविधिपटलः वृषभस्थापनविधिपटलः वह्निस्थापनविधिपटलः मातृस्थापनविधिपटलः विघ्नेशस्थापनविधिपटलः स्कन्दस्थापनविधिपटलः ज्येष्ठास्थापनविधि पटलः दुर्गास्थापनविधिपटलः चण्डेशस्थापनविधिपटलः चक्रादिस्थापनविधिपटलः आदित्यस्थापनविधिपटलः क्षेत्रेशस्थापनविधिपटलः शूलस्थापनविधिपटलः अस्त्रराजविधिपटलः आदित्यस्थापनविधिपटलः जीर्णोद्धारविधिपटलः प्रायश्चित्तविधिपटलः तन्त्रसंकरविधिपटलः क्रियापदः - नित्योत्सवविधि पटलः सुप्रभेदागमः Tags : sanskritsuprabhedamसंस्कृतसुप्रभेदम् नित्योत्सवविधि पटलः Translation - भाषांतर अथातः संप्रवक्ष्यामि नित्योत्सव विधिक्रमम् ।त्रिकालमर्चनान्ते तु क्रतोर्बलिरुदाहृतम् ॥१॥सर्वेषाञ्च बलिं कुर्यात् ततो बलिरिति स्मृतम् ।यक्षराक्षस पैशाच भूतनागास्तथैव च ॥२॥श्रुत्वैव तद्बलेःशब्दं सद्योगच्छन्ति बाह्यतः ।तस्मात् सर्वप्रयत्नेन कुर्यान्नित्योत्सवं बुधः ॥३॥मण्डपाद्दक्षिणे भागे मण्डलञ्चतुश्रकम् ।सौवर्णं राजतन्ताम्रं कांस्यं वा पात्रमुच्यते ॥४॥चतुस्त्रिद्वियवं पात्रघनंस्यादुत्तमादिके ।विस्तारं हस्तमानं स्यादोष्ठन्नवमथाङ्गुलम् ॥५॥घनं नवचतुष्कं स्यात् पात्रमेध्येऽब्जमुच्यते ।त्रिभागैकन्तु विस्तारं पात्रं काम्स्ये न कारयेत् ॥६॥तस्याब्जस्योच्चंद्व्यङ्गुल्यमेकाङ्गुलमथापि वा ।कर्तव्यं कर्णिका बाह्ये दलाष्टकमथार्धतः ॥७॥उत्सेधार्द्धं तदर्द्धं स्याद्दलाग्रन्तु नवोन्नतम् ।पात्रं वृत्तं प्रकर्तव्यं मध्यमे विंशदङ्गुलम् ॥८॥अधमे षोडशाङ्गुल्यं पात्र विस्तारमुच्यते ।एवं कृत्वा बलेः पात्रं मण्डले विन्यसेत् सुधीः ॥९॥तत स्त्रिकालमन्नेन बलिर्लिङ्गस्यचोत्तमम् ।प्रातर्मध्याह्नमन्नेन मध्यन्तु विदुर्बुधाः ॥१०॥मध्याह्ने चान्नलिङ्गन्तु अधमन्तत् गजानन ।पूर्वाह्णे पुष्पलिङ्गन्तु सा ये तण्डुलमेव च ॥११॥उत्तमस्याढकञ्च स्यान्मध्यमस्य तदर्धकम् ।अधमं पञ्चपादन्तु तण्डुलं पाचयेत् क्रमात् ॥१२॥अपक्वमति पक्वञ्च अत्युष्णमतिशीतलम् ।बलेस्तुरसलवणं वर्जयेद् देशिकोत्तमः ॥१३॥दधिसर्पिफलैर्मिश्रं मर्दितं सुदृधं यथा ।षोडशाङ्गुलमुत्सेधं मूलन्तद्विगुणं भवेत् ॥१४॥ऊर्ध्वं त्रयङ्गुलन्नाहमानुपूर्वात् क्षयं भवेत् ।मध्यमं द्वादशाङ्गुल्यमूर्ध्वं कुर्यात् द्वयाङ्गुलम् ॥१५॥अष्टाङ्गुलाधमं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् ।अस्त्रं पाशुपतन्न्यस्त्वा रूपन्तत्र विचिन्तयेत् ॥१६॥त्रिणेत्रं चतुर्भुजं रौद्रं शिखाकोटिसमुज्वलम् ।वरदाभयदं हस्तं वामं सव्याक्षशूलधृत् ॥१७॥एवं पाशुपतं ध्यात्वा बलिलिंगेसु पूजयेत् ।दर्शयेदस्त्रमुद्रान्तु शास्त्रमुद्रान्तु देशिकः ॥१८॥नमस्काराब्जमुद्रे च दर्शयेत् तु विशेषतः ।गन्धपुष्पादिनाभ्यर्च्य तद्रूपं प्रतिमां बुधः ॥१९॥पुरस्तात् प्रतिमाङ्गच्छेदन्नादिकमनु व्रजेत् ।दशायुधानि परितः सर्वालंकारसंयुतम् ॥२०॥विधिस्नानं पुराकृत्वा पुर्यष्टिपरिचारकाः ।शुक्लोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ॥२१॥पवित्रपाणिर्मौनी च हस्तमात्रेण दण्डधृत् ।सर्वाभरणसंयुक्तः सर्वावयवसुन्दरः ॥२२॥शिरसाधारयेल्लिङ्गं प्रदक्षिण विशेषतः ।पूर्वाह्णे ब्रह्मणः प्रीतिर्भवेत् बलिविधानतः ॥२३॥रक्तोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ।मध्याह्ने धारयेन्नित्यं मम प्रीतिकरं भवेत् ॥२४॥पीतोष्णी षोत्तरीयश्च विष्णु प्रीतिस्तु सायके ।दक्षिणाभिमुखः शिष्यं संप्रोक्ष्य हृदयेन तु ॥२५॥गन्धं पुष्पन्तथा दत्वा पात्रं शिरसिविन्यसेत् ।रंगेवाशिबिकायां वा गजारूढमथापि वा ॥२६॥अथवा पादगमनं प्रदक्षिणमथाचरेत् ।पटहैर्मद्दलैश्चैव झल्लरी जयघण्टकैः ॥२७॥काहलैस्तालकैः शंखैर्वीणावेणुरवैः सह ।छत्रध्वजसमायुक्त पिञ्छचामरसंयुतम् ॥२८॥धूपदीपसमायुक्तं वितानोपरिशोभितम् ।नृत्तगीतसमोपेतं गणिकाभिरलंकृतम् ॥२९॥अन्यैर्भक्तजनैः सार्धं स्तोत्रध्वनिसमन्वितम् ।पूर्वे तु समहस्तं स्यात् भृंगिणी पततं परम् ॥३०॥तृतीयं कद्रुवाद्यञ्च चतुर्थन्तु च ढक्ककम् ।पञ्चमं कयटञ्चैव कुञ्चितालञ्च षष्ठकम् ॥३१॥सप्तमन्तु प्रहारं स्याद्विषमच्छिन्नचाष्टमम् ।बाह्य पीठैकमावृत्य प्रासादाग्रप्रदक्षिणम् ॥३२॥इन्द्रस्य शुभ्रतालन्तु अग्नेर्बाद्धावणं भवेत् ।यमस्यद्व्यगुणीतालं नि-ऋतौमल्लतालकम् ॥३३॥वारण्यान्नवतालन्तु वायोर्वैनागतालकम् ।सोमस्य कोल्लिका प्रोक्ता ईशानस्य तु ढक्करी ॥३४॥इत्येतैः कल्पितास्तालैः प्रासादं त्रिःप्रदक्षिणम् ।कृत्वा पादौ सुसंक्षाल्यपादुकार्चनमारभेत् ॥३५॥पाद्यैराचमनैरर्घ्यैर्गन्धैः पुष्पैः सुधूपकैः ।बलिञ्च प्रथमञ्चैव पूजयेत् तु विशेषतः ॥३६॥विदोलयं ततः पश्चाद्विन्यस्य पूर्वमण्डले ।गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रवित् ॥३७॥प्रागुक्तेनास्तमन्त्रेण शिव संयोजयेत् सुधीः ।संपूज्य देवदेवेशं नमस्काराख्यमुद्रया ॥३८॥सव्यापसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् ।दण्डवत् प्रणमेद्वाथ दण्डाख्यमिति च स्मृतम् ॥३९॥दण्डाख्यः श्रूयते पश्चादष्टाङ्गं सन्नियोजयेत् ।शिरोजानू च कर्णौ च चिबुकं बाहुकद्वयम् ॥४०॥अष्टांगेन नमस्कुर्यात् पञ्चाङ्गोप्यत्र तं शृणु ।शिरोहस्तौ द्विजानू च कृत्वा पञ्चभुवि स्थितम् ॥४१॥इदं पञ्चाङ्गमेवन्तु नमस्कारत्रयं स्मृतम् ।अधमं ह्येतदाख्यातं यथा शक्त्येनकारयेत् ॥४२॥ततोपहारपुष्पाणि चण्डेशायनि वेदयेत् ।अन्नलिङ्गञ्जले वापि बाह्यपीठे विनिक्षिपेत् ॥४३॥तदन्ते कारयेन्नृन्तं तदुक्तविधिनासह ।तदुपाङ्गमिति प्रोक्तमर्चनान्ते तु नित्यशः ॥४४॥चित्रालङ्कारसंयुक्ते मण्डपे समलंकृते ।भेर्यादींस्तु तथा यान्ती शिवसंस्थितान् ॥४५॥नर्त्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितौ ।गायकोवंशकश्चैव उत्तरे विनिवेशितम् ॥४६॥आचार्यौ दक्षिणे देशे सौम्ये तस्याधिप स्मृतम् ।सुस्नात्वा सम्यगाचम्य गन्धद्रव्यादिपूर्वकम् ॥४७॥शुक्लवस्त्रपरिधानाः शुक्लमाल्योपशोभिता ।सर्वाभरणसंपूर्णा नृत्तगेयसुपेशला ॥४८॥पूर्वासन्ध्यास्तु गान्धारं षाडपञ्च ततः परम् ।मध्याह्ने नट्टरागं स्यात् कौशिकञ्च ततः परम् ॥४९॥साये तु चेदकं प्रोक्तमर्धरात्रे तु पञ्चमम् ।भरतोक्तं यथा नृत्तं सन्धिं प्रतिसुकारयेत् ॥५०॥एवं नृत्तं कृतं यत्र सुभिक्षं लोकशान्तिकम् ।दुर्निमित्तानि नश्यन्ति क्षेत्रमारोधकं नृणाम् ॥५१॥ककाराधि पतिश्चापि भोगमोक्षप्रादायकम् ।कवाटबन्धनं कृत्वा स्वगृहं सन्निवेशयेत् ॥५२॥एवं नित्योत्सवं प्रोक्तमुत्सवञ्च ततः शृणु ।इति नित्योत्सवविधि पटलस्त्रयोदशः॥ १३॥ N/A References : N/A Last Updated : October 08, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP